Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

41. vraṇaśōthanidānam

Adhikarana vraNashothasya vishiShTalakShaNam (1-2) · Śloka 2

अथ व्रणशोथनिदानम् | एकदेशोत्थितः शोथो व्रणानां पूर्वलक्षणम् | षड्विधः स्यात् पृथक्सर्वरक्तागन्तुनिमित्तजः ||१|| शोथाः षडेते विज्ञेयाः प्रागुक्तैः शोथलक्षणैः | विशेषः कथ्यते चैषां पक्वापक्वादिनिश्चये ||२||

🔊 Audio coming soon

प्रायेण चिकित्सासाधर्म्याद् भाविव्रणत्वसम्बन्धतुल्यत्वाच्च व्रणशोथनिदानमाह– एकदेशोत्थित इत्यादि| षड्विध इति सङ्ख्याकथनं द्वन्द्वजनिषेधार्थम्| प्रागुक्तैरिति आमपक्वैषणीयोक्तैः; तत्र हि “वातश्वयथुररुणः कृष्णो वा परुषो मृदुरनवस्थितः” (सु. सू. अ. १७) इत्यादिना षट्शोथलक्षणान्युक्तानि| विशेषः कथ्यते चैषामिति तत्रानुक्तो विशेषः कथ्यत इत्यर्थः| पक्वापक्वादिनिश्चय इति अत्रादिशब्देन पच्यमानस्य परिग्रहः||१-२||

Adhikarana vraNashothasya vAtajAdibhedena visheShalakShaNam (3) · Śloka 3

विषमं पच्यते वातात् पित्तोत्थश्चाचिराच्चिरम् | कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवः ||३||

🔊 Audio coming soon

वातादिभेदेन विशेषलक्षणमाह– विषममित्यादि| पित्तवदिति पित्तशोथवदचिरं पच्यते||३||

Adhikarana vraNashothasyAmalakShaNam (4) · Śloka 4

मन्दोष्मताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता | मन्दवेदनता चैतच्छोथानामामलक्षणम् ||४||

🔊 Audio coming soon

आमशोथलक्षणमाह– मन्देति| मन्दोष्मता ईषदुष्णता, त्वक्सवर्णता त्वक्सदृश एव वर्णः||४||

Adhikarana pacyamAnavraNashothalakShaNam (5-8) · Śloka 8

दह्यते दहनेनेव क्षारेणेव च पच्यते | पिपीलिकागणेनेव दश्यते छिद्यते तथा ||५|| भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते | पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ||६|| सोषाचोषो विवर्णः स्यादङ्गुल्येवावघट्यते | आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ||७|| न गच्छेदाततः शोथो भवेदाध्मातबस्तिवत् | ज्वरस्तृष्णाऽरुचिश्चैव पच्यमानस्य लक्षणम् ||८||

🔊 Audio coming soon

पच्यमानलक्षणमाह– दह्यत इत्यादि| पच्यमानशोथे पित्तलिङ्गान्येव भूयसा भवन्ति, विदाहस्य पित्तप्रकोपजत्वात्; विदाहश्चात्र दोषादीनामेव| तेन ज्वरतृष्णारुच्यादयोऽत्र पित्तलिङ्गानि| छिद्यत इति द्विधा क्रियत इव| भिद्यत इति विदार्यते| सोषाचोष इति उषा दाहः, चोषः पार्श्वस्थाग्निसन्तापवद्व्यथा, ताभ्यां सह वर्तते यः स तथा||५-८||

Adhikarana pakvavraNashothalakShaNam (9-11) · Śloka 11

वेदनोपशमः शोथोऽलोहितोऽल्पो न चोन्नतः | प्रादुर्भावो वलीनां च तोदः कण्डूर्मुहुर्मुहुः ||९|| उपद्रवाणां प्रशमो निम्नता स्फुटनं त्वचाम् | बस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङ्गुलिपीडिते ||१०|| पूयस्य पीडयत्येकमन्तमन्ते च पीडीते | भक्ताकाङ्क्षा भवेच्चैतच्छोथानां पक्वलक्षणम् ||११||

