Adhikarana 1 (1-3) · Śloka 4
अथातो वृद्ध्युपदंशश्लीपदचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत् |
अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम् ||३||
अत्यासनं चङ्क्रमणमुपवासं गुरूणि च |४|
अन्त्रवृद्ध्येत्यादि| चङ्क्रमणं भ्रमणम्||१-३||-
Adhikarana 2 (4-8) · Śloka 9
तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् ||४||
स्विन्नं चैनं यथान्यायं पाययेत विरेचनम् |
कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम् ||५||
सक्षीरं वा पिबेन्मासं तैलमेरण्डसम्भवम् |
ततः कालेऽनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान् ||६||
निरूहयेन्निरूढं च भुक्तवन्तं रसौदनम् |
यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत् ||७||
स्नेहोपनाहौ कुर्याच्च प्रदेहांश्चानिलापहान् |
विदग्धां पाचयित्वा वा सेवनीं परिवर्जयेत् ||८||
भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत् |९|
तत्रेत्यादि| त्रैवृतमपतानकहरं वातव्याध्युक्तं, नरं पाययेतेति सम्बन्धः| काले आवस्थिके| निरूढं च यष्टीमधुकसिद्धतैलेन योजयेदनुवासनकल्पविधिना| यथोक्तामित्यादि| यथा येन प्रकारेणोक्तो द्विव्रणीयक्रमस्तमाचरेत्||४-८||-
Adhikarana 3 (9-11) · Śloka 12
पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः ||९||
पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा |
शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम् ||१०||
रक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक् |
पिबेद्विरेचनं वाऽपि शर्कराक्षौद्रसंयुतम् ||११||
पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च सर्वदा |१२|
पित्तजायामित्यादि| कल्कं च रोपणं द्विव्रणीयोक्तकल्कं; गयी तु मिश्रकाध्यायोक्तमिति कथयति||९-११||-
Adhikarana 4 (12-14) · Śloka 14
वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत् ||१२||
पीतदारुकषायं च पिबेन्मूत्रेण संयुतम् |
विम्लापनादृते वाऽपि श्लेष्मग्रान्थिक्रमो हितः ||१३||
पक्वायां च विभिन्नायां तैलं शोधनमिष्यते |
सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम् ||१४||
वृद्धिमित्यादि| उष्णैरुष्णवीर्यैर्वचादिपिप्पल्यादिमुष्ककादिगणैः; अन्ये तु, उष्णवीर्यैरजगन्धादिभिर्मिश्रकोक्तैः| पीतेत्यादि| गोमूत्रक्वथितस्यैव दारुहरिद्राकषायस्य वा पानं, पीतदारुस्थाने केचिद्देवदारुं पठन्ति| विम्लापनादित्यादि| सुमनारुष्करादिकल्ककषायसिद्धं तैलम्||१२-१४||
Adhikarana 5 (15-17) · Śloka 18
मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना |
शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः ||१५||
स्विन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम् |
रक्षन् फले सेवनीं च वृद्धिपत्रेण दारयेत् ||१६||
भेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे |
बध्नीयाच्च यथोद्दिष्टं शुद्धे तैलं च दापयेत् ||१७||
मनःशिलाललवणैः सिद्धमारुष्करेषु च |१८|
मेद इत्यादि| सुरसादिना मूत्रपिष्टेन लेपः| शिरोविरेचनद्रव्याणि पिप्पलीविडङ्गापामार्गशिग्रुशिरीषसिद्धार्थकादीनि संशोधनसंशमनीयोक्तानि| तैरपि गोमूत्रपिष्टैः सुखोष्णैर्लेपः| स्विन्नामित्यादि| यथोद्दिष्टं च बध्नीयात् गोफणया स्थगिकाबन्धेन वा||१५-१७||-
Adhikarana 6 (18-24) · Śloka 24
मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् ||१८||
सेवन्याः पार्श्वतोऽधस्ताद्विध्येद् व्रीहिमुखेन तु |
अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक् ||१९||
मूत्रं, नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत् |
शुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहैतुकीम् ||२०||
अप्राप्तफलकोषायां वातवृद्धिक्रमो हितः |
तत्र या वङ्क्षणस्था तां दहेदर्धेन्दुवक्त्रया ||२१||
सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत् |
त्वचं भित्त्वाऽङ्गुष्ठमध्ये दहेच्चाङ्गविपर्ययात् ||२२||
