मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
विगुणानिलत्वादसङ्ख्येयत्वेऽपि विशिष्टा अष्टौ गतीराह– भुग्नोऽनिलेनेत्यादि| भुग्नो विगुणीकृतः| बहुधेति कथितप्रकारादप्यधिकं दर्शयति| द्वारं निरुध्य शिरसेत्येकः प्रकारः, शिरसा विपुलेन द्वारं योनिमुखं पिधाय लग्नो भवतीत्यर्थः| जठरेण कश्चिदित्यपरः, जठरेणोदरेण योनिद्वारं पिधाय सक्तो भवतीत्यर्थः| कश्चित् शरीरपरिवर्तितकुब्जदेह इति शरीरपरिवर्तनेन कुब्जदेहः कश्चित् सक्तो भवति, अनेनान्तःकुब्जपृष्ठकुब्जयोः परिग्रहः| एकेनेति बाहुना, अयं चतुर्थः| तिर्यग्गत इति अर्गलायमानः| कश्चिदवाङ्मुखोऽन्य इति ग्रीवाभङ्गादधः संलग्नः| पार्श्वापवृत्तगतिरिति पार्श्वभङ्गेन विगुणीकृतः; पार्श्वनत इति यावत्| एतीति स्वस्थानादपैति, तथैवेति अवाङ्मुखः सन्| सुश्रुतेऽप्यष्टधा गतिरेव पठ्यते| यथा– “कश्चिद्द्वाभ्यां सक्थिभ्यां योनिमुखं प्रपद्यते, कश्चिदाभुग्नैकसक्थिरेकेन सक्थ्ना, कश्चिदाभुग्नसक्थिशरीरः स्फिग्देशेन तिर्यगागतः, कश्चिदुदरपृष्ठपार्श्वानामन्यतमेन योनिद्वारं पिधायावतिष्ठते, अन्तःपार्श्वापवृत्तशिराः कश्चिदेकेन बाहुना, कश्चिदाभुग्नशिरा बाहुद्वयेन, कश्चिदाभुग्नमध्यो हस्तपादशिरोभिः, कश्चिदेकेन सक्थ्ना योनिमुखमभिप्रपद्यते अपरेण पायुम्|” (सु. नि. अ. ८) इति||४-५||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
विगुणानिलयोगादसङ्ख्येयां गतिमाह– भुग्न इत्यादि| भुग्नो विपरीतीकृतः, बहुधेति उक्तप्रकारादधिकम्| तत्र व्यवहारयोग्यानष्टौ प्रकारानाह– द्वारमिति| विपुलेन शिरसा योनिमुखं पिधाय लग्नो भवति, इत्येकः प्रकारः| अपरो ध्मातेन जठरेणोदरेण योनिकुब्जमुखं पिधाय सक्तो भवतीति द्वितीयः प्रकारः| कश्चित् शरीरपरिवर्तनेन विपरीतवर्तनेन देहः सक्तो भवति, अनेन चान्तःकुब्जपृष्ठकुब्जयोः परिग्रहः, अयं तृतीयः प्रकारः| कश्चिदेकेन बाहुना इति चतुर्थः प्रकारः| अपरो बाहुद्वयेनेति पञ्चमः प्रकारः| पार्श्वापवृत्तगतिरिति पार्श्वभङ्गेन विगुणीकृतः पार्श्वनत इति यावत्| एतीति स्वस्थानादपैति| तथैवेत्यवाङ्मुखः सन्, एवमष्टधा गतिर्भवति| गर्भस्य चतुरः प्रकारान् पुनराह– अप्यपराश्चतुर्धा इत्यादि| सङ्कीलकादिभेदेन अपरा वक्ष्यमाणाश्चतुःप्रकाराः||४-५||