Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

41. vraṇaśōthanidānam

Adhikarana vraNashothasya vishiShTalakShaNam (1-2) · Śloka 2

अथ व्रणशोथनिदानम् | एकदेशोत्थितः शोथो व्रणानां पूर्वलक्षणम् | षड्विधः स्यात् पृथक्सर्वरक्तागन्तुनिमित्तजः ||१|| शोथाः षडेते विज्ञेयाः प्रागुक्तैः शोथलक्षणैः | विशेषः कथ्यते चैषां पक्वापक्वादिनिश्चये ||२||

🔊 Audio coming soon

Adhikarana vraNashothasya vAtajAdibhedena visheShalakShaNam (3) · Śloka 3

विषमं पच्यते वातात् पित्तोत्थश्चाचिराच्चिरम् | कफजः पित्तवच्छोथो रक्तागन्तुसमुद्भवः ||३||

🔊 Audio coming soon

Adhikarana vraNashothasyAmalakShaNam (4) · Śloka 4

मन्दोष्मताऽल्पशोथत्वं काठिन्यं त्वक्सवर्णता | मन्दवेदनता चैतच्छोथानामामलक्षणम् ||४||

🔊 Audio coming soon

Adhikarana pacyamAnavraNashothalakShaNam (5-8) · Śloka 8

दह्यते दहनेनेव क्षारेणेव च पच्यते | पिपीलिकागणेनेव दश्यते छिद्यते तथा ||५|| भिद्यते चैव शस्त्रेण दण्डेनेव च ताड्यते | पीड्यते पाणिनेवान्तः सूचीभिरिव तुद्यते ||६|| सोषाचोषो विवर्णः स्यादङ्गुल्येवावघट्यते | आसने शयने स्थाने शान्तिं वृश्चिकविद्धवत् ||७|| न गच्छेदाततः शोथो भवेदाध्मातबस्तिवत् | ज्वरस्तृष्णाऽरुचिश्चैव पच्यमानस्य लक्षणम् ||८||

🔊 Audio coming soon

Adhikarana pakvavraNashothalakShaNam (9-11) · Śloka 11

वेदनोपशमः शोथोऽलोहितोऽल्पो न चोन्नतः | प्रादुर्भावो वलीनां च तोदः कण्डूर्मुहुर्मुहुः ||९|| उपद्रवाणां प्रशमो निम्नता स्फुटनं त्वचाम् | बस्ताविवाम्बुसञ्चारः स्याच्छोथेऽङ्गुलिपीडिते ||१०|| पूयस्य पीडयत्येकमन्तमन्ते च पीडीते | भक्ताकाङ्क्षा भवेच्चैतच्छोथानां पक्वलक्षणम् ||११||

🔊 Audio coming soon

Adhikarana ekadoShArabdhe~api shothe pAkakAle sarvadoShasambandhaH (12) · Śloka 12

नर्तेऽनिलाद्रुङ्न विना च पित्तं पाकः कफं चापि विना न पूयः | तस्माद्धि सर्वे परिपाककाले पचन्ति शोथांस्त्रय एव दोषाः ||१२|| (सु. सू. अ. १७) |

🔊 Audio coming soon

Adhikarana aviniHsRutasya pUyasya vikArAntarakartRutvam (13-14) · Śloka 14

कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य | पचत्यतः शोणितमेष पाको मतः परेषां विदुषां द्वितीयः ||१३|| कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य | तथैव पूयो ह्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ||१४|| (सु. सू. अ. १७) |

🔊 Audio coming soon

Adhikarana AmashothaM chedayataH pakvaM copekShato vaidyasya nindA (15-16) · Śloka 16

आमं विदह्यमानं च सम्यक् पक्वं च यो भिषक् | जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ||१५|| यश्छिनत्त्याममज्ञानाद्यो वा पक्वमुपेक्षते | श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ||१६|| (सु. सू. अ. १७) |

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 41

इति श्रीमाधवकरविरचिते माधवनिदाने व्रणशोथनिदानं समाप्तम् ||४१||

🔊 Audio coming soon