Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

35. udaranidānam

Adhikarana udarasya vahniduShTijanyatvam (1) · Śloka 1

अथोदरनिदानम् | रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि च | अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात् ||१|| (वा. नि. अ. १२) |

🔊 Audio coming soon

उदरोत्सेधसाधर्म्यादुदरनिदानम्| उदरस्य विशेषेण वह्निदुष्टिजन्यत्वमाह– रोगा इत्यादि| अग्निमान्द्यं च दोषत्रयजनकम्| यदुक्तम्– “वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः|” (च. सू. अ. ६) इति| मलिनैरिति अत्यर्थदोषजनकैर्विरुद्धाध्यशनादिभिः| मलसञ्चयादिति मला दोषाः पुरीषादयश्च, तेषामतिवृद्धत्वात्| तन्त्रान्तरं च– “अतिसञ्चितदोषाणां पापं कर्म च कुर्वताम्| उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः||” इति| यद्यपि मन्दाग्नित्वमलिनान्नत्वयोः प्रत्येकमपि दोषत्रयजनकत्वमस्ति, तथाऽप्यत्रोभयहेतुजनकत्वेन दोषदुष्टिप्रकर्षः ख्याप्यते, अत एव दुष्टिप्रकर्षख्यापनार्थं ‘मलसञ्चयात्’ इत्यत्र सम्पूर्वं कृतवान्||१||

Adhikarana udarasamprAptiH (2) · Śloka 2

रुद्ध्वा स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः | प्राणाग्न्यपानान् सन्दूष्य जनयन्त्युदरं नृणाम् ||२|| (च. चि. अ. १३) |

🔊 Audio coming soon

सम्प्राप्तिमाह– रुद्ध्वेत्यादि| स्वेदाम्बुवाहीनीति स्वेदवहानि अम्बुवहानि च| अनयोश्च भेदः, “उदकवहानां स्रोतसां तालुमूलं क्लोम च; स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च|” (च. वि. अ. ५) इत्यनेनोक्तो ज्ञेयः| स्रोतोरोधश्चात्र बहिरेव न पुनरन्तः| यदुक्तं चरके– “स्वेदस्तु बाह्येषु स्रोतःसु प्रतिहतगतिस्तिर्यगवतिष्ठमानस्तदेवोदकमाप्याययति|” (च. चि. अ. १३) इति| अत एवोदरपूर्णता अन्नरसेन| प्राणाग्नीति पुनरग्निदूषणाभिधानेन मन्दस्याप्यग्नेः पुनर्दोषकृतं सुतरां मान्द्यं बोधयति| दोषसञ्चयगतेनापि वायुना प्राणापानयोर्दूषणं न विरुद्धं, यतो वायुना वाय्वन्तरदुष्टिः क्रियत एव| सुश्रुते तु पूर्वरूपमस्योक्तं; तद्यथा– “तत्पूर्वरूपं बलवर्णकाङ्क्षावलीविनाशो जठरे हि राज्यः| जीर्णापरिज्ञानविदाहवत्यो बस्तौ रुजः पादगतश्च शोथः||” (सु. नि. अ. ७) इति||२||

Adhikarana udarANAM sAmAnyarUpam (3-4) · Śloka 5

आध्मानं गमनेऽशक्तिर्दौर्बल्यं दुर्बलाग्निता | शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ||३|| दाहस्तन्द्रा च सर्वेषु जठरेषु भवन्ति हि | (सु. नि. अ. ७) | पृथग्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ||४|| सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु |५|

🔊 Audio coming soon

उदराणां सामान्यरूपमाह– आध्मानमित्यादि| दुर्बलाग्नितेति मन्दोऽग्निर्यद्यप्यत्र हेतुस्तथाऽप्यग्नेरतिशयदौर्बल्यं लिङ्गत्वेन ज्ञेयम्| उदराण्यष्टाविति यकृद्दाल्युदरस्य प्लीहोदरेण सार्धं समानचिकित्स्यतया तथोत्पत्तिविशिष्टदकोदरात् क्रमेण भूतदकोदरस्यापि समानलिङ्गचिकित्सितत्वेनाभिन्नत्वात् अष्टावेवोदराणि भवन्ति| प्लीहोदरादीनि च यद्यपि चत्वारि दोषजानि, तथाऽपि हेतुलिङ्गचिकित्साभेदात् पृथगुक्तानि||३-४||–

