Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

19. vr̥ddhyupadaṁśaślīpadacikitsitam

Adhikarana 1 (1-3) · Śloka 4

अथातो वृद्ध्युपदंशश्लीपदचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| अन्त्रवृद्ध्या विना षड्या वृद्धयस्तासु वर्जयेत् | अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम् ||३|| अत्यासनं चङ्क्रमणमुपवासं गुरूणि च |४|

🔊 Audio coming soon

Adhikarana 2 (4-8) · Śloka 9

तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् ||४|| स्विन्नं चैनं यथान्यायं पाययेत विरेचनम् | कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम् ||५|| सक्षीरं वा पिबेन्मासं तैलमेरण्डसम्भवम् | ततः कालेऽनिलघ्नानां क्वाथैः कल्कैश्च बुद्धिमान् ||६|| निरूहयेन्निरूढं च भुक्तवन्तं रसौदनम् | यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत् ||७|| स्नेहोपनाहौ कुर्याच्च प्रदेहांश्चानिलापहान् | विदग्धां पाचयित्वा वा सेवनीं परिवर्जयेत् ||८|| भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत् |९|

🔊 Audio coming soon

Adhikarana 3 (9-11) · Śloka 12

पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः ||९|| पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा | शुद्धायां च भिषग्दद्यात्तैलं कल्कं च रोपणम् ||१०|| रक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक् | पिबेद्विरेचनं वाऽपि शर्कराक्षौद्रसंयुतम् ||११|| पित्तग्रन्थिक्रमं कुर्यादामे पक्वे च सर्वदा |१२|

🔊 Audio coming soon

Adhikarana 4 (12-14) · Śloka 14

वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत् ||१२|| पीतदारुकषायं च पिबेन्मूत्रेण संयुतम् | विम्लापनादृते वाऽपि श्लेष्मग्रान्थिक्रमो हितः ||१३|| पक्वायां च विभिन्नायां तैलं शोधनमिष्यते | सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम् ||१४||

🔊 Audio coming soon

Adhikarana 5 (15-17) · Śloka 18

मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना | शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः ||१५|| स्विन्नां चावेष्ट्य पट्टेन समाश्वास्य तु मानवम् | रक्षन् फले सेवनीं च वृद्धिपत्रेण दारयेत् ||१६|| भेदस्ततः समुद्धृत्य दद्यात् कासीससैन्धवे | बध्नीयाच्च यथोद्दिष्टं शुद्धे तैलं च दापयेत् ||१७|| मनःशिलाललवणैः सिद्धमारुष्करेषु च |१८|

🔊 Audio coming soon

Adhikarana 6 (18-24) · Śloka 24

मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् ||१८|| सेवन्याः पार्श्वतोऽधस्ताद्विध्येद् व्रीहिमुखेन तु | अथात्र द्विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक् ||१९|| मूत्रं, नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत् | शुद्धायां रोपणं दद्याद्वर्जयेदन्त्रहैतुकीम् ||२०|| अप्राप्तफलकोषायां वातवृद्धिक्रमो हितः | तत्र या वङ्क्षणस्था तां दहेदर्धेन्दुवक्त्रया ||२१|| सम्यङ्मार्गावरोधार्थं कोशप्राप्तां तु वर्जयेत् | त्वचं भित्त्वाऽङ्गुष्ठमध्ये दहेच्चाङ्गविपर्ययात् ||२२|| अनेनैव विधानेन वृद्धी वातकफात्मिके | प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः ||२३|| शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् | व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये ||२४||

🔊 Audio coming soon

Adhikarana 7 (25-27) · Śloka 27

उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिनः | सिरां विध्येन्मेढ्रमध्ये पातयेद्वा जलौकसः ||२५|| हरेदुभयतश्चापि दोषानत्यर्थमुच्छ्रितान् | सद्योऽपहृतदोषस्य रुक्शोफावुपशाम्यतः ||२६|| यदि वा दुर्बलो जन्तुर्न वा प्राप्तं विरेचनम् | निरूहेण हरेत्तस्य दोषानत्यर्थमुच्छ्रितान् ||२७||

