Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. garbhiṇīvyākaraṇaśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातो गर्भिणीव्याकरणं शारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहृष्टा शुच्यलङ्कृता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत्, मलिनविकृतहीनगात्राणि न स्पृशेत्, दुर्गन्धदुर्दर्शनानि परिहरेत्, उद्वेजनीयाश्च कथाः, शुष्कं पर्युषितं कुथितं क्लिन्नं चान्नं नोपभुञ्जीत, बहिर्निष्क्रमणं शून्यागारचैत्यश्मशानवृक्षाश्रयान् क्रोधमयशस्करांश्च भावानुच्चैर्भाष्यादिकं च परिहरेद्यानि च गर्भं व्यापादयन्ति, न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि सेवेत, न चायासयेच्छरीरं, पूर्वोक्तानि च परिहरेत्, शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसम्बाधं च विदध्यात्, हृद्यं द्रवमधुरप्रायं स्निग्धं दीपनीयसंस्कृतं च भोजनं भोजयेत्, सामान्यमेतदाप्रसवात् ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

विशेषतस्तु गर्भिणी प्रथमद्वितीयतृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसेवेत; विशेषतस्तु तृतीये षष्टिकौदनं पयसा भोजयेत्, चतुर्थे दध्ना, पञ्चमे पयसा, षष्ठे सर्पिषेत्येके; चतुर्थे पयोनवनीतसंसृष्टमाहारयेज्जाङ्गलमांससहितं हृद्यमन्नं च भोजयेत्, पञ्चमे क्षीरसर्पिःसंसृष्टं , षष्ठे श्वदंष्ट्रासिद्धस्य सर्पिषो मात्रां पाययेद् यवागूं वा, सप्तमे सर्पिः पृथक्पर्ण्यादिसिद्धम्, एवमाप्यायते गर्भः; अष्टमे बदरोदकेन बलातिबलाशतपुष्पापललपयोदधिमस्तुतैललवणमदनफलमधुघृतमिश्रेणास्थापयेत् पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थं च वायोः, ततः पयोमधुरकषायसिद्धेन तैलेनानुवासयेत्, अनुलोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च भवति, अत ऊर्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गलरसैश्चोपक्रमेदाप्रसवकालात्; एवमुपक्रान्ता स्निग्धा बलवती सुखमनुपद्रवा प्रसूयते ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

नवमे मासि सूतिकागारमेनां प्रवेशयेत् प्रशस्ते तिथ्यादौ | तत्रारिष्टं ब्राह्मणक्षत्रियवैश्यशूद्राणां श्वेतरक्तपीतकृष्णेषु भूमिप्रदेशेषु बिल्वन्यग्रोधतिन्दुकभल्लातकनिर्मितसर्वागारं यथासङ्ख्यं तन्मयपर्यङ्कं समुपलिप्तभित्तिं सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं वाऽष्टहस्तायतं चतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम् ||५||

🔊 Audio coming soon

Adhikarana 5 (6-7) · Śloka 7

जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने | सशूले जघने नारी ज्ञेया सा तु प्रजायिनी ||६|| तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ताद्वेदना भवत्यभीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसिच्यते योनिमुखाच्छ्लेष्मा च ||७||

🔊 Audio coming soon

Adhikarana 6 (8) · Śloka 8

प्रजनयिष्यमाणां कृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पुन्नामफलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां सम्भृतां यवागूमाकण्ठात् पाययेत्, ततः कृतोपधाने मृदुनि विस्तीर्णे शयने स्थितामाभुग्नसक्थीमुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परिणतवयसः प्रजननकुशलाः कर्तितनखाः परिचरेयुरिति ||८||