अनेनैव विधानेन वृद्धी वातकफात्मिके |
प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः ||२३||
शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् |
व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये ||२४||
मूत्रजामित्यादि| वर्जयेदन्त्रहैतुकीं ‘कोशप्राप्ताम्’ इति वाक्यशेषः| वातवृद्धिक्रमो हित इति स्नेहपानादिरनुवासनान्तः| तत्रेत्यादि| अर्धेन्दुवक्त्रया शलाकया| त्वच भित्त्वेति त्वङ्मात्रं छित्त्वा| अङ्गविपर्ययादिति वामान्त्रवृद्धौ दक्षिणाङ्गुष्ठमध्ये, दक्षिणान्त्रवृद्धौ वामाङ्गुष्ठमध्ये| शङ्खभ्रुवोरन्तोपरि कर्णललाटयोर्मध्ये अन्त्रवृद्धेर्निवृत्तये ‘वङ्क्षणस्थाया’ इति वाक्यशेषः, सिरां विध्येत्||१८-२४||
Adhikarana 7 (25-27) · Śloka 27
उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः |
सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः ||२५||
हरेदुभयतश्चापि दोषानत्यर्थमुच्छ्रितान् |
सद्योऽपहृतदोषस्य रुक्शोफावुपशाम्यतः ||२६||
यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम् |
निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान् ||२७||
उपदंशेष्वित्यादि| तत्र सिरां विध्येद्बहुदोषे, अल्पदोषे तु जलौकापातः; पित्तरक्तजयोर्मृदुत्वाज्जलौकसेत्यन्ये; जेज्जटस्तु अनवगाढे जलौकसा, अवगाढे सिराव्यध इति| हरेदित्यादि| बलवतो विरेच्यस्य वमनविरेचनाभ्यां दोषहरणम्| यदि वेत्यादि| दुर्बलाविरेच्ययोः पुनरत्यर्थोच्छ्रितदोषयोर्दोषहरणानुकूल्येन निरूहेण हरणम्| न वा प्राप्तं न युक्तमित्यर्थः||२५-२७||
Adhikarana 8 (28-29) · Śloka 30
प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्ठदारुभिः |
सरलागुरुरास्नाभिर्वातजं सम्प्रलेपयेत् ||२८||
निचुलैरण्डबीजानि यवगोधूमसक्तवः |
एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् ||२९||
प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते |३०|
प्रपौण्डरीकेत्यादि| सरला त्रिवृत्| निचुलेत्यादि| निचुलो वेतसः| प्रपौण्डरीकपूर्वैः प्रपौण्डरीकादिभिः, पूर्वौक्तैर्वातोपदंशोक्तैः| सेकः परिषेकः||२८-२९||-
Adhikarana 9 (30-32) · Śloka 33
गैरिकाञ्जनयष्ट्याह्वसारिवोशीरपद्मकैः ||३०||
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं सम्प्रलेपयेत् |
पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः ||३१||
सर्पिःस्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् |
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ||३२||
अथवाऽपि सुशीतेन कषायेण वटादिना |३३|
गैरिकेत्यादि| अञ्जनं रसाञ्जनम्| मृणालं पद्मनालम्| सेचयेत् परिषेचयेदित्यर्थः||३०-३२||-
Adhikarana 10 (33-35) · Śloka 35
सालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ||३३||
सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् |
रजन्यतिविषामुस्तासुरसासुरदारुभिः ||३४||
सपत्रपाठापत्तूरैरथवा सम्प्रलेपयेत् |
सुरसारग्वधाद्योश्च क्वाथाभ्यां परिषेचयेत् ||३५||
शालः शङ्कुः, अश्वकर्णः पूर्वदेशप्रसिद्धोऽश्वत्थसदृशः, अजकर्णः ‘पियासाल्’ इति लोके| पत्तूरः सिरिवालिका||३३-३५||
Adhikarana 11 (36-39) · Śloka 39
एवं संशोधनालेपसेकशोणितमोक्षणैः |
प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर्हितैरपि ||३६||
न याति च यथा पाकं प्रयतेत तथा भिषक् |
विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते ध्वजः ||३७||
शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै |
तदाऽपोह्य तिलैः सर्पिःक्षौद्रयुक्तैः प्रलेपयेत् ||३८||
करवीरस्य पत्राणि जात्यारग्वधयोस्तथा |
प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि ||३९||
