Adhikarana 1 (1-2) · Śloka 2
अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः क्षुद्ररोगाणां निदानं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
समासेन चतुश्चत्वारिंशत् क्षुद्ररोगा भवन्ति | तद्यथा,- अजगल्लिका, यवप्रख्या, अन्धालजी, विवृता, कच्छपिका, वल्मीकं, इन्द्रवृद्धा , पनसिका, पाषाणगर्दभः, जालगर्दभः, कक्षा , विस्फोटकः, अग्निरोहिणी, चिप्पं, कुनखः, अनुशयी, विदारिका शर्करार्बुदं, पामा, विचर्चिका, रकसा, पाददारिका, कदरं, अलसेन्द्रलुप्तौ , दारुणकः, अरुंषिका, पलितं, मसूरिका, यौवनपिडका, पद्मिनीकण्टकः, जतुमणिः, मशकः, चर्मकीलः , तिलकालकः, न्यच्छं, व्यङ्गः, परिवर्तिका, अवपाटिका, निरुद्धप्रकशः सन्निरुद्धगुदः, अहिपूतनं, वृषणकच्छ्रः, गुदभ्रंशश्चेति ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा | कफवातोत्थिता ज्ञेया बालानामजगल्लिका ||४||
🔊 Audio coming soon
Adhikarana 4 (5) · Śloka 5
यवाकारा सुकठिना ग्रथिता मांससंश्रिता | पिडका श्लेष्मवाताभ्यां यवप्रख्येति सोच्यते ||५||
🔊 Audio coming soon
Adhikarana 5 (6) · Śloka 6
घनामवक्त्रां पिडकामुन्नतां परिमण्डलाम् | अन्धालजीमल्पपूयां तां विद्यात् कफवातजाम् ||६||
🔊 Audio coming soon
Adhikarana 6 (7) · Śloka 7
विवृतास्यां महादाहां पक्वोदुम्बरसन्निभाम् | विवृतामिति तां विद्यात् पित्तोत्थां परिमण्डलाम् ||७||
🔊 Audio coming soon
Adhikarana 7 (8) · Śloka 8
ग्रथिताः पञ्च वा षड्वा दारुणाः कच्छपोन्नताः | कफानिलाभ्यां पिडका ज्ञेया कच्छपिका बुधैः ||८||
🔊 Audio coming soon
Adhikarana 8 (9-10) · Śloka 10
पाणिपादतले सन्धौ ग्रीवायामूर्ध्वजत्रुणि | ग्रन्थिर्वल्मीकवद्यस्तु शनैः समुपचीयते ||९|| तोदक्लेदपरीदाहकण्डूमद्भिर्मुखैर्वृतः | व्याधिर्वल्मीक इत्येष कफपित्तानिलोद्भवः ||१०||
🔊 Audio coming soon
Adhikarana 9 (11) · Śloka 12
पद्मपुष्करवन्मध्ये पिडकाभिः समाचिताम् | इन्द्रवृद्धां तु तां विद्याद्वातपित्तोत्थितां भिषक् ||११|| मण्डलं वृत्तमुत्सन्नं सरक्तं पिडकाचितम् | रुजाकरीं गदर्भिकां तां विद्याद्वातपित्तजाम् |१२|
🔊 Audio coming soon
Adhikarana 10 (12) · Śloka 12
कर्णौ परि समन्ताद्वा पृष्ठे वा पिडकोग्ररुक् | शालूकवत्पनसिकां तां विद्याच्छ्लेष्मवातजाम् ||१२||
🔊 Audio coming soon
Adhikarana 11 (13) · Śloka 13
हनुसन्धौ समुद्भूतं शोफमल्परुजं स्थिरम् | पाषाणगर्दभं विद्याद्बलासपवनात्मकम् ||१३||
🔊 Audio coming soon
Adhikarana 12 (14) · Śloka 14
विसर्पवत् सर्पति यो दाहज्वरकरस्तनुः | अपाकः श्वयथुः पित्तात् स ज्ञेयो जालगर्दभः ||१४||
🔊 Audio coming soon
Adhikarana 13 (15) · Śloka 15
पिडिकामुत्तमाङ्गस्थां वृत्तामुग्ररुजाज्वराम् | सर्वात्मकां सर्वलिङ्गां जानीयादिरिवेल्लिकाम् ||१५||
🔊 Audio coming soon
Adhikarana 14 (16) · Śloka 16
बाहुपार्श्वांसकक्षासु कृष्णस्फोटां सवेदनाम् | पित्तप्रकोपसम्भूतां कक्षामिति विनिर्दिशेत् ||१६||
🔊 Audio coming soon
Adhikarana 15 (17) · Śloka 17
एकामेवंविधां दृष्ट्वा पिटिकां स्फोटसन्निभाम् | त्वग्गतां पित्तकोपेन गन्धनामां प्रचक्षते ||१७||
🔊 Audio coming soon
Adhikarana 16 (18) · Śloka 18
अग्निदग्धनिभाः स्फोटाः सज्वराः पित्तरक्ततः | क्वचित् सर्वत्र वा देहे स्मृता विस्फोटका इति ||१८||
🔊 Audio coming soon
Adhikarana 17 (19-20) · Śloka 20
