Adhikarana kAsasya nidAnasamprAptipUrvakaM lakShaNam (1-2) · Śloka 2
अथ कासनिदानम् |
धूमोपघाताद्रसतस्तथैव व्यायामरूक्षान्ननिषेवणाच्च |
विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ||१||
प्राणो ह्युदानानुगतः प्रदुष्टः स भिन्नकांस्यस्वनतुल्यघोषः |
निरेति वक्त्रात् सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः ||२||
(सु. उ. तं. अ. ५२) |
क्षयरूपे कासपाठात् कासोपेक्षया च क्षयोत्पत्तेस्तदनन्तरं कासनिदानमाह– धूमोपघातादित्यादि| धूमेन मुखनासाप्रविष्टेनोपघातो धूमोपघातः| रसत इति वातेनोर्ध्वं नीतादामरसात्, ‘रजस’ इति पाठान्तरे मुखनासाप्रविष्टधूलेरित्यर्थः| विमार्गगत्वं च हि भोजनस्यातिद्रुताभ्यवहारादिना| चशब्दः समुच्चये, हि पादपूरणे| वेगावरोधादिति पुरीषादेः, तेन हि वायुरूर्ध्वगः स्यात्| क्षवथोस्तथैवेति वेगावरोधादिति सम्बन्धः| प्राणो वायुरुदानेन दुष्टेनानुगतो वक्त्रान्निरेति| स वायुः, भिन्नकांस्यपात्रवत् हतस्वनः कास इति प्रदिष्टः| सदोषः सकफपित्तः, वातिकपैत्तिकादिभेदभिन्न इति वा| एतेनैव समानस्थाननिदानाभ्यां हिक्काश्वासाभ्यामस्य भेदः, न हि तत्र वातिकपैत्तिकादिभेदेन व्यपदेश इति गदाधरः| कसति शिरःकण्ठादूर्ध्वं गच्छति वायुरिति कासः, ‘कस’ गतौ इत्यस्मात्; ‘कसनात् कासः’ (च. चि. अ. १८) इति चरके पाठः; कासनं कास इति वा, “भिन्नस्वरः कासति शुष्कमेव” (सु. उ. तं. अ. ५२) इति सुश्रुतदर्शनात्||१-२||
Adhikarana kAsasa~gkhyA (3) · Śloka 3
पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः |
क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ||३||
(अ. हृ. नि. अ. ३) |
सङ्ख्यामाह– पञ्चेत्यादि| पञ्च कासा इति सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां पञ्चग्रहणं जराकासस्य दोषजेष्वन्तर्भूतस्याधिकत्वनिरासार्थं, पञ्चानामपि वा क्षयकारणत्वप्रतिपादनार्थमिति| क्षयाय धातुक्षयाय||३||
Adhikarana kAsapUrvarUpam (4) · Śloka 4
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता |
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ||४||
(च. चि. अ. २२) |
पूर्वरूपमाह– पूर्वेत्यादि| भोज्यानामवरोध इति अरुचिरभ्यवहारासामर्थ्यं वा||४||
Adhikarana vAtikakAsalakShaNam (5) · Śloka 5
हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः |
प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ||५||
(सु. उ. तं. अ. ५२) |
वातिककासस्वरूपमाह– हृदित्यादि| शङ्खो ललाटैकदेशः| क्षामाननः शुष्कमुखः, वातेन शोषणात्| प्रसक्तवेगः सततकासवेगः| शुष्कमिति श्लेष्मादिनिष्ठीवनरहितम्||५||
Adhikarana paittikakAsalakShaNam (6) · Śloka 6
उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः |
पित्तेन पीतानि वमेत् कटूनि कासेत् सपाण्डुः परिदह्यमानः ||६||
(सु. उ. तं. अ. ५२) |
पैत्तिककासमाह– उर इत्यादि| अभ्यर्दितः पीडितः||६||
Adhikarana kaphajakAsalakShaNam (7) · Śloka 7
प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः |
अभक्तरुग्गौरवकण्डुयुक्तः कासेद्भृशं सान्द्रकफः कफेन ||७||
(सु. उ. तं. अ. ५२) |
कफजकासमाह– प्रलिप्यमानेनेत्यादि| प्रलिप्यमानेन श्लेष्मलिप्तेन मुखेनोपलक्षितः, सीदन् अङ्गावसादयुक्तः| अभक्तरुक् अरुचिः||७||
Adhikarana kShatajakAsalakShaNam (8-11) · Śloka 11
अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः |
रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमाचरेत् ||८||
स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् |
कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||९||
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना |
दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||१०||
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः |
पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ||११||
(सु. उ. तं. अ. ५२) |
क्षतकासमाह– अतिव्यवायेत्यादि| विग्रहो विधारणं युद्धस्योपात्तत्वात्; ‘निग्रह’ इति पाठे स एवार्थः| ततः ष्ठीवेत् सशोणितमिति कासाभिघातेन हृदयस्य विदारणात्| कण्ठेनेति उपलक्षणे तृतीया, एवमुरसेति| विरुग्णेनेव भग्नेनेव, सूचीभिरिव तुद्यमानेन, शूलिना दुःखस्पर्शेन चोरसेति सम्बन्धः| दुःखस्पर्शत्वं स्पर्शासहत्वम्| शूलेनोपलक्षितः, तच्च पार्श्वादौ बोध्यम्| वाग्भटेनापि पठ्यते– ‘पार्श्वशूली’ (वा. नि. अ. ३) इति| भेदपीडाभितापिनेति शूलविशेषणम्| पारावत इव कूजन्, भवतीति शेषः||८-११||
Adhikarana kShayajakAsalakShaNam (12-13) · Śloka 13
विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् |
घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः |
कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् ||१२||
स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी |
शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् |
तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ||१३||
(सु. उ. तं. अ. ५२) |
क्षयजकासमाह– विषमेत्यादि| घृणिनां शोचतां चाहाराभावात् कुपितेन वायुनाऽग्नेरुप्लवाद्दोषत्रयप्रकोप इति| क्षयजमिति शुक्रादिधातुक्षयजं, नतु राजयक्ष्मजम्| त्रिदोषजेऽपि राजयक्ष्मणि कासः कफेनैव क्रियते| यदुक्तम्– “कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः|” इति; क्षयजकासस्तु त्रिदोषज इति| ननु, कासादेव क्षयो जायते तत् कथं क्षयजः कास इति? उक्तं हि– “कासात् सञ्जायते क्षयः|” (च. चि. अ. ८) इति| उच्यते– दृष्टो हि परस्परं व्यक्तिभेदेन कार्यकारणभावो बहुशः, यथाऽतीसारार्शोग्निमान्द्यादाविति| ननु स गात्रशूलेत्यादिश्लोकार्धस्य क्षयजकासमध्ये पाठोऽयुक्तः प्रतिभाति, सुश्रुते क्षतजकासे पठितत्वात्; क्षयकासश्चात्र चरकसुश्रुतवाक्ये मेलयित्वा माधवकरेण लिखितः; उच्यते– स गात्रशूलेत्याद्यनन्तरं क्षयकासः सुश्रुतेन पठितः; तेन ‘सगात्रशूल’ इत्यादिश्लोकार्धस्य परेण सम्बन्धात् क्षयकासलिङ्गत्वमिति माधवकरस्याभिप्राय; एतच्चान्ये नानुमन्यन्ते, यतः क्षतकासस्यावस्थायामसाध्यत्वख्यापनपरमेतद्व्याख्यातं जेज्जटेन, गयदासेनापि क्षतजकासरूपत्वेनेति||१२-१३||
Adhikarana kAsasya sAdhyatvAdilakShaNam (14-15) · Śloka 15
इत्येष क्षयजः कासः क्षीणानां देहनाशनः |
साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः ||१४||
नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ |
स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः |
त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यैर्याप्यांस्तु यापयेत् ||१५||
(सु. उ. तं. अ. ५२) |
असाध्यत्वादिलक्षणमाह– इतीत्यादि| पादगुणान्विताविति वैद्यादिचतुष्पादसम्पन्नौ| स्थविराणां वृद्धानां; स्थविराणामित्युक्तेऽपि जराशब्दोपादानं जरानिमित्तधातुक्षयज एव कासो याप्यः, अपचारजनितदोषजस्तु साध्य इति बोधनार्थम्||१४-१५||
Adhikarana puShpikA · Śloka 11
इति श्रीमाधवकरविरचिते माधवनिदाने कासनिदानं समाप्तम् ||११||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां कासनिदानं समाप्तम्||११||