Adhikarana mUrchAyA nidAnaM samprAptishca (1-5) · Śloka 5
अथ मूर्छा-भ्रम-निद्रा-तन्द्रा-सन्न्यासनिदानम् |
क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः |
वेगाघातादभिघाताद्धीनसत्त्वस्य वा पुनः ||१||
करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च |
निविशन्ते यदा दोषास्तदा मूर्छन्ति मानवाः ||२||
सञ्ज्ञावहासु नाडीषु पिहितास्वनिलादिभिः |
तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ||३||
सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत् |
मोहो मूर्छेति तामाहुः षड्विधा सा प्रकीर्तिता ||४||
वातादिभिः शोणितेन मद्येन च विषेण च |
षट्स्वप्येतासु पित्तं तु प्रभुत्वेनावतिष्ठते ||५||
(सु. उ. तं. अ. ४६) |
Adhikarana mUrchApUrvarUpam (6) · Śloka 6
हृत्पीडा जृम्भणं ग्लानिः सञ्ज्ञादौर्बल्यमेव च |
सर्वासां पूर्वरूपाणि, यथास्वं ता विभावयेत् ||६||
(सु. उ. तं. अ. ४६) |
Adhikarana vAtajamUrchAyalakShaNam (7-8) · Śloka 8
नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम् |
पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते ||७||
वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च |
कार्श्यं श्यावाऽरुणा छाया मूर्छाये वातसम्भवे ||८||
(च. सू. अ. २४) |
Adhikarana pittajamUrchAyalakShaNam (9-10) · Śloka 10
रक्तं हरितवर्णं वा वियत् पीतमथापि वा |
पश्यंस्तमः प्रविशति सस्वेदश्च प्रबुध्यते ||९||
(सपिपासः ससन्तापो रक्तपीताकुलेक्षणः) |
जातमात्रे पतति च शीघ्रं च प्रतिबुध्यते |
सम्भिन्नवर्चाः पीताभो मूर्छाये पित्तसम्भवे ||१०||
(च. सू. अ. २४) |
Adhikarana kaphajamUrchAyalakShaNam (11-12) · Śloka 12
मेघसङ्काशमाकाशमावृतं वा तमोघनैः |
पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ||११||
गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा |
सप्रसेकः सहृल्लासो मूर्छाये कफसम्भवे ||१२||
(च. सू. अ. २४) |
Adhikarana sAnnipAtikamUrchAyalakShaNam (13) · Śloka 13
सर्वाकृतिः सन्निपातादपस्मार इवागतः |
स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ||१३||
(च. सू. अ. २४) |
Adhikarana raktajamUrchAyasamprAptiH (14) · Śloka 14
पृथिव्यापस्तमोरूपं रक्तगन्धस्तदन्वयः |
तस्माद्रक्तस्य गन्धेन मूर्छन्ति भुविमानवाः ||१४||
द्रव्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति |
(सु. उ. तं. अ. ४६) |
Adhikarana viShajamUrchAyasya madyajamUrchAyasya ca samprAptiH (15) · Śloka 15
गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः ||१५||
त एव तस्मात्ताभ्यां तु मोहौ स्यातां यथेरितौ |
(सु. उ. तं. अ. ४६) |
Adhikarana raktajAdimUrchAtrayasya rUpANi (16-18) · Śloka 18
स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्छितः ||१६||
मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः |
गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् ||१७||
वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्छिते |
वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः ||१८||
(सु. उ. तं. अ. ४६) |
Adhikarana mUrchAbhramatandrAnidrAdInAM parasparaM bhedaH, bhramalakShaNaM ca (19) · Śloka 19
मूर्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः |
तमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ||१९||
(सु. शा. अ. ४) |
(चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्वदा |
भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः) |
Adhikarana tandrAlakShaNam (20) · Śloka 20
इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः |
निद्रार्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ||२०||
(सु. शा. अ. २४) |
Adhikarana sannyAsasya mUrchAdibhyo bhedaH (21) · Śloka 21
दोषेषु मदमूर्छायाः कृतवेगेषु देहिनाम् |
स्वयमेवोपशाम्यन्ति सन्न्यासो नौषधैर्विना ||२१||
(च. सू. अ. २४) |
Adhikarana sannyAsalakShaNam (22-23) · Śloka 23
वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः |
सन्न्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः ||२२||
स ना सन्न्याससन्न्यस्तः काष्ठीभूतो मृतोपमः |
प्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यःफलां क्रियाम् ||२३||
(च. सू. अ. २४) |
Adhikarana puShpikA · Śloka 17
इति श्रीमाधवकरविरचिते माधवनिदाने मूर्छाभ्रमनिद्रातन्द्रासन्न्यासनिदानं समाप्तम् ||१७||