एवं पूर्वोक्तप्रकारेण प्रतिकुर्यात्, ‘आमोपदंशम्’ इति शेषः| प्राक्स्थानं सूत्रस्थानं, तत्र मिश्रकोक्तैः; अपिशब्दाद् द्विव्रणीयोक्तैः| ‘तस्मात् संशोधनालेपसेकशोणितमोक्षणैः| प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर्हितैरपि’ इति केचित् पठन्ति| तदाऽपोह्य पूयमुपहृत्य| प्रक्षालने व्रणस्य करवीरपत्राणि, तेषां कषाय इत्यर्थः; तथैवापरयोर्वैजयन्त्यर्कयोः पत्राणां कषायः; वैजयन्ती अग्निमन्थवृक्षः ||३६-३९||
Adhikarana 12 (40-41) · Śloka 41
सौराष्ट्रीं गैरिकं तुत्थं पुष्पकासीससैन्धवम् |
रोध्रं रसाञ्जनं दार्वीं हरितालं मनःशिलाम् ||४०||
हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत् |
तच्चूर्णं क्षौद्रसंयुक्तमुपदंशेषु पूजितम् ||४१||
सौराष्ट्री तुवरमृत्तिका| पुष्पं पुष्पाञ्जनम्||४०-४१||
Adhikarana 13 (42-44) · Śloka 45
जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः |
शल्लकीबदरीबिल्वपलाशतिनिशत्वचः ||४२||
क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह |
तेन क्वाथेन नियतं व्रणं प्रक्षालयेद्भिषक् ||४३||
अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत् |
गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम् ||४४||
एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते |४५|
जम्ब्वाम्रेत्यादि| श्वेतः श्वेतस्यन्दः; काम्बोजिका कूविका, गयी तु माषपर्णीमाह| तिनिशः स्यन्दनः| क्षीरिणो वटादयः| अस्मिन्नित्यादि| गोजी गोजिह्वा| सर्वगन्धैरेलादिपरिपठितैः| सामान्यकषायपाककल्पितेन चतुर्गुणेन कषायेण सिद्धं तिलतैलमकल्कमेव, कषायोपादानात्, कल्कमप्यनन्तरोक्तौषधगणात् कर्तव्यमित्यन्ये, कषायशब्दस्य कल्केऽपि वृत्तेः||४२-४४||-
Adhikarana 14 (45-47) · Śloka 48
स्वर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम् ||४५||
मनःशिलासमैश्चूर्णं व्रणवीसर्पनाशनम् |
गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला ||४६||
उपदंशबिसर्पाणामेतच्छान्तिकरं परम् |
मार्कवस्त्रिफला दन्ती ताम्रचूर्णमयोरजः ||४७||
उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा |४८|
मार्कवो भृङ्गराजः||४५-४७||-
Adhikarana 15 (48) · Śloka 49
उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ||४८||
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् |४९|
उपदंशयोर्द्वयोरपि रक्तसन्निपातजयोस्तुल्यकारणत्वात्तुल्यैव चिकित्सा| सन्निपातप्रभवे तु वातादिचिकित्सितमेकीकृत्य दद्यात्||४८||-
Adhikarana 16 (49-51) · Śloka 51
उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे ||४९||
दुष्टव्रणविधिं कुर्यात् कुथितं मेहनं त्यजेत् |
जम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ||५०||
सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत् |
शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत् ||५१||
उपदंशे इत्यादि| कुथितं मेहनं त्यजेदिति यावन्मात्रं मेहनं कुथितं भवेत्तावन्मात्रं छिन्द्यादित्यर्थः| जम्ब्वौष्ठः जम्बूफलसदृशमुखाग्रा कृष्णपाषाणरचिता वर्तिः||४९-५१||
Adhikarana 17 (52-54) · Śloka 54
स्नेहस्वेदोपपन्ने तु श्लीपदेऽनिलजे भिषक् |
कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले ||५२||
समाप्यायितदेहं च बस्तिभिः समुपाचरेत् |
मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम् ||५३||
पयसौदनमश्नीयान्नागरक्वथितेन च |
त्रैवृतं चोपयुञ्जीत शस्तो दाहस्तथाऽग्निना ||५४||
स्नेहेत्यादि| स्नेहोऽत्र शोधनार्थ एव, श्लीपदानां रूक्षणीयत्वात्, गयी तु स्नेहस्वेदोपनाहांश्चेति पठति| समाप्यायितदेहमिति रक्तापकर्षेण स्थापनाद्देहस्यानुक्रमादाप्यायितस्य| बस्तिरत्र निरूहोऽभिप्रेतः| मासमित्यादि शुण्ठीकर्षपक्वेनाष्टगुणितेन तच्चतुर्गुणावशिष्टेन पयसा भोजनं कुर्यात्| त्रैवृतमित्यादि त्रैवृतमुत्पादितं वातव्याधौ, तच्चोपयुञ्जीत स्नेहप्रयोगकाले||५२-५४||
Adhikarana 18 (55) · Śloka 55
गुल्फस्याधः सिरां विध्येच्छ्लीपदे पित्तसम्भवे |
पित्तघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत् ||५५||