🔊 Audio coming soon

पक्वलक्षणमाह– वेदनोपशम इत्यादि| दाहादिवेदनोपशान्तिः, विदाहोपशमेन पित्तस्याबलवत्त्वात्| तोदः कण्डूश्चात्र वातकफलिङ्गम्| प्रादुर्भावो वलीनामिति मांसशैथिल्याद्वलीसम्भवः| उपद्रवाणां प्रशम इति पित्तकोपजनिता उषाचोषतृष्णारुच्यादयो रोगा एव उपद्रवास्तेषां प्रशमः| निम्नता स्वरूपतः, अङ्गुलिपीडनाद्वा| स्फुटनं त्वचामिति किञ्चित्त्वगवदरणम्| बस्ताविवेत्यादि| बस्तिश्चर्मपुटकम्, पूयस्येत्यत्र ‘सञ्चार’ इति शेषः| अयमर्थः– बस्तौ यथाऽम्बुसञ्चारस्तथा शोथेऽङ्गुलिपीडिते सति पूयस्य सञ्चारः| पीडयत्येकमन्तमन्ते च पीडित इति एकमन्तं देशम्, अन्ते अवयवे पीडिते पीडयति अवगाहते, ‘पूय’ इति शेषः||९-११||

Adhikarana ekadoShArabdhe~api shothe pAkakAle sarvadoShasambandhaH (12) · Śloka 12

नर्तेऽनिलाद्रुङ्न विना च पित्तं पाकः कफं चापि विना न पूयः | तस्माद्धि सर्वे परिपाककाले पचन्ति शोथांस्त्रय एव दोषाः ||१२|| (सु. सू. अ. १७) |

🔊 Audio coming soon

एकदोषारब्धेऽपि शोथे पाककाले सर्वदोषसम्बन्धमाह– नर्तेऽनिलाद्रुगित्यादि| रुग्रुजा तोदादिरूपा| सुश्रुते– “त्रिभिरेतैः शोणितचतुर्थैश्च शरीरमिदं धार्यते” (सु. सू. अ. २१) इति द्वितीयं दर्शनं शोणितप्राधान्याख्यापकमाश्रित्योक्तम्– “कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य| पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः||” (सु. सू. अ. १७) इति| अत्र दर्शने पित्तं विदाहकुपितं शोणितं दूष्यं कर्मभूतं पचति, वातकफौ वशे कृत्वा क्रोडीकृत्य; हीनार्थो वा वशेशब्दः, वातकफौ हीनौ कृत्वेत्यर्थः; शोणितं कर्तृभूतं वा, तेन पक्त्यनुकूलत्वाद्विवक्षितं; पूर्वदर्शने कफात् पूयः, अत्र दर्शने शोणितात् पूय इति विशेषः| गम्भीरपाके शोथे सकलामपच्यमानलक्षणानुदयादज्ञायमाने लक्षणान्तरमुक्तं सुश्रुतेन| तद्यथा– “कफजेषु खलु शोथेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति भिषङ्मोहमुपैति, यत्र हि त्वक्सवर्णता शीतशोथता अल्परुजता अश्मवद्घनता च, न तत्र मोहमुपेयात्|” (सु. सू. अ. १७) इति| अस्यार्थः– यदा रागदाहादिवेदनासमुदायानन्तरं त्वक्सवर्णतादीनि भवन्ति तदा न मोहमज्ञानतामुपेयात् पक्वमेवेति निश्चिनुयात्| गदाधरेण तु त्वक्सवर्णतादीनि संशयहेतून्युक्तानि; यतस्तेन “गम्भीरपाकित्वादन्तः पाको बहिः पुनस्त्वक्सावर्ण्यं, गम्भीरपाकित्वादेव बहिः शीतता, कफारब्धत्वान्मन्दरुजताऽश्मवच्च घनता” इत्यभिधाय “शेषं पक्वलक्षणैर्जानीयात्” इत्युक्तम्||१२||

Adhikarana aviniHsRutasya pUyasya vikArAntarakartRutvam (13-14) · Śloka 14

कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य | पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः ||१३|| कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य | तथैव पूयो ह्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ||१४|| (सु. सू. अ. १७) |

🔊 Audio coming soon

अविनिःसृतस्य पूयस्य दोषमाह– कक्षमित्यादि| कक्षं समासाद्येति कक्षं तृणादिगहनम्||१३-१४||

Adhikarana AmashothaM chedayataH pakvaM copekShato vaidyasya nindA (15-16) · Śloka 16

आमं विदह्यमानं च सम्यक् पक्वं च यो भिषक् | जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ||१५|| यश्छिनत्त्याममज्ञानाद्यो वा पक्वमुपेक्षते | श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ||१६|| (सु. सू. अ. १७) |

🔊 Audio coming soon

श्वपचाविव चण्डालाविव, मन्तव्यौ ज्ञातव्यौ| शेषास्तस्करवृत्तय इति लोभमात्रप्रयुक्तत्वात्तस्करा इव शेषाः||१५-१६||

Adhikarana puShpikA · Śloka 41

इति श्रीमाधवकरविरचिते माधवनिदाने व्रणशोथनिदानं समाप्तम् ||४१||

🔊 Audio coming soon

इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायां व्रणशोथनिदानं समाप्तम्||४१||