Adhikarana shUlasya sannikRuShTanidAnam (1) · Śloka 1
अथ शूलपरिणामशूलान्नद्रवशूलनिदानम् | दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् | सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ||१||
🔊 Audio coming soon
Adhikarana shUlasya sannikRuShTanidAnam (1) · Śloka 1
अथ शूलपरिणामशूलान्नद्रवशूलनिदानम् | दोषैः पृथक् समस्तामद्वन्द्वैः शूलोऽष्टधा भवेत् | सर्वेष्वेतेषु शूलेषु प्रायेण पवनः प्रभुः ||१||
🔊 Audio coming soon
Adhikarana vAtikashUlasya nidAnAdipUrvakaM lakShaNam (2-5) · Śloka 5
व्यायामयानादतिमैथुनाच्च प्रजागराच्छीतजलातिपानात् | कलायमुद्गाढकिकोरदूषादत्यर्थरूक्षाध्यशनाभिघातात् ||२|| कषायतिक्तातिविरूढजान्नविरुद्धवल्लूरकशुष्कशाकात् | विट्शुक्रमूत्रानिलवेगरोधाच्छोकोपवासादतिहास्यभाष्यात् ||३|| वायुः प्रवृद्धो जनयेद्धि शूलं हृत्पार्श्वपृष्ठत्रिकबस्तिदेशे | जीर्णे प्रदोषे च घनागमे च शीते च कोपं समुपैति गाढम् ||४|| मुहुर्मुहुश्चोपशमप्रकोपी विड्वातसंस्तम्भनतोदभेदैः | संस्वेदनाभ्यञ्जनमर्दनाद्यैः स्निग्धोष्णभोज्यैश्च शमं प्रयाति ||५||
🔊 Audio coming soon
Adhikarana paittikashUlasya nidAnAdipUrvakaM lakShaNam (6-8) · Śloka 8
क्षारातितीक्ष्णोष्णविदाहितैलनिष्पावपिण्याककुलत्थयूषैः | कट्वम्लसौवीरसुराविकारैः क्रोधानलायासरविप्रतापैः ||६|| ग्राम्यातियोगादशनैर्विदग्धैः पित्तं प्रकुप्याशु करोति शूलम् | तृण्मोहदाहार्तिकरं हि नाभ्यां संस्वेदमूर्छाभ्रमचोषयुक्तम् ||७|| मध्यन्दिने कुप्यति चार्धरात्रे विदाहकाले जलदात्यये च | शीते च शीतैः समुपैति शान्तिं सुस्वादुशीतैरपि भोजनश्च ||८||
🔊 Audio coming soon
Adhikarana shlaiShmikashUlasya nidAnAdipUrvakaM lakShaNam (9-10) · Śloka 10
आनूपवारिजकिलाटपयोविकारैर्मांसेक्षुपिष्टकृशरातिलशष्कुलीभिः | अन्यैर्बलासजनकैरपि हेतुभिश्च श्लेष्मा प्रकोपमुपगम्य करोति शूलम् ||९|| हृल्लासकाससदनारुचिसम्प्रसेकैरामाशये स्तिमितकोष्ठशिरोगुरुत्वैः | भुक्ते सदैव हि रुजं कुरुतेऽतिमात्रं सूर्योदयेऽथ शिशिरे कुसुमागमे च ||१०||
🔊 Audio coming soon
Adhikarana sAnnipAtikashUlalakShaNam (11) · Śloka 11
सर्वेषु दोषेषु च सर्वलिङ्गं विद्याद्भिषक् सर्वभवं हि शूलम् | सुकष्टमेनं विषवज्रकल्पं विवर्जनीयं प्रवदन्ति तज्ज्ञाः ||११||
🔊 Audio coming soon
Adhikarana AmashUlalakShaNam (12) · Śloka 12
आटोपहृल्लासवमीगुरुत्वस्तैमित्यकानाहकफप्रसेकैः | कफस्य लिङ्गेन समानलिङ्गमामोद्भवं शूलमुदाहरन्ति ||१२||
🔊 Audio coming soon
Adhikarana dvandvajashUlalakShaNam (13-14) · Śloka 14
द्विदोषलक्षणैरेतैर्विद्याच्छूलं द्विदोषजम् | बस्तौ हृत्पार्श्वपृष्ठेषु स शूलः कफवातिकः | कुक्षौ हृन्नाभिमध्येषु स शूलः कफपैत्तिकः ||१३|| दाहज्वरकरो घोरो विज्ञेयो वातपैत्तिकः |१४|
🔊 Audio coming soon
Adhikarana shUlasya sAdhyAsAdhyatvam (14) · Śloka 15
एकदोषोत्थितः साध्यः, कृच्छ्रसाध्यो द्विदोषजः ||१४|| सर्वदोषोत्थितो घोरस्त्वसाध्यो भूर्युपद्रवः |१५|
🔊 Audio coming soon
Adhikarana pariNAmashUlasya nidAnapUrvakaM lakShaNam (15-16) · Śloka 17
स्वैर्निदानैः प्रकुपितो वायुः सन्निहितस्तदा ||१५|| कफपित्ते समावृत्य शूलकारी भवेद्बली | भुक्ते जीर्यति यच्छूलं तदेव परिणामजम् ||१६|| तस्य लक्षणमप्येतत् समासेनाभिधीयते |१७|
🔊 Audio coming soon
Adhikarana pariNAmashUlasya vAtAdibhedena lakShaNAni (17-20) · Śloka 21
आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः ||१७|| स्निग्धोष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् | तृष्णादाहारतिस्वेदं कट्वम्ललवणोत्तरम् ||१८|| शूलं शीतशमप्रायं पैत्तिकं लक्षयेद्बुधः | छर्दिहृल्लाससम्मोहं स्वल्परुग्दीर्घसन्तति ||१९|| कटुतिक्तोपशान्तं च तच्च ज्ञेयं कफात्मकम् | संसृष्टलक्षणं बुद्ध्वा द्विदोषं परिकल्पयेत् ||२०|| त्रिदोषजमसाध्यं तु क्षीणमांसबलानलम् |२१|
🔊 Audio coming soon
Adhikarana annadravashUlalakShaNam (21-22) · Śloka 1
जीर्णे जीर्यत्यजीर्णे वा यच्छूलमुपजायते ||२१|| पथ्यापथ्यप्रयोगेण भोजनभोजनन च | न शमं याति नियमात् सोऽन्नद्रव उदाहृतः ||२२|| (अन्नद्रवाख्यशूलेषु न तावत् स्वास्थ्यमश्नुते | वान्तमात्रे जरत्पित्तं शूलमाशु व्यपोहति) ||१||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 26
इति श्रीमाधवकरविरचिते माधवनिदाने शूलपरिणामशूलान्नद्रवशूलनिदानं समाप्तम् ||२६||
🔊 Audio coming soon