Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

32. svēdāvacāraṇīyacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातः स्वेदावचारणीयं चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

चतुर्विधः स्वेदः; तद्यथा- तापस्वेद, ऊष्मस्वेद, उपनाहस्वेदो, द्रवस्वेद इति; अत्र सर्वस्वेदविकल्पावरोधः ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

तत्र तापस्वेदः पाणिकांस्यकन्दुककपालवालुकावस्त्रैः प्रयुज्यते, शयानस्य चाङ्गतापो बहुशः खादिराङ्गारैरिति ||४||

🔊 Audio coming soon

Adhikarana 4 (5-7) · Śloka 7

ऊष्मस्वेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्निवर्णानद्भिरासिञ्चेदम्लद्रव्यैर्वा, तैरार्द्रालक्तकपरिवेष्टितैरङ्गप्रदेशं स्वेदयेत् | मांसरसपयोदधिस्नेहधान्याम्लवातहरपत्रभङ्गक्वाथपूर्णां वा कुम्भीमनुतप्तां प्रावृत्योष्माणं गृह्णीयात् | पार्श्वच्छिद्रेण वा कुम्भेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिञ्छिद्रे हस्तिशुण्डाकारां नाडीं प्रणिधाय तं स्वेदयेत् ||५|| सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम् | हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् | सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् ||६|| व्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः | स्वेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका ||७||

🔊 Audio coming soon

Adhikarana 5 (8) · Śloka 9

पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः | काष्ठैर्दग्ध्वा तथाऽऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ||८|| पत्रभङ्गैरवच्छाद्य शयानं स्वेदयेत्ततः |९|

🔊 Audio coming soon

Adhikarana 6 (9) · Śloka 9

पूर्ववत् स्वेदयेद्दग्ध्वा भस्मापोह्यापि वा शिलाम् ||९||

🔊 Audio coming soon

Adhikarana 7 (10) · Śloka 10

पूर्ववत् कुटीं वा चतुर्द्वारां कृत्वा तस्यामुपविष्टस्यान्तश्चतुर्द्वारेऽङ्गारानुपसन्धाय तं स्वेदयेत् ||१०||

🔊 Audio coming soon

Adhikarana 8 (11) · Śloka 11

कोशधान्यानि वा सम्यगुपस्वेद्यास्तीर्य किलिञ्जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य स्वेदयेत्; एवं पांशुगोशकृत्तुषबुसपलालोष्मभिः स्वेदयेत् ||११||

🔊 Audio coming soon

Adhikarana 9 (12) · Śloka 12

उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैर्लवणप्रगाढैः सुस्निग्धैः सुखोष्णैः प्रदिह्य स्वेदयेत् | एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलातसीसर्षपकल्कैः कृशरापायसोत्कारिकाभिर्वेशवारैः साल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत् ||१२||

🔊 Audio coming soon

Adhikarana 10 (13) · Śloka 13

द्रवस्वेदस्तु वातहरद्रव्यक्वाथपूर्णे कोष्णकटाहे द्रोण्यां वाऽवगाह्य स्वेदयेत्, एवं पयोमांसरसयूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत; एतैरेव सुखोष्णैः कषायैश्च परिषिञ्चेदिति ||१३||

🔊 Audio coming soon

Adhikarana 11 (14) · Śloka 14

तत्र तापोष्मस्वेदौ विशेषतः श्लेष्मघ्नौ, उपनाहस्वेदो वातघ्नः, अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्वेद इति ||१४||

🔊 Audio coming soon

Adhikarana 12 (15) · Śloka 15

कफमेदोन्विते वायौ निवातातपगुरुप्रावरणनियुद्धाध्वव्यायामभारहरणामर्षैः स्वेदमुत्पादयेदिति ||१५||

🔊 Audio coming soon

Adhikarana 13 (16) · Śloka 16

भवन्ति चात्र- चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते | सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा ||१६||

🔊 Audio coming soon

Adhikarana 14 (17-19) · Śloka 19

येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम् | शोधनीयाश्च ये केचित् पूर्वं स्वेद्यास्तु ते मताः ||१७|| पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा | सम्यक् प्रजाता काले या पश्चात् स्वेद्या विजानता ||१८|| स्वेद्यः पूर्वं च पश्चाच्च भगन्दर्यर्शसस्तथा | अश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे ||१९||

🔊 Audio coming soon

Adhikarana 15 (20) · Śloka 20

नानभ्यक्ते नापि चास्निग्धदेहे स्वेदो योज्यः स्वेदविद्भिः कथञ्चित् | दृष्टं लोके काष्ठमस्निग्धमाशु गच्छेद्भङ्गं स्वेदयोगैर्गृहीतम् ||२०||

🔊 Audio coming soon

Adhikarana 16 (21) · Śloka 21

स्नेहक्लिन्ना धातुसंस्थाश्च दोषाः स्वस्थानस्था ये च मार्गेषु लीनाः | सम्यक् स्वेदैर्योजितैस्ते द्रवत्वं प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषम् ||२१||

🔊 Audio coming soon

Adhikarana 17 (22) · Śloka 22

अग्नेर्दीप्तिं मार्दवं त्वक्प्रसादं भक्तश्रद्धां स्रोतसां निर्मलत्वम् | कुर्यात् स्वेदो हन्ति निद्रां सतन्द्रां सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः ||२२||

🔊 Audio coming soon

Adhikarana 18 (23-24) · Śloka 24

स्वेदास्रावो व्याधिहानिर्लघुत्वं शीतार्थित्वं मार्दवं चातुरस्य | सम्यक्स्विन्ने लक्षणं प्राहुरेतन्मिथ्यास्विन्ने व्यत्ययेनैतदेव ||२३|| स्विन्नेऽत्यर्थं सन्धिपीडा विदाहः स्फोटोत्पत्तिः पित्तरक्तप्रकोपः | मूर्च्छा भ्रान्तिर्दाहतृष्णे क्लमश्च कुर्यात्तूर्णं तत्र शीतं विधानम् ||२४||

🔊 Audio coming soon

Adhikarana 19 (25) · Śloka 26

पाण्डुर्मेही पित्तरक्ती क्षयार्तः क्षामोऽजीर्णी चोदरार्तो विषार्तः | तृड्च्छर्द्यार्तो गर्भिणी पीतमद्यो नैते स्वेद्या यश्च मर्त्योऽतिसारी | स्वेदादेषां यान्ति देहा विनाशं नोसाध्यत्वं यान्ति चैषां विकाराः ||२५|| स्वेदैः साध्यो दुर्बलोऽजीर्णभक्तः स्यातां चेद्द्वौ स्वेदनीयौ ततस्तौ |२६|

🔊 Audio coming soon

Adhikarana 20 (26-29) · Śloka 29

एतेषां स्वेदसाध्या ये व्याधयस्तेषु बुद्धिमान् | मृदून् स्वेदान् प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ||२६|| सर्वान् स्वेदान्निवाते च जीर्णान्नस्यावचारयेत् | स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ||२७|| स्विद्यमानस्य च मुहुर्हृदयं शीतलैः स्पृशेत् | सम्यक्स्विन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः ||२८|| स्वभ्यक्तं प्रावृताङ्गं च निवातशरणस्थितम् | भोजयेदनभिष्यन्दि सर्वं चाचारमादिशेत् ||२९||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 32

इति सुश्रुतसंहितायां चिकित्सास्थाने स्वेदावचारणीयं चिकित्सितं नाम द्वात्रिंशोऽध्यायः ||३२||

🔊 Audio coming soon