🔊 Audio coming soon

Adhikarana 7 (9) · Śloka 9

अथास्या विशिखान्तरमनुलोममनुसुखमभ्यज्यानुब्रूयाच्चैतामेका - सुभगे प्रवाहस्वेति, नचाप्राप्तावी प्रवाहस्व, ततो विमुक्ते गर्भनाडीप्रबन्धे सशूलेषु श्रोणिवङ्क्षणबस्तिशिरःसु च प्रवाहेथाः शनैः शनैः, ततो गर्भनिर्गमे प्रगाढं, ततो गर्भे योनिमुखं प्रपन्ने गाढतरमाविशल्यभावात्; अकालप्रवाहणाद्बधिरं मूकं कुब्जं व्यस्तहनुमूर्ध्वाभिघातिनं कासश्वासशोषोपद्रुतं विकटं वा जनयति ||९||

🔊 Audio coming soon

Adhikarana 8 (10) · Śloka 10

तत्र प्रतिलोममनुलोमयेत्, प्राञ्जलमाकर्षेत् ||१०||

🔊 Audio coming soon

Adhikarana 9 (11) · Śloka 11

गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्मोकेण पिण्डीतकेन वा, बध्नीयाद्धिरण्यपुष्पीमूलं हस्तपादयोः, धारयेत् सुवर्चलां विशल्यां वा ||११||

🔊 Audio coming soon

Adhikarana 10 (12) · Śloka 12

अथ जातस्योल्बं मुखं च सैन्धवसर्पिषा विशोध्य, घृताक्तं मूर्ध्नि पिचुं दद्यात्; ततो नाभिनाडीमष्टाङ्गुलमायम्य सूत्रेण बद्ध्वा छेदयेत्, तत्सूत्रैकदेशं च कुमारस्य ग्रीवायां सम्यग् बध्नीयात् ||१२||

🔊 Audio coming soon

Adhikarana 11 (13) · Śloka 13

अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्मणि कृते मधुसर्पिरनन्तचूर्णमङ्गुल्याऽनामिकया लेहयेत्; ततो बलातैलेनाभ्यज्य, क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा रूप्यहेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्रकषायेण वा कोष्णेन यथाकालं यथादोषं यथाविभवं च ||१३||

🔊 Audio coming soon

Adhikarana 12 (14-15) · Śloka 15

धमनीनां हृदिस्थानां विवृतत्वादनन्तरम् | चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्तते ||१४|| तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तमिश्रं मन्त्रपूतं त्रिकालं पाययेत्, द्वितीये लक्ष्मणासिद्धं सर्पिः, तृतीये च; ततः प्राङ्निवारितस्तन्यं मधुसर्पिः स्वपाणितलसम्मितं द्विकालं पाययेत् ||१५||

🔊 Audio coming soon

Adhikarana 13 (16) · Śloka 16

अथ सूतिकां बलातैलाभ्यक्तां वातहरौषधनिष्क्वाथेनोपचरेत् | सशेषदोषां तु तदहः पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचूर्णं गुडोदकेनोष्णेन पाययेत्, एवं द्विरात्रं त्रिरात्रं वा कुर्यादादुष्टशोणितात् | विशुद्धे ततो विदारिगन्धादिसिद्धां स्नेहयवागूं क्षीरयवागूं वा पाययेत्त्रिरात्रम् | ततो यवकोलकुलत्थसिद्धेन जाङ्गलरसेन शाल्योदनं भोजयेद्बलमग्निबलं चावेक्ष्य | अनेन विधिनाऽध्यर्धमासमुपसंस्कृता विमुक्ताहाराचारा विगतसूतिकाभिधाना स्यात्, पुनरार्तवदर्शनादित्येके ||१६||

🔊 Audio coming soon

Adhikarana 14 (17) · Śloka 17

धन्वभूमिजातां तु सूतिकां घृततैलयोरन्यतरस्य मात्रां पाययेत् पिप्पल्यादिकषायानुपानां, स्नेहनित्या च स्यात्त्रिरात्रं पञ्चरात्रं वा बलवती ; अबलां यवागूं पाययेत्त्रिरात्रं पञ्चरात्रं वा | अत ऊर्ध्वं स्निग्धेनान्नसंसर्गेणोपचरेत् ||१७||

🔊 Audio coming soon

Adhikarana 15 (18) · Śloka 18

प्रायशश्चैनां प्रभूतेनोष्णोदकेन परिषिञ्चेत्, क्रोधायासमैथुनादींश्च परिहरेत् ||१८||