गुल्फस्येत्यादि| पित्तजे श्लीपदे सिरां विध्येत्, गुल्फस्योपरि चतुरङ्गुलम्; अन्ये तु गुल्फस्याध इति सिराव्यध एव सम्बध्नन्ति||५५||
Adhikarana 19 (56-62) · Śloka 62
सिरां सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक् |
मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः ||५६||
पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन च |
कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम् ||५७||
हितं वा लेपने नित्यं भद्रदारु सचित्रकम् |
विडङ्गमरिचार्केषु नागरे चित्रकेऽथवा ||५८||
भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च |
तैलं पक्वं पिबेद्वाऽपि यवान्नं च हितं सदा ||५९||
पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये |
पूतीकरञ्जपत्राणां रसं वाऽपि यथाबलम् ||६०||
अनेनैव विधानेन पुत्रञ्जीवकजं रसम् |
प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित् ||६१||
केवुकाकन्दनिर्यासं लवणं त्वथ पाकिमम् |
रसं दत्त्वाऽथ पूर्वोक्तं पेयमेतद्भिषग्जितम् ||६२||
सिरामित्यादि| सिरां सुविदितामिति क्षिप्रमर्मण उपरि चतुरङ्गुले| मध्वित्यादि| अभीक्ष्णं पुनः पुनरित्यर्थः| पिबेदित्यादि| अत्र मूत्रेणान्यतमेन चेति अष्टमूत्रेष्वेकेनापि हरीतकीं सेवेत| कटुकामित्यादि| अन्यतमेन मूत्रेण पिबेदित्यत्रापि सम्बध्यते| हितमित्यादि| एलुकाख्यम् एलवालुकम्| पिबेदित्यादि| कण्टकिकरञ्जपत्रस्वरसं यथाबलं अनलपुरुषादिबलानतिक्रमेण पलमर्धपलं पलद्वयं वा कटुतैलाक्षप्रक्षेपं पिबेत्; कण्टकिकरञ्जः पूतीकरञ्जः, चिरबिल्व इत्यन्ये| अनेनैवेत्यादि| पुत्रञ्जीवकोऽनेनैव नाम्ना प्रसिद्धः| केवुकेत्यादि| पाकिमं लवणं विडलवणम्| भिषग्जितम् औषधम्||५६-६२||
Adhikarana 20 (63-66) · Śloka 66
काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम् |
कदम्बपुष्पीं मन्दारीं लम्बां शुकनसां तथा ||६३||
दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवत् |
तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम् ||६४||
मदनाच्च फलात् क्वाथं शुकाख्यस्वरसं तथा |
एष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः ||६५||
अपचीं गलगण्डं च ग्रहणीदोषमेव च |
भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च ||६६||
काकादनीमित्यादि| काकादनी कालाहिंस्रेत्यर्थः| काकजङ्घा एतन्नाम्ना प्रसिद्धैव| कदम्बपुष्पी अलम्बुषा मुण्डतिकेति लोके प्रसिद्धा| मन्दारी आली, लम्बा कटुकालाबुः| शुकनसा चर्मकारवटः| दग्ध्वा क्षारं षङ्गुणेन मूत्रेणैकविंशतिवारान् स्रावयेत्, काकोदुम्बरिकारसं मदनफलक्वाथं शुकनसास्वरसं च प्रत्येकं गोमूत्रेण समं, पादिकमपरेषां मतेन प्रक्षिप्य, क्षारपाककल्पक्रमेण विपक्वः सिद्धः, श्लीपदहरद्रवेण शाणादिमात्रया पानार्हः||६३-६६||
Adhikarana 21 (67) · Śloka 67
एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम एतानेवामयान् हन्ति ये च दुष्टव्रणा नृणाम् ||६७||
काकादन्यादीनां क्वाथेन तथा काकोदुम्बरिकारसमदनफलक्वाथशुकनासास्वरसेषु प्रत्येकं समेषु तैलं साध्यम्||६७||
Adhikarana 22 (68-69) · Śloka 69
द्रवन्तीं त्रिवृतां दन्तीं नीलीं श्यामां तथैव च |
सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत् ||६८||
दद्याच्च त्रिफलाक्वाथमेष क्षारस्तु साधितः |
अधो गच्छति पीतस्तु पूर्वैश्चाप्याशिषः समाः ||६९||
द्रवन्तीमित्यादि| द्रवन्ती शम्बरी| त्रिवृता त्रिवृत्| दन्ती दन्तिनी| नीली शारदं फलं, श्रीफलिकेति लोके| श्यामा वृद्धदारुकः| शङ्खिनी यवतिक्ताभेदः| पूर्वैश्चाप्याशिषः समा इति पूर्वैः पूर्वक्षारयोगैः सह समास्तुल्या भवन्ति, आशिष आशंसनानि अर्थवादाः| इदमुक्तं भवति- ये केचिद्गुणाः पूर्वक्षारेष्वभिहितास्तेऽत्रापि तुल्या ज्ञेया इत्यर्थः||६८-६९||
Adhikarana puShpikA · Śloka 19
इति सुश्रुतसंहितायां चिकित्सास्थाने वृद्ध्युपदंशश्लीपदचिकित्सितं नामैकोनविंशोऽध्यायः ||१९||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने एकोनविंशोऽध्यायः||