Adhikarana vAtodaralakShaNam (5-8) · Śloka 8

तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु ||५|| कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम् | शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः ||६|| श्यावारुणत्वगादित्वमकस्माद्वृद्धिह्रासवत् | सतोदभेदमुदरं तनुकृष्णसिराततम् ||७|| आध्मातदृतिवच्छब्दमाहतं प्रकरोति च | वायुश्चात्र सरुक्शब्दो विचरेत् सर्वतो गतिः ||८|| (वा. नि. अ. १२) |

🔊 Audio coming soon

वातोदरलक्षणमाह– तत्रेत्यादि| अकस्माद्वृद्धिह्रासवदिति अनियतवृद्धिह्रासयुक्तमुदरम्| आध्मातदृतिवदिति वातपूर्णचर्मपुटवदिति||५-८||

Adhikarana paittikodaralakShaNam (9-10) · Śloka 10

पित्तोदरे ज्वरो मूर्छा दाहस्तृट् कटुकास्यता | भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित् ||९|| पीतताम्रसिरानद्धं सस्वेदं सोष्म दह्यते | धूमायते मृदुस्पर्शं क्षिप्रपाकं प्रदूयते ||१०|| (वा. नि. अ. १२) |

🔊 Audio coming soon

पैत्तिकमाह– पित्तेत्यादि| दह्यत इति उदरमात्रं दह्यते| दाहस्तु सकलदेहस्यैव बोद्धव्यः| धूमायते धूम इवोर्ध्वमेति| क्षिप्रपाकमिति क्षिप्रपाकाज्जलोदरतां यातीत्यर्थः| प्रदूयते व्यथते||९-१०||

Adhikarana shlaiShmikodaralakShaNaM, sannipAtodaralakShaNaM ca (11-14) · Śloka 14

श्लेष्मोदरेऽङ्गसदनं स्वापश्वयथुगौरवम् | निद्रोत्क्लेशोऽरुचिः श्वासः कासः शुक्लत्वगादिता ||११|| उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत् | चिराभिवृद्धं कठिनं शीतस्पर्शं गुरु स्थिरम् ||१२|| (वा. नि. अ. १२) | स्त्रियोऽन्नपानं नखलोममूत्रविडार्तवैर्युक्तमसाधुवृत्ताः | यस्मै प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसेवनाद्वा ||१३|| तेनाशु रक्तं कुपिताश्च दोषाः कुर्युः सुघोरं जठरं त्रिलिङ्गम् | तच्छीतवाते भृशदुर्दिने च विशेषतः कुप्यति दह्यते च ||१४|| स चातुरो मुह्यति हि प्रसक्तं पाण्डुः कृशः शुष्यति तृष्णया च | दूष्योदरं कीर्तितमेतदेव ...|| (सु. नि. अ. ७) |

🔊 Audio coming soon

सन्निपातोदरमाह– स्त्रिय इत्यादि| स्त्रीग्रहणमविवेकिसन्निहितजनोपलक्षणम्| गरं संयोगजं विषम्| दुष्टमम्बु सगरप्राणितृणपर्णादिकोथयुतं, विषमेवाग्न्याद्युपहतं मन्दप्रभावं वा दूषीविषमुच्यते| यदुक्तम्– “जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा| स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति||” (सु. क. अ. २) इति| तेनाशु रक्तमिति विषस्याग्नेयत्वेन रक्तदुष्टिः| कुपिताश्च दोषा इति स्वभावात् दोषत्रयप्रकोपकं विषं भवति| तच्छीतवातादिषु कुप्यतीति| दूष्योदरं कीर्तितमेतदेवेति एतदेव सन्निपातोदरं दूष्योदरं कीर्तितं, न पुनरधिकमित्यर्थः| रक्तं दूष्यं दूषयित्वा भवतीति दूष्योदरं; किंवा परस्परं दूषयन्तीति दोषा एव दूष्यास्तैः कृतमुदरमिति||११-१४||–

