Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

11. kāsanidānam

Adhikarana kAsasya nidAnasamprAptipUrvakaM lakShaNam (1-2) · Śloka 2

अथ कासनिदानम् | धूमोपघाताद्रसतस्तथैव व्यायामरूक्षान्ननिषेवणाच्च | विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ||१|| प्राणो ह्युदानानुगतः प्रदुष्टः स भिन्नकांस्यस्वनतुल्यघोषः | निरेति वक्त्रात् सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः ||२|| (सु. उ. तं. अ. ५२) |

🔊 Audio coming soon

Adhikarana kAsasa~gkhyA (3) · Śloka 3

पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः | क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ||३|| (अ. हृ. नि. अ. ३) |

🔊 Audio coming soon

Adhikarana kAsapUrvarUpam (4) · Śloka 4

पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता | कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ||४|| (च. चि. अ. २२) |

🔊 Audio coming soon

Adhikarana vAtikakAsalakShaNam (5) · Śloka 5

हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः | प्रसक्तवेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव ||५|| (सु. उ. तं. अ. ५२) |

🔊 Audio coming soon

Adhikarana paittikakAsalakShaNam (6) · Śloka 6

उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः | पित्तेन पीतानि वमेत् कटूनि कासेत् सपाण्डुः परिदह्यमानः ||६|| (सु. उ. तं. अ. ५२) |

🔊 Audio coming soon

Adhikarana kaphajakAsalakShaNam (7) · Śloka 7

प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः | अभक्तरुग्गौरवकण्डुयुक्तः कासेद्भृशं सान्द्रकफः कफेन ||७|| (सु. उ. तं. अ. ५२) |

🔊 Audio coming soon

Adhikarana kShatajakAsalakShaNam (8-11) · Śloka 11

अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः | रूक्षस्योरःक्षतं वायुर्गृहीत्वा कासमाचरेत् ||८|| स पूर्वं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् | कण्ठेन रुजताऽत्यर्थं विरुग्णेनेव चोरसा ||९|| सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना | दुःखस्पर्शेन शूलेन भेदपीडाभितापिना ||१०|| पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडितः | पारावत इवाकूजन् कासवेगात् क्षतोद्भवात् ||११|| (सु. उ. तं. अ. ५२) |

🔊 Audio coming soon

Adhikarana kShayajakAsalakShaNam (12-13) · Śloka 13

विषमासात्म्यभोज्यातिव्यवायाद्वेगनिग्रहात् | घृणिनां शोचतां नॄणां व्यापन्नेऽग्नौ त्रयो मलाः | कुपिताः क्षयजं कासं कुर्युर्देहक्षयप्रदम् ||१२|| स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी | शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् | तं सर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति ||१३|| (सु. उ. तं. अ. ५२) |

🔊 Audio coming soon

Adhikarana kAsasya sAdhyatvAdilakShaNam (14-15) · Śloka 15

इत्येष क्षयजः कासः क्षीणानां देहनाशनः | साध्यो बलवतां वा स्याद्याप्यस्त्वेवं क्षतोत्थितः ||१४|| नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ | स्थविराणां जराकासः सर्वो याप्यः प्रकीर्तितः | त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यैर्याप्यांस्तु यापयेत् ||१५|| (सु. उ. तं. अ. ५२) |

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 11

इति श्रीमाधवकरविरचिते माधवनिदाने कासनिदानं समाप्तम् ||११||

🔊 Audio coming soon