Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

6. dundubhisvanīyakalpaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो दुन्दुभिस्वनीयं कल्पं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3-7) · Śloka 7

धवाश्वकर्णशिरीषतिनिशपलाशपिचुमर्दपाटलिपारिभद्रकाम्रोदुम्बरकरहाटकार्जुनककुभसर्ज- कपीतनश्लेष्मातकाङ्कोठामलकप्रग्रहकुटजशमीकपित्थाश्मन्तकार्कचिरबिल्वमहावृक्षारुष्करारलु- मधुकमधुशिग्रुशाकगोजीमूर्वाभूर्जतिल्वकेक्षुरकगोपघोण्टारिमेदानां भस्मान्याहृत्य गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपचेत्, दद्याच्चात्र पिप्पलीमूलतण्डुलीयकवराङ्गचोचमञ्जिष्ठाकरञ्जिकाहस्तिपिप्पलीमरिचविडङ्गगृहधूमानन्ता- सोमसरलाबाह्लीकगुहाकोशाम्रश्वेतसर्षपवरुणलवणप्लक्षनिचुलकवञ्जुलवक्रालवर्धमानपुत्रश्रेणी- सप्तपर्णटुण्टुकैलवालुकनागदन्त्यतिविषाभयाभद्रदारुकुष्ठहरिद्रावचाचूर्णानि लोहानां च समभागानि, ततः क्षारवदागतपाकमवतार्य लोहकुम्भे निदध्यात् ||३|| अनेन दुन्दुभिं लिम्पेत् पताकां तोरणानि च | श्रवणाद्दर्शनात् स्पर्शात् विषात् सम्प्रतिमुच्यते ||४|| एष क्षारागदो नाम शर्करास्वश्मरीषु च | अर्शःसु वातगुल्मेषु कासशूलोदरेषु च ||५|| अजीर्णे ग्रहणीदोषे भक्तद्वेषे च दारुणे | शोफे सर्वसरे चापि देयः श्वासे च दारुणे ||६|| सदा सर्वविषार्तानां सर्वथैवोपयुज्यते | एष तक्षकमुख्यानामपि दर्पाङ्कुशोऽगदः ||७||

🔊 Audio coming soon

Adhikarana 3 (8-11) · Śloka 11

विडङ्गत्रिफलादन्तीभद्रदारुहरेणवः | तालीशपत्रमञ्जिष्ठाकेशरोत्पलपद्मकम् ||८|| दाडिमं मालतीपुष्पं रजन्यौ सारिवे स्थिरे | प्रियङ्गुस्तगरं कुष्ठं बृहत्यौ चैलवालुकम् ||९|| सचन्दनगवाक्षीभिरेतैः सिद्धं विषापहम् | सर्पिः कल्याणकं ह्येतद्ग्रहापस्मारनाशनम् ||१०|| पाण्ड्वामयगरश्वासमन्दाग्निज्वरकासनुत् | शोषिणामल्पशुक्राणां वन्ध्यानां च प्रशस्यते ||११||

🔊 Audio coming soon

Adhikarana 4 (12-13) · Śloka 13

अपामार्गस्य बीजानि शिरीषस्य च माषकान् | श्वेते द्वे काकमाचीं च गवां मूत्रेण पेषयेत् ||१२|| सर्पिरेतैस्तु संसिद्धं विषसंशमनं परम् | अमृतं नाम विख्यातमपि सञ्जीवयेन्मृतम् ||१३||

🔊 Audio coming soon

Adhikarana 5 (14-27) · Śloka 27

चन्दनागुरुणी कुष्ठं तगरं तिलपर्णिकम् | प्रपौण्डरीकं नलदं सरलं देवदारु च ||१४|| भद्रश्रियं यवफलां भार्गी नीलीं सुगन्धिकाम् | कालेयकं पद्मकं च मधुकं नागरं जटाम् ||१५|| पुन्नागैलैलवालूनि गैरिकं ध्यामकं बलाम् | तोयं सर्जरसं मांसीं शतपुष्पां हरेणुकाम् ||१६|| तालीशपत्रं क्षुद्रैलां प्रियङ्गुं सकुटन्नटम् | शिलापुष्पं सशैलेयं पत्रं कालानुसारिवाम् ||१७|| कटुत्रिकं शीतशिवं काश्मर्यं कटुरोहिणीम् | सोमराजीमतिविषां पृथ्विकामिन्द्रवारुणीम् ||१८|| उशीरं वरुणं मुस्तं कुस्तुम्बुरु नखं तथा | श्वेते हरिद्रे स्थौणेयं लाक्षां च लवणानि च ||१९|| कुमुदोत्पलपद्मानि पुष्पं चापि तथाऽर्कजम् | चम्पकाशोकसुमनस्तिल्वकप्रसवानि च ||२०|| पाटलीशाल्मलीशैलुशिरीषाणां तथैव च | कुसुमं तृणमूल्याश्च सुरभीसिन्धुवारजम् ||२१|| धवाश्वकर्णपार्थानां पुष्पाणि तिनिशस्य च | गुग्गुलुं कुङ्कुमं बिम्बीं सर्पाक्षीं गन्धनाकुलीम् ||२२|| एतत् सम्भृत्य सम्भारं सूक्ष्मचूर्णानि कारयेत् | गोपित्तमधुसर्पिर्भिर्युक्तं शृङ्गे निधापयेत् ||२३|| भग्नस्कन्धं विवृताक्षं मृत्योर्दंष्ट्रान्तरं गतम् | अनेनागदमुख्येन मनुष्यं पुनराहरेत् ||२४|| एषोऽग्निकल्पं दुर्वारं क्रुद्धस्यामिततेजसः | विषं नागपतेर्हन्यात् प्रसभं वासुकेरपि ||२५|| महासुगन्धिनामाऽयं पञ्चाशीत्यङ्गसंयुतः | राजाऽगदानां सर्वेषां राज्ञो हस्ते भवेत् सदा ||२६|| स्नातानुलिप्तस्तु नृपो भवेत् सर्वजनप्रियः | भ्राजिष्णुतां च लभते शत्रुमध्यगतोऽपि सन् ||२७||

🔊 Audio coming soon

Adhikarana 6 (28) · Śloka 28

उष्णवर्ज्यो विधिः कार्यो विषार्तानां विजानता | मुक्त्वा कीटविषं तद्धि शीतेनाभिप्रवर्धते ||२८||

🔊 Audio coming soon

Adhikarana 7 (29-31) · Śloka 31

अन्नपानविधावुक्तमुपधार्य शुभाशुभम् | शुभं देयं विषार्तेभ्यो विरुद्धेभ्यश्च वारयेत् ||२९|| फाणितं शिग्रुसौवीरमजीर्णाध्यशनं तथा | वर्जयेच्च समासेन नवधान्यादिकं गणम् ||३०|| दिवास्वप्नं व्यवायं च व्यायामं क्रोधमातपम् | सुरातिलकुलत्थांश्च वर्जयेद्धि विषातुरः ||३१||

🔊 Audio coming soon

Adhikarana 8 (32) · Śloka 32

प्रसन्नदोषं प्रकृतिस्थधातुमन्नाभिकाङ्क्षं समसूत्रजिह्वम् | प्रसन्नवर्णेन्द्रियचित्तचेष्टं वैद्योऽवगच्छेदविषं मनुष्यम् ||३२||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 6

इति सुश्रुतसंहितायां कल्पस्थाने दुन्दुभिस्वनीयकल्पो नाम षष्ठोऽध्यायः ||६||

🔊 Audio coming soon