Adhikarana plIhodaralakShaNam (15-17) · Śloka 17

... प्लीहोदरं कीर्तयतो निबोध ||१५|| विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसृक् कफश्च | प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौ प्लीहोत्थमेतज्जठरं वदन्ति ||१६|| तद्वामपार्श्वे परिवृद्धिमेति विशेषतः सीदति चातुरोऽत्र | मन्दज्वराग्निः कफपित्तलिङ्गैरुपद्रुतः क्षीणबलोऽतिपाण्डुः | सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृद्दाल्युदरं तदेव ||१७|| (सु. नि. अ. ७) |

🔊 Audio coming soon

प्लीहोदरमाह– प्लीहेत्यादि| असृक्कफश्चेत्यसृग्दुष्ट्यैव तत्तुल्यकारणतया पित्तदुष्टिरप्युच्यते, विदाहिना रक्तं पित्तं च दूष्यते; अत एव पश्चात् वक्ष्यति– “कफपित्तलिङ्गैरुपद्रुतः” इति| अत्र पित्तस्य लिङ्गं मन्दज्वरः, कफस्य लिङ्गं मन्दाग्नित्वमिति गदाधरः| प्लीहोदर एव यकृद्दाल्युदरस्यावरोधं दर्शयन्नाह– सव्यान्यपार्श्व इत्यादि| सव्यान्यपार्श्वे दक्षिणपार्श्वे| तदेवेति तादृशमेव, प्लीहोदरसममेव; न विलक्षणमित्यर्थः| यकृद्दालयति दोषैर्भेदयतीति यकृद्दाल्युदरम्||१५-१७||

Adhikarana plIhodare doShasambandhena lakShaNAni (18) · Śloka 18

उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः | गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात् ||१८|| (वा. नि. अ. १२) |

🔊 Audio coming soon

तत्र दोषसम्बन्धमाह– उदावर्तेत्यादि| उदावर्तरुजानाहैर्वातं, मोहतृड्दहनज्वरैः पित्तं, गौरवारुचिकाठिन्यैः कफं जानीयात्||१८||

Adhikarana baddhagudodaralakShaNam (19-20) · Śloka 20

यस्यान्त्रमन्नैरुपलेपिभिर्वा बालाश्मभिर्वा पिहितं यथावत् | सञ्चीयते तस्य मलः सदोषः शनैः शनैः सङ्करवच्च नाड्याम् ||१९|| निरुध्यते तस्य गुदे पुरीषं निरेति कृच्छ्रादपि चाल्पमल्पम् | हृन्नाभिमध्ये परिवृद्धिमेति तस्योदरं बद्धगुदं वदन्ति ||२०|| (सु. नि. अ. ७) |

🔊 Audio coming soon

बद्धगुदमाह– यस्यान्त्रमन्नैरित्यादि| उपलेपिभिः पिच्छिलैरन्नैः शाकशालुकादिभिः| पिहितं विबद्धम्| यथावदिति यथार्हम्| मलः पुरीषम्| सदोष इति दोषत्रयसहितः| नाड्यामित्यन्त्रनाड्याम्| सङ्करवदिति सम्मार्जनीक्षिप्यमाणतृणाद्यवकरो यथा चीयते क्रमेण तथेत्यर्थः| बद्धगुदमिति गुदोपरि अन्त्रस्य बद्धत्वाद्बद्धगुदम्| यदुक्तं चरके– “पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे|” (च. चि. अ. १३) इति| पुरीषायतनस्य रुद्धत्वात् हृन्नाभिमध्येऽन्नपाकस्थाने वृद्धिः; गुदमात्रनिरोधे तु मलदोषैर्गुदादूर्ध्वमेवोदरवृद्धिः स्यात्||१९-२०||

Adhikarana kShatodaralakShaNam (21) · Śloka 22

शल्यं तथाऽन्नोपहितं यदन्त्रं भुक्तं भिनत्त्यागतमन्यथा वा | तस्मात्स्रुतोऽन्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु भूयः ||२१|| नाभेरधश्चोदरमेति वृद्धिं निस्तुद्यते दाल्यति चातिमात्रम् | एतत् परिस्राव्युदरं प्रदिष्टं ... |२२| (सु. नि. अ. ७) |