🔊 Audio coming soon

Adhikarana 16 (19-20) · Śloka 20

मिथ्याचारात् सूतिकाया यो व्याधिरुपजायते | स कृच्छ्रसाध्योऽसाध्यो वा भवेदत्यपतर्पणात् ||१९|| तस्मात्तां देशकालौ च व्याधिसात्म्येन कर्मणा | परीक्ष्योपचरेन्नित्यमेवं नात्ययमाप्नुयात् ||२०||

🔊 Audio coming soon

Adhikarana 17 (21) · Śloka 21

अथापराऽपतन्त्यानाहाध्मानौ कुरुते, तस्मात् कण्ठमस्याः केशवेष्टितयाऽङ्गुल्या प्रमृजेत्, कटुकालाबुकृतवेधनसर्षपसर्पनिर्मोकैर्वा कटुतैलविमिश्रैर्योनिमुखं धूपयेत्, लाङ्गलीमूलकल्केन वाऽस्याः पाणिपादतलमालिम्पेत्, मूर्ध्नि वाऽस्या महावृक्षक्षीरमनुसेचयेत्, कुष्ठलाङ्गलीमूलकल्कं वा मद्यमूत्रयोरन्यतरेण पाययेत्, शालमूलकल्कं वा पिप्पल्यादिं वा मद्येन, सिद्धार्थककुष्ठलाङ्गलीमहावृक्षक्षीरमिश्रेण सुरामण्डेन वाऽऽस्थापयेत्, एतैरेव सिद्धेन सिद्धार्थकतैलेनोत्तरबस्तिं दद्यात्, स्निग्धेन वा कृत्तनखेन हस्तेनापहरेत् ||२१||

🔊 Audio coming soon

Adhikarana 18 (22) · Śloka 22

प्रजातायाश्च नार्या रूक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुना तद्देशगतेनातिसंरुद्धं नाभेरधः पार्श्वयोर्बस्तौ बस्तिशिरसि वा ग्रन्थिं करोति; ततश्च नाभिबस्त्युदरशूलानि भवन्ति, सूचीभिरिव निस्तुद्यते भिद्यते दीर्यत इव च पक्वाशयः, समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम् | तत्र वीरतर्वादिसिद्धं जलमुषकादिप्रतीवापं पाययेत्, यवक्षारचूर्णं वा सुखोदकेन पिप्पल्यादिक्वाथेन वा, पिप्पल्यादिचूर्णं वा सुरामण्डेन, वरुणादिक्वाथं वा पञ्चकोलैलाप्रतीवापं, पृथक्पर्ण्यादिक्वाथं वा भद्रदारुमरिचसंसृष्टं, पुराणगुडं वा त्रिकटुकचतुर्जातककुस्तुम्बुरुमिश्रं खादेत्, अच्छं वा पिबेदरिष्टमिति ||२२||

🔊 Audio coming soon

Adhikarana 19 (23) · Śloka 23

अथ बालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत्, पीलुबदरीनिम्बपरूषकशाखाभिश्चैनं परिवीजयेत्, मूर्ध्नि चास्याहरहस्तैलपिचुमवचारयेत्, धूपयेच्चैनं रक्षोघ्नैर्धूपैः, रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत्, तिलातसीसर्षपकणांश्चात्र प्रकिरेत्, अधिष्ठाने चाग्निं प्रज्वालयेत्, व्रणितोपासनीयं चावेक्षेत ||२३||

🔊 Audio coming soon

Adhikarana 20 (24) · Śloka 24

ततो दशमेऽहनि मातापितरौ कृतमङ्गलकौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्यातां यदभिप्रेतं नक्षत्रनाम वा ||२४||

