Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

18. granthyapacyarbudagalagaṇḍacikitsitam

Adhikarana 1 (1-3) · Śloka 3

अथातो ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| ग्रन्थिष्वथामेषु भिषग्विदध्याच्छोफक्रियां विस्तरशो विधिज्ञः | रक्षेद्बलं चापि नरस्य नित्यं तद्रक्षितं व्याधिबलं निहन्ति ||३||

🔊 Audio coming soon

Adhikarana 2 (4) · Śloka 4

तैलं पिबेत् सर्पिरथो द्वयं वा दत्त्वा वसां वा त्रिवृतं विदध्यात् | अपेहिवातादशमूलसिद्धं वैद्यश्चतुःस्नेहमथो द्वयं वा ||४||

🔊 Audio coming soon

Adhikarana 3 (5-7) · Śloka 8

हिंस्राऽथ रोहिण्यमृताऽथ भार्गी श्योनाकबिल्वागुरुकृष्णगन्धाः | गोजी च पिष्टा सह तालपत्र्या ग्रन्थौ विधेयोऽनिलजे प्रलेपः ||५|| स्वेदोपनाहान् विविधांश्च कुर्यात्तथा प्रसिद्धानपरांश्च लेपान् | विदार्य वा पक्वमपोह्य पूयं प्रक्षाल्य बिल्वार्कनरेन्द्रतोयैः ||६|| तिलैः सपञ्चाङ्गुलपत्रमिश्रैः संशोधयेत् सैन्धवसम्प्रयुक्तैः | शुद्धं व्रणं वाऽप्युपरोपयेत्तु तैलेन रास्नासरलान्वितेन ||७|| विडङ्गयष्टीमधुकामृताभिः सिद्धेन वा क्षीरसमन्वितेन |८|

🔊 Audio coming soon

Adhikarana 4 (8-11) · Śloka 11

जलौकसः पित्तकृते हितास्तु क्षीरोदकाभ्यां परिषेचनं च ||८|| काकोलिवर्गस्य च शीतलानि पिबेत् कषायाणि सशर्कराणि | द्राक्षारसेनेक्षुरसेन वाऽपि चूर्णं पिबेच्चापि हरीतकीनाम् ||९|| मधूकजम्ब्वर्जुनवेतसानां त्वग्भिः प्रदेहानवचारयेत | सशर्करैर्वा तृणशून्यकन्दैर्दिह्यादभीक्ष्णं मुचुलुन्दजैर्वा ||१०|| विदार्य वा पक्वमपोह्य पूयं धावेत् कषायेण वनस्पतीनाम् | तिलैः सयष्टीमधुकैर्विशोध्य सर्पिः प्रयोज्यं मधुरैर्विपक्वम् ||११||

🔊 Audio coming soon

Adhikarana 5 (12-13) · Śloka 13

हृतेषु दोषेषु यथानुपूर्व्या ग्रन्थौ भिषक् श्लेष्मसमुत्थिते तु | स्विन्नस्य विम्लापनमेव कुर्यादङ्गुष्ठलोहोपलवेणुदण्डैः ||१२|| विकङ्कतारग्वधकाकणन्तीकाकादनीतापसवृक्षमूलैः | आलेपयेत् पिण्डफलार्कभार्गीकरञ्जकालामदनैश्च विद्वान् ||१३||

🔊 Audio coming soon

Adhikarana 6 (14) · Śloka 14

अमर्मजातं शममप्रयान्तमपक्वमेवापहरेद्विदार्य | दहेत् स्थिते चासृजि सिद्धकर्मा सद्यःक्षतोक्तं च विधिं विदध्यात् ||१४||

🔊 Audio coming soon

Adhikarana 7 (15-16) · Śloka 16

या मांसकन्द्यः कठिना बृहत्यस्तास्वेष योज्यश्च विधिर्विधिज्ञैः | शस्त्रेण वाऽऽपाट्य सुपक्वमाशु प्रक्षालयेत् पथ्यतमैः कषायैः ||१५|| संशोधनैस्तं च विशोधयेत्तु क्षारोत्तरैः क्षौद्रगुडप्रगाढैः | शुद्धे च तैलं त्ववचारणीयं विडङ्गपाठारजनीविपक्वम् ||१६||

🔊 Audio coming soon

Adhikarana 8 (17-19) · Śloka 20

मेदःसमुत्थे तिलकल्कदिग्धं दत्त्वोपरिष्टाद्द्विगुणं पटान्तम् | हुताशतप्तेन मुहुः प्रमृज्याल्लोहेन धीमानदहन् हिताय ||१७|| प्रलिप्य दार्वीमथ लाक्षया वा प्रतप्तया स्वेदनमस्य कार्यम् | निपात्य वा शस्त्रमपोह्य मेदो दहेत् सुपक्वं त्वथवा विदार्य ||१८|| प्रक्षाल्य मूत्रेण तिलैः सुपिष्टैः सुवर्चिकाद्यैर्हरितालमिश्रैः | ससैन्धवैः क्षौद्रघृतप्रगाढैः क्षारोत्तरैरेनमभिप्रशोध्य ||१९|| तैलं विदद्याद्द्विकरञ्जगुञ्जावंशावलेखेङ्गुदमूत्रसिद्धम् |२०|

