Adhikarana 1 (1-2) · Śloka 2
अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः क्षीणबलीयं वाजीकरणचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3-5) · Śloka 5
कल्यस्योदग्रवयसो वाजीकरणसेविनः | सर्वेष्वृतुष्वहरहर्व्यवायो न निवारितः ||३|| स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम् | योषित्प्रसङ्गात् क्षीणानां क्लीबानामल्परेतसाम् ||४|| विलासिनामर्थवतां रूपयौवनशालिनाम् | नृणां च बहुभार्याणां योगा वाजीकरा हिताः ||५||
🔊 Audio coming soon
Adhikarana 3 (6-8) · Śloka 10
सेवमानो यदौचित्याद्वाजीवात्यर्थवेगवान् | नारीस्तर्पयते तेन वाजीकरणमुच्यते ||६|| भोजनानि विचित्राणि पानानि विविधानि च | वाचः श्रोत्रानुगामिन्यस्त्वचः स्पर्शसुखास्तथा ||७|| यामिनी सेन्दुतिलका कामिनी नवयौवना | गीतं श्रोत्रमनोहारि ताम्बूलं मदिराः स्रजः ||८|| गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च | मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् |१०|
🔊 Audio coming soon
Adhikarana 4 (9-15) · Śloka 15
तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ||९|| द्वेष्यस्त्रीसम्प्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम् | कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः ||१०|| सौम्यधातुक्षयो दृष्टः क्लैब्यं तदपरं स्मृतम् | अतिव्यवायशीलो यो न च वाजीक्रियारतः ||११|| ध्वजभङ्गमवाप्नोति तच्छुक्रक्षयहेतुकम् | महता मेढ्ररोगेण मर्मच्छेदेन वा पुनः ||१२|| क्लैब्यमेतच्चतुर्थं स्यान्नृणां पुंस्त्वोपघातजम् | जन्मप्रभृति यः क्लीबः क्लैब्यं तत् सहजं स्मृतम् ||१३|| बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः | षष्ठं क्लैब्यं मतं तत्तु खरशुक्रनिमित्तजम् ||१४|| असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत् | साध्यानामितरेषां तु कार्यो हेतुविपर्ययः ||१५||
🔊 Audio coming soon
Adhikarana 5 (16-17) · Śloka 18
विधिर्वाजीकरो यस्तु तं प्रवक्ष्याम्यतः परम् | तिलमाषविदारीणां शालीनां चूर्णमेव वा ||१६|| पौण्ड्रकेक्षुरसैरार्द्रं मर्दितं सैन्धवान्वितम् | वराहमेदसा युक्तां घृतेनोत्कारिकां पचेत् ||१७|| तां भक्षयित्वा पुरुषो गच्छेत्तु प्रमदाशतम् |१८|
🔊 Audio coming soon
Adhikarana 6 (18-19) · Śloka 19
बस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ||१८|| शिशुमारवसापक्वाः शष्कुल्यस्तिस्तैलैः कृताः | यः खादेत् स पुमान् गच्छेत् स्त्रीणां शतमपूर्ववत् ||१९||
🔊 Audio coming soon
Adhikarana 7 (20) · Śloka 20
पिप्पलीलवणोपेते बस्ताण्डे क्षीरसर्पिषि | साधिते भक्षयेद्यस्तु स गच्छेत् प्रमदाशतम् ||२०||
🔊 Audio coming soon
Adhikarana 8 (21-22) · Śloka 22
पिप्पलीमाषशालीनां यवगोधूमयोस्तथा | चूर्णभागैः समैस्तैस्तु घृते पूपलिकां पचेत् ||२१|| तां भक्षयित्वा पीत्वा तु शर्करामधुरं पयः | नरश्चटकवद्गच्छेद्दशवारान्निरन्तरम् ||२२||
🔊 Audio coming soon
Adhikarana 9 (23-24) · Śloka 25
विदार्याः सुकृतं चूर्णं स्वरसेनैव भावितम् | सर्पिर्मधुयुतं लीढ्वा दश स्त्रीरधिगच्छति ||२३|| एवमामलकं चूर्णं स्वरसेनैव भावितम् | शर्करामधुसर्पिर्भिर्युक्तं लीढ्वा पयः पिबेत् ||२४|| एतेनाशीतिवर्षोऽपि युवेव परिहृष्यति |२५|
🔊 Audio coming soon
Adhikarana 10 (25-26) · Śloka 27
पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते ||२५|| शिशुमारस्य वा खादेत्ते तु वाजीकरे भृशम् | कुलीरकूर्मनक्राणामण्डान्येवं तु भक्षयेत् ||२६|| महिषर्षभबस्तानां पिबेच्छुक्राणि वा नरः |२७|
🔊 Audio coming soon
Adhikarana 11 (27-36) · Śloka 36
अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः ||२७|| पीत्वा सशर्कराक्षौद्रं कुलिङ्ग इव हृष्यति | विदारिमूलकल्कं तु शृतेन पयसा नरः ||२८|| उडुम्बरसमं पीत्वा वृद्धोऽपि तरुणायते | माषाणां पलमेकं तु संयुक्तं क्षौद्रसर्पिषा ||२९|| अवलिह्य पयः पीत्वा तेन वाजी भवेन्नरः | क्षीरपक्वांस्तु गोधूमानात्मगुप्ताफलैः सह ||३०|| शीतान् घृतयुतान् खादेत्ततः पश्चात् पयः पिबेत् | नक्रमूषिकमण्डूकचटकाण्डकृतं घृतम् ||३१|| पादाभ्यङ्गेन कुरुते बलं भूमिं तु न स्पृशेत् | यावत् स्पृशति नो भूमिं तावद्गच्छेन्निरन्तरम् ||३२|| स्वयङ्गुप्तेक्षुरकयोः फलचूर्णं सशर्करम् | धारोष्णेन नरः पीत्वा पयसा न क्षयं व्रजेत् ||३३|| उच्चटाचूर्णमप्येवं क्षीरेणोत्तममिष्यते | शतावर्युच्चटाचूर्णं पेयमेवं बलार्थिना | स्वयङ्गुप्ताफलैर्युक्तं माषसूपं पिबेन्नरः ||३४|| गुप्ताफलं गोक्षुरकाच्च बीजं तथोच्चटां गोपयसा विपाच्य | खजाहतं शर्करया च युक्तं पीत्वा नरो हृष्यति सर्वरात्रम् ||३५|| माषान् विदारीमपि सोच्चटां च क्षीरे गवां क्षौद्रघृतोपपन्नाम् | पीत्वा नरः शर्करया सुयुक्तां कुलिङ्गवद्धृष्यति सर्वरात्रम् ||३६||
🔊 Audio coming soon
Adhikarana 12 (37-38) · Śloka 38
गृष्टीनां वृद्धवत्सानां माषपर्णभृतां गवाम् | यत् क्षीरं तत् प्रशंसन्ति बलकामेषु जन्तुषु ||३७|| क्षीरमांसगणाः सर्वे काकोल्यादिश्च पूजितः | वाजीकरणहेतोर्हि तस्मात्तत्तु प्रयोजयेत् ||३८||
🔊 Audio coming soon
Adhikarana 13 (39) · Śloka 39
एते वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः | सेव्या विशुद्धोपचितदेहैः कालाद्यपेक्षया ||३९||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 26
इति सुश्रुतसंहितायां क्षीणबलीयवाजीकरणचिकित्सितं नाम षड्विंशोऽध्यायः ||२६||
🔊 Audio coming soon