🔊 Audio coming soon

Adhikarana 21 (25-27) · Śloka 27

ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयस्का(सा)मरोगां शीलवतीमचपलामलोलुपामकृशामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमलम्बोर्ध्वस्तनीमव्यङ्गामव्यसनिनीं जीवद्वत्सां दोग्ध्रीं वत्सलामक्षुद्रकर्मिणीं कुले जातामतो भूयिष्ठैश्च गुणैरन्वितां श्मामामारोग्यबलवृद्धये बालस्य | तत्रोर्ध्वस्तनी करालं कुर्यात्, लम्बस्तनी नासिकामुखं छादयित्वा मरणमापादयेत् | ततः प्रशस्तायां तिथौ शिरःस्नातमहतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीं चोपवेश्य दक्षिणं स्तनं धौतमीषत्परिस्रुतमभिमन्त्र्य मन्त्रेणानेन पाययेत् ||२५|| ‘चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिनः | भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ||२६|| पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने | दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ||२७||

🔊 Audio coming soon

Adhikarana 22 (28) · Śloka 28

अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याद्व्याधिजन्म भवति ||२८||

🔊 Audio coming soon

Adhikarana 23 (29) · Śloka 29

अपरिस्रुतेऽप्यतिस्तब्धस्तन्यपूर्णस्तनपानादुत्सुहितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः | तस्मादेवंविधानां स्तन्यं न पाययेत् ||२९||

🔊 Audio coming soon

Adhikarana 24 (30) · Śloka 30

क्रोधशोकावात्सल्यादिभिश्च स्त्रियाःस्तन्यनाशो भवति | अथास्याः क्षीरजननार्थं सौमनस्यमुत्पाद्ययवगोधूमशालिषष्टिकमांसरससुरासौवीरकपिण्याकलशुनमत्स्यकशेरुकशृङ्गाटक- बिसविदारिकन्दमधुकशतावरीनालिकालाबूकालशाकप्रभृतीनि विदध्यात् ||३०||

🔊 Audio coming soon

Adhikarana 25 (31-33) · Śloka 33

अथास्याः स्तन्यमप्सु परीक्षेत; तच्चेच्छीतलममलं तनु शङ्खावभासमप्सु न्यस्तमेकीभावं गच्छत्यफेनिलमतन्तुमन्नोत्प्लवतेऽवसीदति वा तच्छुद्धमिति विद्यात्, तेन कुमारस्यारोग्यं शरीरोपचयो बलवृद्धिश्च भवति | न च क्षुधितशोकार्तश्रान्तप्रदुष्टधातुगर्भिणीज्वरितातिक्षीणातिस्थूलविदग्धभक्तविरुद्धाहारतर्पितायाः स्तन्यं पाययेत्; नाजीर्णौषधं च बालं, दोषौषधमलानां तीव्रवेगोत्पत्तिभयात् ||३१|| भवन्ति चात्र- धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा | दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ||३२|| मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः | दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः | भवन्ति कुशलस्तांश्च भिषक् सम्यग्विभावयेत् ||३३||

🔊 Audio coming soon

Adhikarana 26 (34-36) · Śloka 36

अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते | मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति ||३४|| निमीलिताक्षो मूर्धस्थे शिरो रोगे न धारयेत् | बस्तिस्थे मूत्रसङ्गार्तो रुजा तृष्यति मूर्च्छति ||३५|| विण्मूत्रसङ्गवैवर्ण्यच्छर्द्याध्मानान्त्रकूजनैः | कोष्ठे दोषान् विजानीयात् सर्वत्रस्थांश्च रोदनैः ||३६||

🔊 Audio coming soon

Adhikarana 27 (37) · Śloka 37

तेषु यथाभिहितं मृद्वच्छेदनीयमौषधं मात्रया क्षीरपस्य क्षीरसर्पिषा संयुक्तं विदध्यात्, धात्र्याश्च केवलं, क्षीरान्नादस्यात्मनि धात्र्याश्च पूर्ववत्, अन्नादस्य कषायादीनात्मन्येव न धात्र्याः ||३७||

🔊 Audio coming soon

Adhikarana 28 (38) · Śloka 38

तत्र मासादूर्ध्वं क्षीरपायाङ्गुलिपर्वद्वयग्रहणसम्मितामौषधमात्रां विदध्यात्, कोलास्थिसम्मितां कल्कमात्रां क्षीरान्नादाय, कोलसम्मितामन्नादायेति ||३८||