🔊 Audio coming soon

Adhikarana 8 (28-29) · Śloka 30

प्रपौण्डरीकयष्ट्याह्ववर्षाभूकुष्ठदारुभिः | सरलागुरुरास्नाभिर्वातजं सम्प्रलेपयेत् ||२८|| निचुलैरण्डबीजानि यवगोधूमसक्तवः | एतैश्च वातजं स्निग्धैः सुखोष्णैः सम्प्रलेपयेत् ||२९|| प्रपौण्डरीकपूर्वैश्च द्रव्यैः सेकः प्रशस्यते |३०|

🔊 Audio coming soon

Adhikarana 9 (30-32) · Śloka 33

गैरिकाञ्जनयष्ट्याह्वसारिवोशीरपद्मकैः ||३०|| सचन्दनोत्पलैः स्निग्धैः पैत्तिकं सम्प्रलेपयेत् | पद्मोत्पलमृणालैश्च ससर्जार्जुनवेतसैः ||३१|| सर्पिःस्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् | सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ||३२|| अथवाऽपि सुशीतेन कषायेण वटादिना |३३|

🔊 Audio coming soon

Adhikarana 10 (33-35) · Śloka 35

सालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ||३३|| सुरापिष्टाभिरुष्णाभिः सतैलाभिः प्रलेपयेत् | रजन्यतिविषामुस्तासुरसासुरदारुभिः ||३४|| सपत्रपाठापत्तूरैरथवा सम्प्रलेपयेत् | सुरसारग्वधाद्योश्च क्वाथाभ्यां परिषेचयेत् ||३५||

🔊 Audio coming soon

Adhikarana 11 (36-39) · Śloka 39

एवं संशोधनालेपसेकशोणितमोक्षणैः | प्रतिकुर्यात् क्रियायोगैः प्राक्स्थानोक्तैर्हितैरपि ||३६|| न याति च यथा पाकं प्रयतेत तथा भिषक् | विदग्धैस्तु सिरास्नायुत्वङ्मांसैः क्षीयते ध्वजः ||३७|| शस्त्रेणोपचरेच्चापि पाकमागतमाशु वै | तदाऽपोह्य तिलैः सर्पिःक्षौद्रयुक्तैः प्रलेपयेत् ||३८|| करवीरस्य पत्राणि जात्यारग्वधयोस्तथा | प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि ||३९||

🔊 Audio coming soon

Adhikarana 12 (40-41) · Śloka 41

सौराष्ट्रीं गैरिकं तुत्थं पुष्पकासीससैन्धवम् | रोध्रं रसाञ्जनं दार्वीं हरितालं मनःशिलाम् ||४०|| हरेणुकैले च तथा सूक्ष्मचूर्णानि कारयेत् | तच्चूर्णं क्षौद्रसंयुक्तमुपदंशेषु पूजितम् ||४१||

🔊 Audio coming soon

Adhikarana 13 (42-44) · Śloka 45

जम्ब्वाम्रसुमनानिम्बश्वेतकाम्बोजिपल्लवाः | शल्लकीबदरीबिल्वपलाशतिनिशत्वचः ||४२|| क्षीरिणां च त्वचो योज्याः क्वाथे त्रिफलया सह | तेन क्वाथेन नियतं व्रणं प्रक्षालयेद्भिषक् ||४३|| अस्मिन्नेव कषाये तु तैलं धीरो विपाचयेत् | गोजीविडङ्गयष्टीभिः सर्वगन्धैश्च संयुतम् ||४४|| एतत् सर्वोपदंशेषु श्रेष्ठं रोपणमिष्यते |४५|

🔊 Audio coming soon

Adhikarana 14 (45-47) · Śloka 48

स्वर्जिकातुत्थकासीसं शैलेयं च रसाञ्जनम् ||४५|| मनःशिलासमैश्चूर्णं व्रणवीसर्पनाशनम् | गुन्द्रां दग्ध्वा कृतं भस्म हरितालं मनःशिला ||४६|| उपदंशबिसर्पाणामेतच्छान्तिकरं परम् | मार्कवस्त्रिफला दन्ती ताम्रचूर्णमयोरजः ||४७|| उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा |४८|

🔊 Audio coming soon

Adhikarana 15 (48) · Śloka 49

उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ||४८|| तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् |४९|

🔊 Audio coming soon

Adhikarana 16 (49-51) · Śloka 51

उपदंशे विशेषेण शृणु भूयस्त्रिदोषजे ||४९|| दुष्टव्रणविधिं कुर्यात् कुथितं मेहनं त्यजेत् | जम्ब्वोष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ||५०|| सम्यग्दग्धं च विज्ञाय मधुसर्पिः प्रयोजयेत् | शुद्धे च रोपणं दद्यात् कल्कं तैलं हितं च यत् ||५१||

