Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

20. kṣudrarōgacikitsitam

Adhikarana 1 (1-4) · Śloka 4

अथातः क्षुद्ररोगचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| तत्राजगल्लिकामामां जलौकोभिरुपाचरेत् | शुक्तिश्रुघ्नीयवक्षारकल्कैश्चालेपयेद्भिषक् ||३|| श्यामालाङ्गलकिपाठाकल्कैर्वाऽपि विचक्षणः | पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ||४||

🔊 Audio coming soon

Adhikarana 2 (5-6) · Śloka 6

अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा | पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत् ||५|| मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत् | परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत् ||६||

🔊 Audio coming soon

Adhikarana 3 (7-8) · Śloka 8

विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम् | इरिवेल्लीं गन्धनाम्नीं कक्षां विस्फोटकांस्तथा ||७|| पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक् | रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः ||८||

🔊 Audio coming soon

Adhikarana 4 (9-11) · Śloka 11

चिप्य(प्प)मुष्णाम्बुना सिक्तमुत्कृत्य स्रावयेद्भिषक् | चक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत् ||९|| बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत् | मधुरौषधसिद्धेन ततस्तैलेन रोपयेत् ||१०|| कुनखे विधिरप्येष कार्यो हि भिषजा भवेत् | उपाचरेदनुशयीं श्लेष्मविद्रधिवद्भिषक् ||११||

🔊 Audio coming soon

Adhikarana 5 (12-16) · Śloka 16

विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत् | नगवृत्तिकवर्षाभूबिल्वमूलैः सुपेषितैः ||१२|| व्रणभावगतायां वा कृत्वा संशोधनक्रियाम् | रोपणार्थं हितं तैलं कषायमधुरैः शृतम् ||१३|| प्रच्छानैर्वा जलौकोभिः स्राव्याऽपक्वा विदारिका | अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत् ||१४|| पक्वां विदार्य शस्त्रेण पटोलपिचुमर्दयोः | कल्केन तिलयुक्तेन सर्पिर्मिश्रेण लेपयेत् ||१५|| बद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च | व्रणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत् पुनः ||१६||

🔊 Audio coming soon

Adhikarana 6 (17-18) · Śloka 19

मेदोऽर्बुदविधानेन साधयेच्छर्करार्बुदम् | कच्छूं विचर्चिकां पामां कुष्ठवत् समुपाचरेत् ||१७|| लेपश्च शस्यते सिक्थशताह्वागौरसर्षपैः | वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम् ||१८|| सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम् |१९|

🔊 Audio coming soon

Adhikarana 7 (19-20) · Śloka 20

पाददार्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत् ||१९|| मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः | यवाह्वगैरिकोन्मिश्रैः पादलेपः प्रशस्यते ||२०||

🔊 Audio coming soon

Adhikarana 8 (21-22) · Śloka 23

पादौ सिक्त्वाऽऽरनालेन लेपनं ह्यलसे हितम् | कल्कीकृतैर्निम्बतिलकासीसालैः ससैन्धवैः ||२१|| लाक्षारसोऽभया वाऽपि कार्यं स्याद्रक्तमोक्षणम् | सिद्धं रसे कण्टकार्यास्तैलं वा सार्षपं हितम् ||२२|| कासीसरोचनशिलाचूर्णैर्वा प्रतिसारणम् |२३|

🔊 Audio coming soon

Adhikarana 9 (23) · Śloka 23

उत्कृत्य दग्ध्वा स्नेहेन जयेत् कदरसञ्ज्ञकम् ||२३||

🔊 Audio coming soon

Adhikarana 10 (24-26) · Śloka 27

इन्द्रलुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत् | कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः ||२४|| कुटन्नटदारुकल्कैर्लेपनं वा प्रशस्यते | प्रच्छयित्वाऽवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः ||२५|| लेपयेदुपशान्त्यर्थं कुर्याद्वाऽपि रसायनम् | मालतीकरवीराग्निनक्तमालविपाचितम् ||२६|| तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम् |२७|

🔊 Audio coming soon

Adhikarana 11 (27-28) · Śloka 30

अरूंषिकां हृते रक्ते सेचयेन्निम्बवारिणा ||२७|| दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु | हरितालनिशानिम्बकल्कैर्वा सपटोलजैः ||२८|| यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत् | इन्द्रलुप्तापहं तैलमभ्यङ्गे च प्रशस्यते |३०|

🔊 Audio coming soon

Adhikarana 12 (29-30) · Śloka 30

सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्धनि ||२९|| अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत् | क्षालने कोद्रवतृणक्षारतोयं प्रशस्यते ||३०||