कक्षाभागेषु ये स्फोटा जायन्ते मांसदारु(र)णाः | अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः ||१९|| सप्ताहाद्वा दशाहाद्वा पक्षाद्वा न्घन्ति मानवम् | तामग्निरोहिणीं विद्यादसाध्यां सन्निपाततः ||२०||
🔊 Audio coming soon
Adhikarana 18 (20-22) · Śloka 23
नखमांसमधिष्ठाय पित्तं वातश्च वेदनाम् | करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत् ||२१|| तदेवाक्षतरोगाख्यं तथोपनखमित्यपि | अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः ||२२|| भवेत्तं कुनखं विद्यात् कुलीनमिति सञ्ज्ञितम् |२३|
🔊 Audio coming soon
Adhikarana 19 (23) · Śloka 24
गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थिताम् ||२३|| कफादन्तःप्रपाकां तां विद्यादनुशयीं भिषक् |२४|
🔊 Audio coming soon
Adhikarana 20 (24) · Śloka 25
विदारीकन्दवद्वृत्तां कक्षावङ्क्षणसन्धिषु ||२४|| रक्तां विदारिकां विद्यात् सर्वजां सर्वलक्षणाम् |२५|
🔊 Audio coming soon
Adhikarana 21 (25-27) · Śloka 28
प्राप्य मांससिरास्नायु श्लेष्मा मेदस्तथाऽनिलः ||२५|| ग्रन्थिं कुर्वन्ति भिन्नोऽसौ मधुसर्पिर्वसानिभम् | स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः ||२६|| मांसं विशोष्य ग्रथितां शर्करां जनयेत् पुनः | दुर्गन्धं क्लिन्नमत्यर्थं नानावर्णं ततः सिराः ||२७|| स्रवन्ति सहसा रक्तं तद्विद्याच्छर्करार्बुदम् |२८|
🔊 Audio coming soon
Adhikarana 22 (28) · Śloka 28
पामाविचर्च्यौ कुष्ठेषु रकसा च प्रकीर्तिता ||२८||
🔊 Audio coming soon
Adhikarana 23 (29) · Śloka 29
परिक्रमणशीलस्य वायुरत्यर्थरूक्षयोः | पादयोः कुरुते दारीं सरुजां तलसंश्रितः ||२९||
🔊 Audio coming soon
Adhikarana 24 (30-31) · Śloka 31
शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः | मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ||३०|| सकीलकठिनो ग्रन्थिर्निम्नमध्योन्नतोऽपि वा | कोलमात्रः सरुक् स्रावी जायते कदरस्तु सः ||३१||
🔊 Audio coming soon
Adhikarana 25 (32) · Śloka 32
क्लिन्नाङ्गुल्यन्तरौ पादौ कण्डूदाहरुगन्वितौ | दुष्टकर्दमसंस्पर्शादलसं तं विनिर्दिशेत् ||३२||
🔊 Audio coming soon
Adhikarana 26 (33-34) · Śloka 34
रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् | प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ||३३|| रुणद्धि रोमकूपांस्तु ततोऽन्येषामसम्भवः | तदिन्द्रलुप्तं खालित्यं रुज्येति च विभाव्यते ||३४||
🔊 Audio coming soon
Adhikarana 27 (35) · Śloka 35
दारुणा कण्डुरा रूक्षा केशभूमिः प्रपाट्यते | कफवातप्रकोपेण विद्याद्दारुणकं तु तम् ||३५||
🔊 Audio coming soon
Adhikarana 28 (36) · Śloka 36
अरूंषि बहुवक्त्राणि बहुक्लेदीनि मूर्धनि | कफासृक्कृमिकोपेन नृणां विद्यादरुंषिकाम् ||३६||
🔊 Audio coming soon
Adhikarana 29 (37) · Śloka 37
क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः | पित्तं च केशान् पचति पलितं तेन जायते ||३७||
🔊 Audio coming soon
Adhikarana 30 (38) · Śloka 38
दाहज्वररुजावन्तस्ताम्राः स्फोटाः सपीतकाः | गात्रेषु वदने चान्तर्विज्ञेयास्ता मसूरिकाः ||३८||
🔊 Audio coming soon
Adhikarana 31 (39) · Śloka 39
शाल्मलीकण्टकप्रख्याः कफमारुतशोणितैः | जायन्ते पिडका यूनां वक्त्रे या मुखदूषिकाः ||३९||
🔊 Audio coming soon
Adhikarana 32 (40) · Śloka 40
कण्टकैराचितं वृत्तं कण्डूमत् पाण्डुमण्डलम् | पद्मिनीकण्टकप्रख्यैस्तदाख्यं कफवातजम् ||४०||