🔊 Audio coming soon

Adhikarana 17 (52-54) · Śloka 54

स्नेहस्वेदोपपन्ने तु श्लीपदेऽनिलजे भिषक् | कृत्वा गुल्फोपरि सिरां विध्येत्तु चतुरङ्गुले ||५२|| समाप्यायितदेहं च बस्तिभिः समुपाचरेत् | मासमेरण्डजं तैलं पिबेन्मूत्रेण संयुतम् ||५३|| पयसौदनमश्नीयान्नागरक्वथितेन च | त्रैवृतं चोपयुञ्जीत शस्तो दाहस्तथाऽग्निना ||५४||

🔊 Audio coming soon

Adhikarana 18 (55) · Śloka 55

गुल्फस्याधः सिरां विध्येच्छ्लीपदे पित्तसम्भवे | पित्तघ्नीं च क्रियां कुर्यात् पित्तार्बुदविसर्पवत् ||५५||

🔊 Audio coming soon

Adhikarana 19 (56-62) · Śloka 62

सिरां सुविदितां विध्येदङ्गुष्ठे श्लैष्मिके भिषक् | मधुयुक्तानि चाभीक्ष्णं कषायाणि पिबेन्नरः ||५६|| पिबेद्वाऽप्यभयाकल्कं मूत्रेणान्यतमेन च | कटुकाममृतां शुण्ठीं विडङ्गं दारु चित्रकम् ||५७|| हितं वा लेपने नित्यं भद्रदारु सचित्रकम् | विडङ्गमरिचार्केषु नागरे चित्रकेऽथवा ||५८|| भद्रदार्वेलुकाख्ये च सर्वेषु लवणेषु च | तैलं पक्वं पिबेद्वाऽपि यवान्नं च हितं सदा ||५९|| पिबेत् सर्षपतैलं वा श्लीपदानां निवृत्तये | पूतीकरञ्जपत्राणां रसं वाऽपि यथाबलम् ||६०|| अनेनैव विधानेन पुत्रञ्जीवकजं रसम् | प्रयुञ्जीत भिषक् प्राज्ञः कालसात्म्यविभागवित् ||६१|| केवुकाकन्दनिर्यासं लवणं त्वथ पाकिमम् | रसं दत्त्वाऽथ पूर्वोक्तं पेयमेतद्भिषग्जितम् ||६२||

🔊 Audio coming soon

Adhikarana 20 (63-66) · Śloka 66

काकादनीं काकजङ्घां बृहतीं कण्टकारिकाम् | कदम्बपुष्पीं मन्दारीं लम्बां शुकनसां तथा ||६३|| दग्ध्वा मूत्रेण तद्भस्म स्रावयेत् क्षारकल्पवत् | तत्र दद्यात् प्रतीवापं काकोदुम्बरिकारसम् ||६४|| मदनाच्च फलात् क्वाथं शुकाख्यस्वरसं तथा | एष क्षारस्तु पानीयः श्लीपदं हन्ति सेवितः ||६५|| अपचीं गलगण्डं च ग्रहणीदोषमेव च | भक्तस्यानशनं चैव हन्यात् सर्वविषाणि च ||६६||

🔊 Audio coming soon

Adhikarana 21 (67) · Śloka 67

एष्वेव तैलं संसिद्धं नस्याभ्यङ्गेषु पूजितम एतानेवामयान् हन्ति ये च दुष्टव्रणा नृणाम् ||६७||

🔊 Audio coming soon

Adhikarana 22 (68-69) · Śloka 69

द्रवन्तीं त्रिवृतां दन्तीं नीलीं श्यामां तथैव च | सप्तलां शङ्खिनीं चैव दग्ध्वा मूत्रेण गालयेत् ||६८|| दद्याच्च त्रिफलाक्वाथमेष क्षारस्तु साधितः | अधो गच्छति पीतस्तु पूर्वैश्चाप्याशिषः समाः ||६९||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 19

इति सुश्रुतसंहितायां चिकित्सास्थाने वृद्ध्युपदंशश्लीपदचिकित्सितं नामैकोनविंशोऽध्यायः ||१९||

🔊 Audio coming soon