🔊 Audio coming soon

क्षतोदरमाह– शल्यमित्यादि| शल्यं कण्टकशर्करादि| अन्नोपहितमन्नयुक्तम्| भुक्तमागतमिति अर्थतः पाकाशयात्; विलोमेनागतमन्त्रं भिनत्ति, ऋज्वागतं हि शल्यमपि नान्त्रभेदकम्| अन्यथा वेति जृम्भणात्यशनाभ्यामन्त्रं भिद्यते| यदुक्तं चरके– “शर्करातृणलोष्टास्थिकण्टकैरन्नसंयुतैः| भिद्येतान्त्रं यदा भुक्तैर्जृम्भयाऽत्यशनेन वा||” (च. चि. अ. १३) इति| स्रुत इति गलितः| ‘स्रावः स्रवेद्वै गुदतस्तु भूयः’ इति भूयो बहु यथा भवति तथाऽन्त्रात् स्रुतः; दोषजेषु पुनरुपस्नेहन्यायेनाल्प एव स्रावो भूयः पुनः पुनः गुदतश्च स्रवेत्| तुशब्दश्चार्थे, भूयःशब्दोऽत्रावर्तनीयः; तेनोक्ता व्याख्या साध्वी भवति| ननु, भिन्नान्त्रात्तिर्यगत्र स्रावनिर्गमः; तत् कथं “स्रावः स्रवेद्वै गुदतस्तु भूय” इत्युपपद्यते? नैवं, सच्छिद्रान्त्रमार्गेण बहिर्गतस्यातिवृद्धस्य पुनरागमनात् उपस्नेहन्यायाद्वा गुदतः स्राव उपपन्न एव| चरकेऽप्युक्तम्– “पूरयन् गुदमन्त्रं च जनयत्युदरं नृणाम्|” (च. चि. अ. १३) इति| तेन स्रावेण द्रवस्य निम्नगत्वान्नाभेरधो जठरं वृद्धिमेति; एतच्छिद्रोदरं जलोदरमिति भण्यते इति गदाधरः| यतश्चरकेणोक्तम्– “तदधो नाभेः प्रायोऽभिनिर्वर्तमानं जलोदरं स्यात्|” (च. चि. अ. १३) इति| तदन्ये नानुमन्यन्ते, यतश्छिद्रोदरं शीघ्रं जलोदरतां यातीत्यभिप्रायेण चरकेणोक्तम्, अन्यथा दकोदरं पृथङ्न स्यात्||२१||–

Adhikarana dakodarasya nidAnasamprAptipUrvakaM lakShaNam (22-24) · Śloka 24

... दकोदरं कीर्तयतो निबोध ||२२|| यः स्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथवा निरूढः | पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दूष्यन्ति हि तद्वहानि ||२३|| स्नेहोपलिप्तेष्वथवाऽपि तेषु दकोदरं पूर्ववदभ्युपैति | स्निग्धं महत्तत्परिवृत्तनाभिसमाततं पूर्णमिवाम्बुना च | यथा दृतिः क्षुभ्यति कम्पते च शब्दायते चापि दकोदरं तत् ||२४|| (सु. नि. अ. ७) |

🔊 Audio coming soon

उत्पत्तिविशिष्टं दकोदरमाह– यः स्नेहपीत इत्यादि| स्नेहपीत इति कर्तरि क्तः, तेन स्नेहं पीतवानित्यर्थः| दूष्यन्तीति स्वकर्मसु दुष्टानि भवन्ति| तद्वहानि उदकवहानि| तेष्विति उदकवहस्रोतःसु| पूर्ववदिति यथा पूर्वमुक्तम्| अन्नरस उपस्नेहन्यायेन बहिर्निःसृत्योदरं जनयतीत्यर्थ इति जेज्जटः| गदाधरस्त्वाह– क्षतान्त्रोदरे यथा अधोनाभेरुदराभिवृद्धिर्गुदस्रावश्च तथा जलोदरेऽपि भवतीति| ननु, सर्वेषामेव उपस्नेहन्यायेन बहिर्निःसृतान्नरसमूलत्वात् कथमनुदकत्वं? नैवं, तेषु हि प्रथमतो नातिमन्दत्वादग्नेरन्नरसस्याल्पत्वाच्चानुदकत्वम्, अल्पत्वेन तद्व्यपदेशात्; अत्र तु प्रागेव भूरिजलोत्पत्तिरिति विशेषः| समाततं वेदनया विस्तार्यमाणमिवोदरं भवति| यथा दृतिः क्षुभ्यतीति दृतिरिव जलपूर्णा क्षुभ्यतीति, अन्तर्जलचलनमिव धत्ते| शब्दायते गुडगुडायते||२२-२४||