🔊 Audio coming soon

Adhikarana 29 (39) · Śloka 39

येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः | तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ||३९||

🔊 Audio coming soon

Adhikarana 30 (40-41) · Śloka 41

एकं द्वे त्रीणि चाहानि वातपित्तकफज्वरे | स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः ||४०|| न च तृष्णाभयादत्र पाययेत शिशुं स्तनौ | विरेकबस्तिवमनान्यृते कुर्याच्च नात्ययात् ||४१||

🔊 Audio coming soon

Adhikarana 31 (42) · Śloka 43

मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत् | तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम् ||४२|| पानाभ्यञ्जनयोर्योज्यं शीताम्बूद्वेजनं तथा |४३|

🔊 Audio coming soon

Adhikarana 32 (43-44) · Śloka 44

वातेनाध्मापितां नाभिं सरुजां तुण्डिसञ्ज्ञिताम् ||४३|| मारुतघ्नैः प्रशमयेत् स्नेहस्वेदोपनाहनैः | गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम् | रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ||४४||

🔊 Audio coming soon

Adhikarana 33 (45) · Śloka 45

क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचामांसीपयस्यापामार्गशतावरीसारिवाब्राह्मीपिप्पलीहरिद्राकुष्ठसैन्धवसिद्धं, क्षीरान्नादाय मधुकवचापिप्पलीचित्रकत्रिफलासिद्धम्, अन्नादाय द्विपञ्चमूलीक्षीरतगरभद्रदारुमरिचमधुकविडङ्गद्राक्षर्धिब्राह्मीसिद्धं ; तेनारोग्यबलमेधायूंषि शिशोर्भवन्ति ||४५||

🔊 Audio coming soon

Adhikarana 34 (46-47) · Śloka 47

बालं पुनर्गात्रसुखं गृह्णीयात्, न चैनं तर्जयेत्, सहसा न प्रतिबोधयेद्वित्रासभयात्, सहसा नापहरेदुत्क्षिपेद्वा वातादिविघातभयात्, नोपवेशयेत् कौब्ज्यभयात्, नित्यं चैनमनुवर्तेत प्रियशतैरजिघांसुः; एवमविहतमना ह्यभिवर्धते नित्यमुदग्रसत्त्वसम्पन्नो नीरोगः सुप्रसन्नमनाश्च भवति | वातातपविद्युत्प्रभापादपलताशून्यागारनिम्नस्थानग्रहच्छायादिभ्यो दुर्ग्रहोपसर्गतश्च बालं रक्षेत् ||४६|| नाशुचौ विसृजेद्बालं नाकाशे विषमे न च | नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ||४७||

🔊 Audio coming soon

Adhikarana 35 (48) · Śloka 48

क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा | दद्यादास्तन्यपर्याप्तेर्बालानां वीक्ष्य मात्रया ||४८||

🔊 Audio coming soon

Adhikarana 36 (49) · Śloka 49

षण्मासं चैनमन्नं प्राशयेल्लघु हितं च ||४९||

🔊 Audio coming soon

Adhikarana 37 (50) · Śloka 50

नित्यमवरोधरतश्च स्यात् कृतरक्ष उपसर्गभयात्; प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ||५०||

🔊 Audio coming soon

Adhikarana 38 (51) · Śloka 51

अथ कुमार उद्विजते त्रस्यति रोदिति नष्टसञ्ज्ञो भवति नखदशनैर्धात्रीमात्मानं च परिणुदति दन्तान् खादति कूजति जृम्भते भ्रुवौ विक्षिपत्यूर्ध्वं निरीक्षते फेनमुद्वमति सन्दष्टौष्ठःक्रूरो भिन्नामवर्चा दीनार्तस्वरो निशि जागर्ति दुर्बलो म्लानाङ्गो मत्स्यच्छुच्छ्रुन्दरिमत्कुणगन्धो यथा पुरा धात्र्याः स्तन्यमभिलषति तथा नाभिलषतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तं, विस्तरेणोत्तरे वक्ष्यामः ||५१||

