अथ स्वरभेदनिदानम् | अत्युच्चभाषणविषाध्ययनाभिघातसन्दूषणैः प्रकुपिताः पवनादयस्तु | स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ||१|| (सु. उ. तं. अ. ५३) | (वातादिभिः पृथक् सर्वैर्मेदसा च क्षयेण च) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
प्राणोदानदुष्टिसाधर्म्यात् श्वासे च स्वरभेदो भवतीति श्वासानन्तरं स्वरभेदमाह– अत्युच्चभाषणेत्यादि| अध्ययनमुच्चैर्वेदादिपाठः, अभिघातः कण्ठादिदेशे लगुडादिभिराघातः, एतैः सन्दूषणैरन्यैश्च यथास्वं वातादिकोपनैः, विषं तु सर्वदोषप्रकोपणमेव| स्रोतःसु स्वरवहेषु चतुर्षु; यदुक्तं सुश्रुते– “द्वाभ्यां भाषते, द्वाभ्यां घोषं करोति” (सु. शा. अ. ९) इति; भाषणघोषणयोरल्पत्वमहत्त्वाभ्यां भेदः| प्रतिष्ठां स्थितिं, वृद्धिं वा| स इति स्वरभेदः; षड्विधो वातपित्तकफसन्निपातक्षयमेदोजभेदात्||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
हिक्काश्वासौ प्राणोदानदुष्ट्या सम्भवतः, तद्दुष्टिसाधर्म्यात् श्वासानन्तरं स्वरभेदमाह– अत्युच्चेत्यादि| अध्ययनमुच्चैर्वेदादिपाठः; अभिघातः कण्ठप्रदेशे लगुडादिभिः, अथवा बलेन छर्दिजनितः, अथवाऽस्थ्यादिकठिनभोज्यजनितः| विषतस्तु त्रिदोषप्रकोपः| स्रोतःसु स्वरवहेषु चतुर्षु, यदुक्तं सुश्रुते– “द्वाभ्यां भाषते, द्वाभ्यां घोषं करोति” इति; भाषणघोषणयोरल्पत्वमहत्त्वाभ्यां भेदः| एतैः सन्दूषणैरन्यैश्च यथास्वं वातादिकोपनैर्दोषास्तेषु स्रोतःसु प्रतिष्ठां स्थितिं वृद्धिं वा गताः स्वरं हन्युः| स स्वरभेदः षड्विध इति वातपित्तकफसन्निपात क्षयमेदोजनित इति भेदात्||१||