Adhikarana udarasya sAdhyAsAdhyavicAraH (25-26) · Śloka 27

जन्मनैवोदरं सर्वं प्रायः कृच्छ्रतमं मतम् | बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम् ||२५|| पक्षाद्बद्धगुदं तूर्ध्वं सर्वं जातोदकं तथा | प्रायो भवत्यभावाय छिद्रान्त्रं चोदरं नृणाम् ||२६|| (च. चि. अ. १३)० |२७|

🔊 Audio coming soon

उदररोगस्य साध्यत्वादिलक्षणमाह– जन्मनैवेत्यादि| जन्मनैवोदरमिति उत्पन्नमात्रेणैव| अजातोदकस्योदरस्य लक्षणं चरकेऽवगन्तव्यं; तद्यथा– “अशोथमरुणाभासं सशब्दं नातिभारिकम्| सदा गुडगुडायन्तं सिराजालगवाक्षितम्|| नाभिं विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति| हृद्वङ्क्षणकटीनाभिगुदप्रत्येकशूलिनः|| कर्कशं सृजतो वातं नातिमन्दे च पावके| लालया विरसे चास्ये मूत्रेऽल्पे संहते विशि|| अजातोदकमित्येतैर्युक्तं विज्ञाय लक्षणैः|” (च. चि. अ. १३) इति| अत्र कर्कशमिति वेगवन्तम्| जातोदकलक्षणं च चरके यथा– “कुक्षेरतिमात्रं वृद्धिः सिरान्तर्धानगमनम् उदकपूर्णदृतिसमानक्षोभस्पर्शनं च भवति|” (च. चि. अ. १३) इति| पक्षादित्यादि| बद्धगुदमुदरं पक्षादूर्ध्वं विनाशाय भवतीति| जातोदकं पक्षात्| प्रायोग्रहणेन कदाचित् पक्षादूर्ध्वमपि न विनाशाय, तथा शल्यशास्त्राभिमतया चिकित्सया कदाचिज्जातोदकं छिद्रान्त्रं बद्धगुदं च सिध्यतीति दर्शयति| जातोदकं छिद्रान्त्रं च विनाशाय पक्षादूर्ध्वमिति सम्बन्ध इति केचित्||२५-२६||

Adhikarana avasthAvisheSheNodarasyAsAdhyatvam (27-28) · Śloka 28

शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् | बलशोणितमांसाग्निपरिक्षीणं च वर्जयेत् ||२७|| (च. चि. अ. १३) | पार्श्वभङ्गान्नविद्वेषशोथातीसारपीडितम् | विरिक्तं चाप्युदरिणं पूर्यमाणं विवर्जयेत् ||२८|| (सु. सू. अ. ३३) |

🔊 Audio coming soon

साध्यतयाऽभिहितानामप्यवस्थाविशेषेणासाध्यतामाह– शूनाक्षमित्यादि| ‘उदरिणम्’ इति शेषः| कुटिलोपस्थमिति वक्रमेहनम्| उपक्लिन्नतनुत्वचमिति उपक्लिन्ना तन्वी त्वक् यस्य तम्| अग्निपरिक्षीणमिति अग्निक्षयश्च यद्यप्युदरे पूर्वमेव भवति, तथाऽप्यत्र विशेषेणाग्निक्षयो लक्षणान्तरयुक्तश्चासाध्यतालिङ्गं सम्भवतीति ज्ञेयम्||२७-२८||

Adhikarana puShpikA · Śloka 35

इति श्रीमाधवकरविरचिते माधवनिदाने उदरनिदानं समाप्तम् ||३५||

🔊 Audio coming soon

इति श्रीकण्ठदत्तविरचितायां मधुकोशव्याख्यायामुदरनिदानं समाप्तम्||३५||