अथ व्रणशोथनिदानम् | एकदेशोत्थितः शोथो व्रणानां पूर्वलक्षणम् | षड्विधः स्यात् पृथक्सर्वरक्तागन्तुनिमित्तजः ||१|| शोथाः षडेते विज्ञेयाः प्रागुक्तैः शोथलक्षणैः | विशेषः कथ्यते चैषां पक्वापक्वादिनिश्चये ||२||
🔊 Audio coming soon
Hide commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
प्रायेण चिकित्सासाधर्म्याद् भाविव्रणत्वसम्बन्धतुल्यत्वाच्च व्रणशोथनिदानमाह– एकदेशोत्थित इत्यादि| षड्विध इति सङ्ख्याकथनं द्वन्द्वजनिषेधार्थम्| प्रागुक्तैरिति आमपक्वैषणीयोक्तैः; तत्र हि “वातश्वयथुररुणः कृष्णो वा परुषो मृदुरनवस्थितः” (सु. सू. अ. १७) इत्यादिना षट्शोथलक्षणान्युक्तानि| विशेषः कथ्यते चैषामिति तत्रानुक्तो विशेषः कथ्यत इत्यर्थः| पक्वापक्वादिनिश्चय इति अत्रादिशब्देन पच्यमानस्य परिग्रहः||१-२||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
व्रणचिकित्सासामान्याद्भाविव्रणत्वसम्बन्धतुल्यत्वाच्च व्रणशोथनिदानारम्भः| तेषां प्राग्रूपेण सङ्ख्यामाह– एकेत्यादि| एकदेशे शोथः एतद्व्रणपूर्वरूपं; स च षड्विधः– त्रिभिर्दोषैस्त्रयः, सन्निपातेनैकः, रक्तेनैकः, अन्य आगन्तुकः अभिघातजः, एवं षट्, षड्विध इति सङ्ख्याकथनं द्वन्द्वजनिषेधार्थम्| तेषां लक्षणनिर्देशं दर्शयन्नाह– शोथा इति| प्रागुक्तैरिति| शोथनिदानोक्तैश्च, ‘रसस्तनुत्वक्परुषारुणादिकैः’ इत्यादि| साम्प्रतं पक्वापक्वादिनिश्चय इत्यत्रादिशब्देन पच्यमानावस्थायाः ग्रहणम्||१-२||