अथोपदंशनिदानम् | हस्ताभिघातान्नखदन्तपातादधावनाद्रत्यतिसेवनाद्वा | योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः ||१||
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
स्थानप्रत्यासत्तेरुपदंशनिदानमाह– हस्तेत्यादि| नखदन्तपातादिति बलवदनुरागोदयात् नखदन्तच्छेदस्थानत्वेनानुक्तेऽपि मेहने नखदन्तपातः; यदुक्तं कामशास्त्रे– “शास्त्रस्य विषयस्तावद्यावन्मन्दरसा नराः| प्रवृत्ते रतिचक्रे तु न शास्त्रं नापि च क्रमः||” (का. सू. सां. अ. २) इति| कलहादिवशाद्वा मेहने नखदन्तपातः| अधावनादप्रक्षालनात्| रत्यतिसेवनादिति व्यवायस्यात्यन्तसेवनात्| योनिप्रदोषादिति दीर्घकर्कशरोमादियोगाद्योनिदुष्टेः| शिश्ने मेहने| विविधापचारैरिति अशुद्धसलिलप्रक्षालनब्रह्मचारिणीगमनादिभिः| उपदंशसञ्ज्ञा च दंशनोपाधिमन्तरेणापि रूढा बोद्धव्या| यद्यप्यभिघातक्षते मेहने उपदंश आगन्तुः षष्ठः सम्भाव्यते, तथाऽपि तस्य दोषलिङ्गयुक्ततया दोषज एवान्तर्भावः||१||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
व्रणत्वसामान्यात्स्थानप्रत्यासन्नत्वादुपदंशनिदानम्| तस्य हेतुमाह– हस्तेत्यादि| नखदन्तपातादिति बलवदनुरागोदयात्प्रबलकामरागवशात् कामिनां मेहने दन्तनखपातो भवति| यदुक्तं कामशास्त्रे– “शास्त्रस्य विषयस्तावद्यावन्मन्दरसा नराः| रतिचक्रे प्रवृत्ते च न शास्त्रं नापि च क्रमः||” इति| कलहादिवशाद्वा मेहने नखदन्तपातः| अधावनादप्रक्षालनात्, अत्युपसेवनादिति व्यवायस्यात्यन्तसेवनात्, योनिप्रदोषात् अल्पमहाद्वारदीर्घकर्कशरोमसङ्कीर्णदेशत्वादियोनिदोषात्, रोगप्रभृतेर्वा योनिदुष्टेः| विविधोपचारैरिति क्षारोष्णमलिनाम्भःप्रक्षालनब्रह्मचारिणीगमनादिभिः| पञ्चोपदंशा इति वातेन, पित्तेन, शोणितेन, कफेन, सन्निपातेन; एवं पञ्च| यद्यप्यभिघातक्षते मेहने उपदंश आगन्तुः षष्ठः सम्भवति, तथाऽपि तस्य दोषलिङ्गयुक्ततया दोषज एवान्तर्भावः||१||