अथ विद्रधिनिदानम् | त्वग्रक्तमांसमेदांसि सन्दूष्यास्थिसमाश्रिताः | दोषाः शोथं शनैर्घोरं जनयन्त्युच्छ्रिता भृशम् ||१|| महामूलं रुजावन्तं वृत्तं वाऽप्यथवाऽऽयतम् | स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ||२|| पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा | षण्णामपि हि तेषां तु लक्षणं सम्प्रवक्ष्यते ||३|| (सु. नि. अ. ९) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
शोथत्वसामान्यात् विद्रधिनिदानम्| तस्य सम्प्राप्तिमाह– त्वग्रक्तमांसमेदांसीत्यादि| घोरमित्यन्येभ्योऽपि शोथसमुत्थानेभ्यो ग्रन्थ्यादिभ्य आशुकारित्वाद्दारुणम्| उच्छ्रिता भृशमिति अत्यर्थं वृद्धाः| अस्थिसमाश्रिता इत्यनेन स्थानसंश्रयोऽभिहितः| उच्छ्रिता भृशमित्यनेन प्रकोप आविष्कृतः, एतेनैवान्तरीयकतया चयप्रसरावप्याक्षिप्तौ मन्तव्यौ| महामूलमस्थ्यादिसमाश्रयणाद्गम्भीरमूलम्| रुजावन्तमिति उत्पत्तावेव रुजाप्रकर्षवन्तम्, अतिशायने मतुप्| वृत्तमित्यादि वृत्तं वर्तुलम्| आयतं दीर्घम्| वृत्तायताभ्यां ग्रन्थ्यादिविलक्षणता| विद्रधिरिति ख्यात इति, इतिशब्देन निरुपाधिसङ्केतमात्रा विद्रधिसञ्ज्ञेति दर्शयति| चरके तु विदाहप्रकर्षाद्विद्रधिसञ्ज्ञा| यदुक्तम्– “स वै शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते|” (च. सू. अ. १७) इति||१-३||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
शोथसामान्याद्विद्रधिनिदानम्| तस्य सम्प्राप्तिमाह– त्वगित्यादि| घोरमन्येभ्यः शोथसमुत्थानेभ्यो ग्रन्थ्यादिभ्यः आशुकारित्वाद्दारुणम्| उच्छ्रिता भृशमिति अत्यर्थं वृद्धाः, अस्थिसमाश्रिता इति स्थानसंश्रयोऽर्थोऽभिहितः| उच्छ्रिता भृशमित्यनेन प्रकोप आविष्कृतः| महामूलम् अस्थ्यादिसमाश्रयणाद् गम्भीरमूलम्| रुजावन्तमुत्पत्तावेव रुजाप्रकर्षवन्तम्| वृत्तं वर्तुलं, आयतं दीर्घं वृत्तत्वायतत्वाभ्यां ग्रन्थ्यादिविलक्षणता कथिता, विद्रधिरिति ख्यात इति| इतिशब्देन निरुपाधिसङ्केतमात्रा विद्रधिरिति सञ्ज्ञेति दर्शयति, चरके तु विदाहप्रकर्षाद्विद्रधिसञ्ज्ञा| यदुक्तम्– “सर्वैः शीघ्रविदाहित्वाद्विद्रधीति निरूप्यते|” इति| स षट्प्रकारः; त्रिभिर्दोषैस्त्रयः, सन्निपातेनैकः, क्षतेनैकः, असृजाऽप्येक इति षट्| षण्णामपि लक्षणं कथ्यते||१-३||