Adhikarana shothasamprAptiH (1-2) · Śloka 3
अथ शोथनिदानम् |
रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः |
नीत्वा रुद्धगतिस्तैर्हि कुर्यात्त्वङ्मांससंश्रयम् ||१||
उत्सेधं संहतं शोथं तमाहुर्निचयादतः |
सर्वं हेतुविशेषैस्तु रूपभेदान्नवात्मकम् ||२||
दोषैः पृथग्द्वयैः सर्वैरभिघाताद्विषादपि |३|
(वा. नि. अ. १३) |
Adhikarana shothapUrvarUpam (3) · Śloka 3
तत्पूर्वरूपं दवथुः सिरायामोऽङ्गगौरवम् ||३||
(वा. नि. अ. १३) |
Adhikarana shothanidAnam (4-5) · Śloka 5
शुद्ध्यामयाभुक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा |
दध्याममृच्छाकविरोधिदुष्टगरोपसृष्टान्ननिषेवणं च ||४||
अर्शांस्यचेष्टा न च देहशुद्धिर्मर्मोपघातो विषमा प्रसूतिः |
मिथ्योपचारः प्रतिकर्मणां च निजस्य हेतुः श्वयथोः प्रदिष्टः ||५||
(च. चि. अ. १२) |
Adhikarana shothasAmAnyalakShaNam (6) · Śloka 6
सगौरवं स्यादनवस्थितत्वं सोत्सेधमूष्माऽथ सिरातनुत्वम् |
सलोमहर्षश्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ||६||
Adhikarana vAtashothali~ggam (7) · Śloka 7
चलस्तनुत्वक् परुषोऽरुणोऽसितः सुषुप्तिहर्षार्तियुतोऽनिमित्ततः |
प्रशाम्यति प्रोन्नमति प्रपीडितो दिवाबली च श्वयथुः समीरणात् ||७||
(च. चि. अ. १२) |
Adhikarana paittikashothali~ggam (8) · Śloka 8
मृदुः सगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः |
य उष्यते स्पष्टरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान् ||८||
(च. चि. अ. १२) |
Adhikarana kaphajashothali~ggam (9) · Śloka 9
गुरुः स्थिरः पाण्डुररोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृत् |
स कृच्छ्रजन्मप्रशमो निपीडितो न चोन्नमेद्रात्रिबली कफात्मकः ||९||
(च. चि. अ. १२) |
Adhikarana dvidoShaja-sannipAtajashothali~ggam (10) · Śloka 10
निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः |
सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः ||१०||
(च. सू. अ. १८) |
Adhikarana abhighAtajashothali~ggam (11-12) · Śloka 12
अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः |
हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः ||११||
रसैः शूकैश्च संस्पर्शाच्छ्वयथुः स्याद्विसर्पवान् |
भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ||१२||
(वा. नि. अ. १३) |
Adhikarana viShajashvayathuli~ggam (13-14) · Śloka 15
विषजः सविषप्राणिपरिसर्पणमूत्रणात् |
दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ||१३||
विण्मूत्रशुक्रोपहतमलवद्वस्त्रसङ्करात् |
विषवृक्षानिलस्पर्शाद्गरयोगावचूर्णनात् ||१४||
मृदुश्चलोऽवलम्बी च शीघ्रो दाहरुजाकरः |१५|
(वा. नि. अ. १३) |
Adhikarana yatrasthA doShA yatra deshe shothaM kurvanti tannirUpaNam (15-16) · Śloka 16
दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः ||१५||
पक्वाशयस्था मध्ये तु वर्चःस्थानगतास्त्वधः |
कृत्स्नदेहमनुप्राप्ताः कुर्युः सर्वसरं तथा ||१६||
(सु. चि. अ. २३) |
Adhikarana shothasya sAdhyAsAdhyavicAraH (17-20) · Śloka 20
यो मध्यदेशे श्वयथुः स कष्टः सर्वगश्च यः |
अर्धाङ्गे रिष्टभूतः स्याद्यश्चोर्ध्वं परिसर्पति ||१७||
श्वासः पिपासा छर्दिश्च दौर्बल्यं ज्वर एव च |
यस्य चान्ने रुचिर्नास्ति श्वयथुं तं विवर्जयेत् ||१८||
(सु. चि. अ. २३) |
अनन्योपद्रवकृतः शोथः पादसमुत्थितः |
पुरुषं हन्ति नारीं च मुखजो गुह्यजो द्वयम् |
नवोऽनुपद्रवः शोथः साध्योऽसाध्यः पुरेरितः ||१९||
(वा. नि. अ. १३) |
विवर्जयेत् कुक्ष्युदराश्रितं च तथा गले मर्मणि संश्रितं च |
स्थूलः खरश्चापि भवेद्विवर्ज्यो यश्चापि बालस्थविराबलानाम् ||२०||
Adhikarana puShpikA · Śloka 36
इति श्रीमाधवकरविरचिते माधवनिदाने शोथनिदानं समाप्तम् ||३६||