🔊 Audio coming soon

Adhikarana 13 (31) · Śloka 31

उपरिष्टात् प्रवक्ष्यामि विधिं पलितनाशनम् |३१|

🔊 Audio coming soon

Adhikarana 14 (31) · Śloka 32

मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता ||३१|| पित्तश्लेष्मविसर्पोक्ता क्रिया वा सम्प्रशस्यते |३२|

🔊 Audio coming soon

Adhikarana 15 (32) · Śloka 33

जतुमणिं समुत्कृत्य मषकं तिलकालकम् ||३२|| क्षारेण प्रदहेद्युक्त्या वह्निना वा शनैः शनैः |३३|

🔊 Audio coming soon

Adhikarana 16 (33-36) · Śloka 36

न्यच्छेव्यङ्गे सिरामोक्षो नीलिकायां च शस्यते ||३३|| यथान्यायं यथाभ्यासं लालाट्यादिसिराव्यधः | घृष्ट्वा दिह्यात्त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम् ||३४|| बलातिबलयष्ट्याह्वरजनीर्वा प्रलेपनम् | पयस्यागुरुकालीयलेपनं वा सगैरिकम् ||३५|| क्षौद्राज्ययुक्तया लिम्पेद्दंष्ट्रया शूकरस्य च | कपित्थराजादनयोः कल्कं वा हितमुच्यते ||३६||

🔊 Audio coming soon

Adhikarana 17 (37) · Śloka 38

यौवने पिडकास्वेष विशेषाच्छर्दनं हितम् | लेपनं च वचारोध्रसैन्धवैः सर्षपान्वितैः ||३७|| कुस्तुम्बुरुवचालोध्रकुष्ठैर्वा लेपनं हितम् |३८|

🔊 Audio coming soon

Adhikarana 18 (38-39) · Śloka 39

पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा ||३८|| तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत् | निम्बारग्वधयोः कल्को हित उत्सादने भवेत् ||३९||

🔊 Audio coming soon

Adhikarana 19 (40-42) · Śloka 42

परिवृत्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत् | ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम् ||४०|| प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः | त्रिरात्रं पञ्चरात्रं वा वातघ्नैः साल्वणादिभिः ||४१|| दद्याद्वातहरान् बस्तीन् स्निग्धान्यन्नानि भोजयेत् | वपाटिकां जयेदेवं यथादोषं चिकित्सकः ||४२||

🔊 Audio coming soon

Adhikarana 20 (43-47) · Śloka 48

निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम् | दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत् ||४३|| परिषेके वसामज्जशिशुमारवराहयोः | चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम् ||४४|| त्र्यहात्त्र्यहात् स्थूलतरां सम्यङ्गाडीं प्रवेशयेत् | स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत् ||४५|| भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत् | सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम् ||४६|| प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत् | विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम् ||४७|| सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया |४८|

🔊 Audio coming soon

Adhikarana 21 (48-56) · Śloka 56

शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ||४८|| विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् | वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम् ||४९|| तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् | कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च ||५०|| आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च | श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् ||५१|| सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत् | पक्वं वा तद्विजानीयाद्गतीः सर्वा यथाक्रमम् ||५२|| अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक् | संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ||५३|| व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् | सुमना ग्रन्थयश्चैव भल्लातकमनःशिले ||५४|| कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा | एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम् ||५५|| पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् | वल्मीकं यत् सशोफं स्याद्वर्ज्यं तत्तु विजानता ||५६||

🔊 Audio coming soon

Adhikarana 22 (57-60) · Śloka 60

धात्र्याः स्तन्यं शोधयित्वा बाले साध्याऽहिपूतना | पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ||५७|| पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम् | त्रिफलाकोलखदिरकषायं व्रणरोपणम् ||५८|| कासीसरोचनातुत्थहरितालरसाञ्जनैः | लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता ||५९|| कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत् | चिकित्सेन्मुष्ककच्छूं चाप्यहिपूतनपामवत् ||६०||

🔊 Audio coming soon

Adhikarana 23 (61-63) · Śloka 63

गुदभ्रंशे गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत् | कारयेद्गोफणाबन्धं मध्यच्छिद्रेण चर्मणा ||६१|| विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः | क्षीरे महत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम् ||६२|| पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसंयुतम् | गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत् ||६३||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 20

इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्ररोगचिकित्सितं नाम विंशोऽध्यायः ||२०||

🔊 Audio coming soon