🔊 Audio coming soon

Adhikarana 39 (52) · Śloka 52

शक्तिमन्तं चैनं ज्ञात्वा यथावर्णं विद्यां ग्राहयेत् ||५२||

🔊 Audio coming soon

Adhikarana 40 (53) · Śloka 53

अथास्मै पञ्चविंशतिवर्षाय षोडशदशवर्षां पत्नीमावहेत् पित्र्यधर्मार्थकामप्रजाः प्राप्स्यतीति ||५३||

🔊 Audio coming soon

Adhikarana 41 (54-55) · Śloka 55

ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् | यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ||५४|| जातो वा न चिरं जीवेज्जीवेद्वा दुर्बलेन्द्रियः | तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ||५५||

🔊 Audio coming soon

Adhikarana 42 (56) · Śloka 56

अतिवृद्धायां दीर्घरोगिण्यामन्येन वा विकारेणोपसृष्टायां गर्भाधानं नैव कुर्वीत | पुरुषस्याप्येवंविधस्य त एव दोषाः सम्भवन्ति ||५६||

🔊 Audio coming soon

Adhikarana 43 (57) · Śloka 57

तत्र पूर्वोक्तैः कारणैः पतिष्यति गर्भे गर्भाशयकटीवङ्क्षणबस्तिशूलानि रक्तदर्शनं च | तत्र शीतैः परिषेकावगाहप्रदेहादिभिरुपचरेज्जीवनीयशृतक्षीरपानैश्च | गर्भस्फुरणे मुहुर्मुहुस्तत्सन्धारणार्थं क्षीरमुत्पलादिसिद्धं पाययेत् | प्रस्रंसमाने सदाहपार्श्वपृष्ठशूलासृग्दरानाहमूत्रसङ्गाः, स्थानात् स्थानं च प्रक्रामति गर्भे कोष्ठे संरम्भः, तत्र स्निग्धशीताः क्रियाः | वेदनायां महासहाक्षुद्रसहामधुकश्वदंष्ट्राकण्टकारिकासिद्धं पयः शर्कराक्षौद्रमिश्रं पाययेत्; मूत्रसङ्गे दर्भादिसिद्धम्; आनाहे हिङ्गुसौवर्चललशुनवचासिद्धम् | अत्यर्थं स्रवति रक्ते कोष्ठागारिकागारमृत्पिण्डसमङ्गाधातकीकुसुमनवमालिकागैरिकसर्जरसरसाञ्जनचूर्णं मधुनाऽवलिह्यात्, यथालाभं न्यग्रोधादित्वक्प्रवालकल्कं वा पयसा पाययेत्, उत्पलादिकल्कं वा कशेरुशृङ्गाटकशालूककल्कं वा शृतेन पयसा, उदुम्बरफलौदककन्दक्वाथेन वा शर्करामधुमधुरेण शालिपिष्टं; न्यग्रोधादिस्वरसपरिपीतं वा वस्त्रावयवं योन्यां धारयेत् | अथादृष्टशोणितवेदनायां मधुकदेवदारुमञ्जिष्ठापयस्यासिद्धं पयः पाययेत्, तदेवाश्मन्तकशतावरीपयस्यासिद्धं विदारिगन्धादिसिद्धं वा, बृहतीद्वयोत्पलशतावरीसारिवापयस्यामधुकसिद्धं वा; एवमुपक्रान्ताया उपावर्तन्ते रुजो गर्भश्चाप्यायते | व्यवस्थिते च गर्भे गव्येनोदुम्बरशलाटुसिद्धेन पयसा भोजयेत् | अतीते लवणस्नेहवर्ज्याभिर्यवागूभिरुद्दालकादीनां पाचनीयोपसंस्कृताभिरुपक्रमेत यावन्तो मासा गर्भस्य तावन्त्यहानि | बस्त्युदरशूलेषु पुराणगुडं दीपनीयसंयुक्तं पाययेदरिष्टं वा | वातोपद्रवगृहीतत्वात् स्रोतसां लीयते गर्भः, सोऽतिकालमवतिष्ठमानो व्यापद्यते, तां मृदुना स्नेहादिक्रमेणोपचरेत्, उत्क्रोशरससंसिद्धामनल्पस्नेहां यवागूं पाययेत्, माषतिलबिल्वशलाटुसिद्धान् वा कुल्माषान् भक्षयेन्मधुमाध्वीकं चानुपिबेत् सप्तरात्रम् | कालातीतस्थायिनि गर्भे विशेषतः सधान्यमुदूखल मुसलेनाभिहन्याद्विषमे वा यानासने सेवेत | वाताभिपन्न एव शुष्यति गर्भः, स मातुः कुक्षिं न पूरयति मन्दं स्पन्दते च, तं बृंहणीयैः पयोभिर्मांसरसैश्चोपचरेत् | शुक्रशोणितं वायुनाऽभिप्रपन्नमवक्रान्तजीवमाध्मापयत्युदरं, तं कदाचिद्यदृच्छयोपशान्तं नैगमेषापहृतमिति भाषन्ते, तमेव कदाचित् प्रलीयमानं नागोदरमित्याहुः; तत्रापि लीनवत् प्रतीकारः ||५७||