🔊 Audio coming soon

Adhikarana 9 (20-23) · Śloka 23

जीमूतकैः कोशवतीफलैश्च दन्तीद्रवन्तीत्रिवृतासु चैव ||२०|| सर्पिः कृतं हन्त्यपचीं प्रवृद्धां द्विधा प्रवृत्तं तदुदारवीर्यम् | निर्गुण्डिजातीबरिहिष्ठयुक्तं जीमूतकं माक्षिकसैन्धवाढ्यम् ||२१|| अभिप्रतप्तं वमनं प्रगाढं दुष्टापचीषूत्तममादिशन्ति | कैडर्यबिम्बीकरवीरसिद्धं तैलं हितं मूर्धविरेचनं च ||२२|| शाखोटकस्य स्वरसेन सिद्धं तैलं हितं नस्यविरेचनेषु | मधूकसारश्च हितोऽवपीडे फलानि शिग्रोः खरमञ्जरेर्वा ||२३||

🔊 Audio coming soon

Adhikarana 10 (24) · Śloka 24

ग्रन्थीनमर्मप्रभवानपक्वानुद्धृत्य चाग्निं विदधीत पश्चात् | क्षारेण वाऽपि प्रतिसारयेत्तु संलिख्य शस्त्रेण यथोपदेशम् ||२४||

🔊 Audio coming soon

Adhikarana 11 (25-26) · Śloka 26

पार्ष्णिं प्रति द्वे दश चाङ्गुलानि मित्वेन्द्रबस्तिं परिवर्ज्य धीमान् | विदार्य मत्स्याण्डनिभानि वैद्यो निष्कृष्य जालान्यनलं विदध्यात् ||२५|| आ गुल्फकर्णात् सुमितस्य जन्तोस्तस्याष्टभागं खुडकाद्विभज्य | घोणर्जुवेधः सुरराजबस्तेर्हित्वाऽक्षिमात्रं त्वपरे वदन्ति ||२६||

🔊 Audio coming soon

Adhikarana 12 (27) · Śloka 27

मणिबन्धोपरिष्टाद्वा कुर्याद्रेखात्रयं भिषक् | अङ्गुल्यन्तरितं सम्यगपचीनां निवृत्तये ||२७||

🔊 Audio coming soon

Adhikarana 13 (28) · Śloka 29

चूर्णस्य काले प्रचलाककाकगोधाहिकूर्मप्रभवां मसीं तु | दद्याच्च तैलेन सहेङ्गुदीनां यद्वक्ष्यते श्लीपदिनां च तैलम् ||२८|| विरेचनं धूममुपाददीत भवेच्च नित्यं यवमुद्गभोजी |२९|

🔊 Audio coming soon

Adhikarana 14 (29-31) · Śloka 31

कर्कारुकैर्वारुकनारिकेलप्रियालपञ्चाङ्गुलबीजचूर्णैः ||२९|| वातार्बुदं क्षीरघृताम्बुसिद्धैरुष्णैः सतैलैरुपनाहयेत्तु | कुर्याच्च मुख्यान्युपनाहनानि सिद्धैश्च मांसैरथ वेसवारैः ||३०|| स्वेदं विदध्यात् कुशलस्तु नाड्या शृङ्गेण रक्तं बहुशो हरेच्च | वातघ्ननिर्यूहपयोम्लभागैः सिद्धं शताख्यं त्रिवृतं पिबेद्वा ||३१||

🔊 Audio coming soon

Adhikarana 15 (32-34) · Śloka 34

स्वेदोपनाहा मृदवस्तु कार्याः पित्तार्बुदे कायविरेचनं च | विघृष्य चोदुम्बरशाकगोजीपत्रैर्भृशं क्षौद्रयुतैः प्रलिम्पेत् ||३२|| श्लक्ष्णीकृतैः सर्जरसप्रियङ्गुपत्तङ्गरोध्राञ्जनयष्टिकाह्वैः | विस्राव्य चारग्वधगोजिसोमाः श्यामा च योज्या कुशलेन लेपे ||३३|| श्यामागिरिह्वाञ्जनकीरसेषु द्राक्षारसे सप्तलिकारसे च | घृतं पिबेत् क्लीतकसम्प्रसिद्धं पित्तार्बुदी तज्जठरी च जन्तुः ||३४||

🔊 Audio coming soon

Adhikarana 16 (35-36) · Śloka 36

शुद्धस्य जन्तोः कफजेऽर्बुदे तु रक्तेऽवसिक्ते तु ततोऽर्बुदं तत् | द्रव्याणि यान्यूर्ध्वमधश्च दोषान् हरन्ति तैः कल्ककृतैः प्रदिह्यात् ||३५|| कपोतपारावतविड्विमिश्रैः सकांस्यनीलैः शुकलाङ्गलाख्यैः | मूत्रैस्तु काकादनिमूलमिश्रैः क्षारप्रदिग्धैरथवा प्रदिह्यात् ||३६||