🔊 Audio coming soon
Adhikarana 33 (41) · Śloka 41
नीरुजं सममुत्सन्नं मण्डलं कफरक्तजम् | सहजं रक्तमीषच्च श्लक्ष्णं जतुमणिं विदुः ||४१||
🔊 Audio coming soon
Adhikarana 34 (42) · Śloka 42
अवेदनं स्थिरं चैव यस्य गात्रेषु दृश्यते | माषवत्कृष्णमुत्सन्नमनिलान्मषकं वदेत् ||४२||
🔊 Audio coming soon
Adhikarana 35 (43) · Śloka 43
कृष्णानि तिलमात्राणि नीरुजानि समानि च | वातपित्तकफोच्छोषात्तान् विद्यात्तिलकालकान् ||४३||
🔊 Audio coming soon
Adhikarana 36 (44) · Śloka 44
मण्डलं महदल्पं वा श्यामं वा यदि वा सितम् | सहजं नीरुजं गात्रे न्यच्छमित्यभिधीयते ||४४||
🔊 Audio coming soon
Adhikarana 37 (45) · Śloka 45
समुत्थाननिदानाभ्यां चर्मकीलं प्रकीर्तितम् |४५|
🔊 Audio coming soon
Adhikarana 38 (45-46) · Śloka 47
क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः ||४५|| सहसा मुखमागत्य मण्डलं विसृजत्यतः | नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ||४६|| कृष्णमेवङ्गुणं गात्रे मुखे वा नीलिकां विदुः |४७|
🔊 Audio coming soon
Adhikarana 39 (47-49) · Śloka 50
मर्दनात् पीडनाच्चाति तथैवाप्यभिघाततः | मेढ्रचर्म यदा वायुर्भजते सर्वतश्चरः ||४७|| तदा वातोपसृष्टं तु चर्म प्रतिनिवर्तते | मणेरधस्तात् कोशश्च ग्रन्थिरूपेण लम्बते ||४८|| सवेदनः सदाहश्च पाकं च व्रजति क्वचित् | मारुतागन्तुसम्भूतां विद्यात्तां परिवर्तिकाम् ||४९|| सकण्डूः कठिना चापि सैव श्लेष्मसमुत्थिता |५०|
🔊 Audio coming soon
Adhikarana 40 (50-51) · Śloka 52
अल्पीयःखां यदा हर्षाद्बालां गच्छेत् स्त्रियं नरः ||५०|| हस्ताभिघातादथवा चर्मण्युद्वर्तिते बलात् | मर्दनात्पीडनाद्वाऽपि शुक्रवेगविघाततः ||५१|| यस्यावपाट्यते चर्म तां विद्यादवपाटिकाम् |५२|
🔊 Audio coming soon
Adhikarana 41 (52-54) · Śloka 54
वातोपसृष्टमेवं तु चर्म संश्रयते मणिम् ||५२|| मणिश्चर्मोपनद्धस्तु मूत्रस्रोतो रुणद्धि च | निरुद्धप्रकशे तस्मिन्मन्दधारमवेदनम् ||५३|| मूत्रं प्रवर्तते जन्तोर्मणिर्न च विदीर्यते | निरुद्धप्रकशं विद्याद्दुरूढां चावपाटिकाम् ||५४||
🔊 Audio coming soon
Adhikarana 42 (55-56) · Śloka 56
वेगसन्धारणाद्वायुर्विहतो गुदमाश्रितः | निरुणद्धि महत्स्रोतः सूक्ष्मद्वारं करोति च ||५५|| मार्गस्य सौक्ष्म्यात् कृच्छ्रेण पुरीषं तस्य गच्छति | सन्निरुद्धगुदं व्याधिमेनं विद्यात् सुदुस्तरम् ||५६||
🔊 Audio coming soon
Adhikarana 43 (57-58) · Śloka 58
शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् | स्विन्नस्यास्नाप्यमानस्य कण्डू रक्तकफोद्भवा ||५७|| कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते | एकीभूतं व्रणैर्घोरं तं विद्यादहिपूतनम् ||५८||
🔊 Audio coming soon
Adhikarana 44 (59-60) · Śloka 60
स्नानोत्सादनहीनस्य मलो वृषणसंश्रितः | यदा प्रक्लिद्यते स्वेदात् कण्डूं सञ्जनयेत्तदा ||५९|| तत्र कण्डूयनात् क्षिप्रं स्फोटाः स्रावश्च जायते | प्राहुर्वृषणकच्छूं तां श्लेष्मरक्तप्रकोपजाम् ||६०||
🔊 Audio coming soon
Adhikarana 45 (61) · Śloka 61
प्रवाहणातिसाराभ्यां निर्गच्छति गुदं बहिः | रूक्षदुर्बलदेहस्य तं गुदभ्रंशमादिशेत् ||६१||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 13
इति सुश्रुतसंहितायां निदानस्थाने क्षुद्ररोगनिदानं नाम त्रयोदशोऽध्यायः ||१३||
🔊 Audio coming soon