अथ विसर्पनिदानम् | लवणाम्लकटूष्णादिसंसेवादोषकोपतः | विसर्पः सप्तधा ज्ञेयः सर्वतः परिसर्पणात् ||१|| पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः | वातिकः पैत्तिकश्चैव कफजः सान्निपातिकः ||२|| चत्वार एते वीसर्पा वक्ष्यन्ते द्वन्द्वजास्त्रयः | आग्नेयो वातपित्ताभ्यां ग्रन्थ्याख्यः कफवातजः ||३|| यस्तु कर्दमको घोरः स पित्तकफसम्भवः |४| (च. चि. अ. २१) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अम्लपित्तसम्भवच्छर्देर्वेगविधारणाद्रक्तदुष्टौ सत्यां विसर्पोत्पत्तेर्हेतुसाम्यात् तदनन्तरं विसर्पनिदानम्| छर्दिवेगविघातस्य रक्तदूषकत्वे चरकवचनं यथा– “ छर्दिवेगप्रतीघातात् काले चानवसेवनात्| शरत्कालप्रभावाच्च शोणितं सम्प्रदुष्यति||” (च. सू. अ. २४) इति| तस्य निदानपूर्विकां सङ्ख्यां निरुक्तिं चाह– लवणाम्लेत्यादि| “विसर्पो न ह्यसंसृष्टो रक्तपित्तेन लक्ष्यते|” इति वचनात् लवणाम्लादिकं विशेषेण रक्तपित्तनिदानमुक्तम्| संसेवया सततसेवया दोषकोपः संसेवाद्दोषकोपस्ततः| अत्र, आदिग्रहणात् चरकोक्तानां हरितशाकशिण्डाकीप्रभृतीनां ग्रहणम्| सप्तधेति उल्बणैकैकदोषजास्त्रयः, सन्निपातज एकः, त्रयो द्वन्द्वजाः, इति सप्तप्रकारत्वमुक्तम्| सर्वतः परिसर्पणादिति सर्वतः परिसर्पणात् परिसर्पः, विविधं सर्पाणाद्विसर्पः| यदुक्तं चरके– “विविधं सर्पति यतो विसर्पस्तेन स स्मृतः| परिसर्पोऽथवा नाम्ना सर्वतः परिसर्पणात्||” (च. चि. अ. २१) इति||१-३||–
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अम्लपित्तसम्भवच्छर्देर्वेगविघाताद्रक्तदुष्टौ सत्यां विसर्पोत्पत्तेर्हेतुसामान्याच्चानन्तरं विसर्पनिदानमाह– छर्दिवेगविघातस्य च रक्तदूषकत्वे चरकवचनं यथा– “छर्दिवेगविघातात्तु काले चानवसेवनात्| शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति||” इति| तस्य निदानपूर्विकां सङ्ख्यां निरुक्तिं चाह– लवणेत्यादि| लवणादिभिर्विसर्पो रोगो भवति, स सप्तधा ज्ञेयः| “विसर्पो न ह्यसंसृष्टो रक्तपित्तेन” इति वचनाल्लवणादिकं विशेषेण रक्तपित्तनिदानमुक्तम्| एषां सन्ततसेवया दोषकोपः| आदिग्रहणाच्चरकक्तहरितशाकशिण्डाकीप्रभृतीनां ग्रहणम्| सर्वतः परिसर्पणात् परिसर्पः, विविधं सर्पतीति विसर्पः| यदुक्तं चरके– “विविधं सर्पति यतो विसर्पस्तेन स स्मृतः| परिसर्पोऽथ वा नाम्ना सर्वतः परिसर्पणात्||” इति| सङ्ख्यासम्प्राप्तिमाह– पृथक्त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रय इत्यादि सुगमम्| आग्नेय इत्यादिसुगमम्||१-३||