🔊 Audio coming soon

Adhikarana 17 (37-40) · Śloka 40

निष्पावपिण्याककुलत्थकल्कैर्मांसप्रगाढैर्दधिमस्तुयुक्तैः | लेपं विदध्यात् कृमयो यथाऽत्र मूर्च्छन्ति मुञ्चन्त्यथ मक्षिकाश्च ||३७|| अल्पावशिष्टे कृमिभक्षिते च लिखेत्ततोऽग्निं विदधीत पश्चात् | यदल्पमूलं त्रपुताम्रसीसपट्टैः समावेष्ट्य तदायसैर्वा ||३८|| क्षाराग्निशस्त्राण्यसकृद्विदध्यात् प्राणानहिंसन् भिषगप्रमत्तः | आस्फोतजातीकरवीरपत्रैः कषायमिष्टं व्रणशोधनार्थम् ||३९|| शुद्धे च तैलं विदधीत भार्गीविडङ्गपाठात्रिफलाविपक्वम् | यदृच्छया चोपगतानि पाकं पाकक्रमेणोपचरेद्विधिज्ञः ||४०||

🔊 Audio coming soon

Adhikarana 18 (41-42) · Śloka 43

मेदोर्बुदं स्विन्नमथो विदार्य विशोध्य सीव्येद्गतरक्तमाशु | ततो हरिद्रागृहधूमरोध्रपतङ्गचूर्णैः समनःशिलालैः ||४१|| व्रणं प्रतिग्राह्य मधुप्रगाढैः करञ्जतैलं विदधीत शुद्धे | सशेषदोषाणि हि योऽर्बूदानि करोति तस्याशु पुनर्भवन्ति ||४२|| तस्मादशेषाणि समुद्धरेत्तु हन्युः सशेषाणि यथा हि वह्निः |४३|

🔊 Audio coming soon

Adhikarana 19 (43-47) · Śloka 47

संस्वेद्य गण्डं पवनोत्थमादौ नाड्याऽनिलघ्नौषधपत्रभङ्गैः ||४३|| अम्लैः समूत्रैर्विविधैः पयोभिरुष्णैः सतैलैः पिशितैश्च विद्वान् | विस्रावयेत् स्विन्नमतन्द्रितश्च शुद्धं व्रणं चाप्युपनाहयेत्तु ||४४|| शणातसीमूलकशिग्रुकिण्वप्रियालमज्जानुयुतैस्तिलैस्तु | कालामृताशिग्रुपुनर्नवार्कगजादिनामाकरहाटकुष्ठैः ||४५|| एकैषिकावृक्षकतिल्वकैश्च सुराम्लपिष्टैरसकृत् प्रदिह्यात् ||४६|| तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभीः | सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे ||४७||

🔊 Audio coming soon

Adhikarana 20 (48-50) · Śloka 50

स्वेदोपनाहैः कफसम्भवं तु संस्वेद्य विस्रावणमेव कुर्यात् | ततोऽजगन्धातिविषाविशल्याविषाणिकाकुष्ठशुकाह्वयाभिः ||४८|| पलाशभस्मोदकपेषिताभिर्दिह्यात् सुगुञ्जाभिरशीतलाभिः | दशार्धसङ्ख्यैर्लवणैश्च युक्तं तैलं पिबेन्मागधिकादिसिद्धम् ||४९|| प्रच्छर्दनं मूर्धविरेचनं च धूमश्च वैरेचनिको हितस्तु | पाकक्रमो वाऽपि सदा विधेयो वैद्येन पाकङ्गतयोः कथञ्चित् ||५०||

🔊 Audio coming soon

Adhikarana 21 (51) · Śloka 51

कटुत्रिकक्षौद्रयुताः समूत्रा भक्ष्या यवान्नानि रसाश्च मौद्गाः | सशृङ्गवेराः सपटोलनिम्बा हिताय देया गलगण्डरोगे ||५१||

🔊 Audio coming soon

Adhikarana 22 (52-55) · Śloka 55

मेदःसमुत्थे तु यथोपदिष्टां विध्येत् सिरां स्निग्धतनोर्नरस्य | श्यामासुधालोहपुरीषदन्तीरसाञ्जनैश्चापि हितः प्रदेहः ||५२|| मूत्रेण वाऽऽलोड्य हिताय सारं प्रातः पिबेत् सालमहीरुहाणाम् | शस्त्रेण वाऽऽपाट्य विदार्य चैनं मेदः समुद्धृत्य हिताय सीव्येत् ||५३|| मज्जाज्यमेदोमधुभिर्दहेद्वा दग्धे च सर्पिर्मधु चावचार्यम् | कासीसतुत्थे च ततोऽत्र देये चूर्णीकृते रोचनया समेते ||५४|| तैलेन चाभ्यज्य हिताय दद्यात् सारोद्भवं गोमयजं च भस्म | हितश्च नित्यं त्रिफलाकषायो गाढश्च बन्धो यवभोजनं च ||५५||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 18

इति सुश्रुतसंहितायां चिकित्सास्थाने ग्रन्थ्यपच्यर्बुदगलगण्डचिकित्सितं नामाष्टादशोऽध्यायः ||१८||

🔊 Audio coming soon