🔊 Audio coming soon

Adhikarana 44 (58-62) · Śloka 62

अत ऊर्ध्वं मासानुमासिकं वक्ष्यामः- ||५८|| मधुकं शाकबीजं च पयस्या सुरदारु च | अश्मन्तकस्तिलाः कृष्णास्ताम्रवल्ली शतावरी ||५९|| वृक्षादनी पयस्या च लता सोत्पलसारिवा | अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ||६०|| बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो घृतम् | पृश्निपर्णी बला शिग्रुः श्वदंष्ट्रा मधुपर्णिका ||६१|| शृङ्गाटकं बिसं द्राक्षा कशेरु मधुकं सिता | वत्सैते सप्त योगाः स्युरर्धश्लोकसमापनाः | यथासङ्ख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः ||६२||

🔊 Audio coming soon

Adhikarana 45 (63-65) · Śloka 65

कपित्थबृहतीबिल्वपटोलेक्षुनिदिग्धिका | मूलानि क्षीरसिद्धानि पाययेद्भिषगष्टमे ||६३|| नवमे मधुकानन्तापयस्यासारिवाः पिबेत् | क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम् ||६४|| सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च | एवमाप्यायते गर्भस्तीव्रा रुक् चोपशाम्यति ||६५||

🔊 Audio coming soon

Adhikarana 46 (66) · Śloka 66

निवृत्तप्रसवायास्तु पुनः षड्भ्यो वर्षेभ्य ऊर्ध्वं प्रसवमानाया नार्याः कुमारोऽल्पायुर्भवति ||६६||

🔊 Audio coming soon

Adhikarana 47 (67) · Śloka 67

अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्दयेन्मधुराम्लेनान्नोपहितेनानुलोमयेच्च, संशमनीयं च मृदु विदध्यादन्नपानयोः, अश्नीयाच्च मृदुवीर्यं मधुरप्रायं गर्भाविरुद्धं च, गर्भाविरुद्धाश्च क्रिया यथायोगं विदधीत मृदुप्रायाः ||६७||

🔊 Audio coming soon

Adhikarana 48 (68-70) · Śloka 70

सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा | मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ||६८|| अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा | हेमचूर्णानि कैडर्यः श्वेता दूर्वा घृतं मधु ||६९|| चत्वारोऽभिहिताः प्राशाः श्लोकार्धेषु चतुर्ष्वपि | कुमाराणां वपुर्मेधाबलबुद्धिविवर्धनाः ||७०||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 10

इति सुश्रुतसंहितायां शारीरस्थाने गर्भिणीव्याकरणं शारीरं नाम दशमोऽध्यायः ||१०|| इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां तृतीयं शारीरस्थानं समाप्तम् |

🔊 Audio coming soon