Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

12. agnikarmavidhyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः, तद्दग्धानां रोगाणामपुनर्भावाद्भेषजशस्त्रक्षारैरसाध्यानां तत्साध्यत्वाच्च ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

अथेमानि दहनोपकरणानि भवन्ति- तद्यथा- पिप्पल्यजाशकृद्गोदन्तशरशलाकाजाम्बवौष्ठेतरलौहाः क्षौद्रगुडस्नेहाश्च | तत्र, पिप्पल्यजाशकृद्गोदन्तशरशलाकास्त्वग्गतानां, जाम्बवौष्ठेतरलौहा मांसगतानां, क्षौद्रगुडस्नेहाः सिरास्नायुसन्ध्यस्थिगतानाम् ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

तत्राग्निकर्म सर्वर्तुषु कुर्यादन्यत्र शरद्ग्रीष्माभ्यां; तत्राप्यात्ययिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं विधिं कृत्वा ||५||

🔊 Audio coming soon

Adhikarana 5 (6) · Śloka 6

सर्वव्याधिष्वृतुषु च पिच्छिलमन्नं भुक्तवतः; मूढगर्भाश्मरीभगन्दरोदरार्शोमुखरोगेष्वभुक्तवतः कर्म कुर्वीत ||६||

🔊 Audio coming soon

Adhikarana 6 (7) · Śloka 7

तत्र द्विविधमग्निकर्माहुरेके- त्वग्दग्धं, मांसदग्धं च; इह तु सिरास्नायुसन्ध्यस्थिष्वपि न प्रतिषिद्धोऽग्निः ||७||

🔊 Audio coming soon

Adhikarana 7 (8) · Śloka 8

तत्र, शब्दप्रादुर्भावो दुर्गन्धता त्वक्सङ्कोचश्च त्वग्दग्धे, कपोतवर्णताऽल्पश्वयथुवेदना शुष्कसङ्कुचितव्रणता च मांसदग्धे; कृष्णोन्नतव्रणता स्रावसन्निरोधश्च सिरास्नायुदग्धे, रूक्षारुणता कर्कशस्थिरव्रणता च सन्ध्यस्थिदग्धे ||८||

🔊 Audio coming soon

Adhikarana 8 (9) · Śloka 9

तत्र शिरोरोगाधिमन्थयोर्भ्रूललाटशङ्खप्रदेशेषु दहेत्, वर्त्मरोगेष्वार्द्रालक्तकप्रतिच्छन्नां दृष्टिं कृत्वा वर्त्मरोमकूपान् ||९||

🔊 Audio coming soon

Adhikarana 9 (10) · Śloka 10

त्वङ्मांससिरास्नायुसन्ध्यस्थिस्थितेऽत्युग्ररुजि वायावुच्छ्रितकठिनसुप्तमांसे व्रणे ग्रन्थ्यर्शोऽर्बुदभगन्दरापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिसन्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषु चाग्निकर्म कुर्यात् ||१०||

🔊 Audio coming soon

Adhikarana 10 (11) · Śloka 11

तत्र वलय-बिन्दु-विलेखा-प्रतिसारणानीति दहनविशेषाः ||११||

🔊 Audio coming soon

Adhikarana 11 (12) · Śloka 12

भवति चात्र- रोगस्य संस्थानमवेक्ष्य सम्यङ्नरस्य मर्माणि बलाबलं च | व्याधिं तथर्तुं च समीक्ष्य सम्यक् ततोऽव्यवस्येद्भिषगग्निकर्म ||१२||

🔊 Audio coming soon

Adhikarana 12 (13) · Śloka 13

तत्र सम्यग्दग्धे मधुसर्पिर्भ्यामभ्यङ्गः ||१३||

🔊 Audio coming soon

Adhikarana 13 (14) · Śloka 14

अथेमानग्निना परिहरेत्- पित्तप्रकृतिमन्तःशोणितं भिन्नकोष्ठमनुद्धृतशल्यं दुर्बलं बालं वृद्धं भीरुमनेकव्रणपीडितमस्वेद्यांश्चेति ||१४||

🔊 Audio coming soon

Adhikarana 14 (15) · Śloka 15

अत ऊर्ध्वमितरथादग्धलक्षणं वक्ष्यामः | तत्र, स्निग्धं रूक्षं वाऽऽ(चा)श्रित्य द्रव्यमग्निर्दहति; अग्निसन्तप्तो हि स्नेहः सूक्ष्मसिरानुसारित्वात्त्वगादीननुप्रविश्याशु दहति; तस्मात् स्नेहदग्धेऽधिका रुजो भवन्ति ||१५||

🔊 Audio coming soon

Adhikarana 15 (16) · Śloka 16

तत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतुर्विधमग्निदग्धम् | तत्र यद्विवर्णं प्लुष्यतेऽतिमात्रं तत् प्लुष्टं; यत्रोत्तिष्ठन्ति स्फोटास्तीव्राश्चोषदाहरागपाकवेदनाश्चिराच्चोपशाम्यन्ति तद्दुर्दग्धं; सम्यग्दग्धमनवगाढं तालवर्णं सुसंस्थितं पूर्वलक्षणयुक्तं च; अतिदग्धे मांसावलम्बनं गात्रविश्लेषः सिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं ज्वरदाहपिपासामूर्च्छाश्चोपद्रवा भवन्ति, व्रणश्चास्य चिरेण रोहति, रूढश्च विवर्णो भवति | तदेतच्चतुर्विधमग्निदग्धलक्षणमात्मकर्मप्रसाधकं भवति ||१६||

🔊 Audio coming soon

Adhikarana 16 (17-18) · Śloka 19

भवन्ति चात्र- अग्निना कोपितं रक्तं भृशं जन्तोः प्रकुप्यति | ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते ||१७|| तुल्यवीर्ये उभे ह्येते रसतो द्रव्यतस्तथा | तेनास्य वेदनास्तीव्राः प्रकृत्या च विदह्यते ||१८|| स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च बाधते |१९|

🔊 Audio coming soon

Adhikarana 17 (19-21) · Śloka 21

दग्धस्योपशमार्थाय चिकित्सा सम्प्रवक्ष्यते ||१९|| प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम् | शरीरे स्विन्नभूयिष्ठे स्विन्नं भवति शोणितम् ||२०|| प्रकृत्या ह्युदकं शीतं स्कन्दयत्यतिशोणितम् | तस्मात् सुखयति ह्युष्णं ननु शीतं कथञ्चन ||२१||

🔊 Audio coming soon

Adhikarana 18 (22) · Śloka 22

शीतामुष्णां च दुर्दग्धे क्रियां कुर्याद्भिषक् पुनः | घृतालेपनसेकांस्तु शीतानेवास्य कारयेत् ||२२||

🔊 Audio coming soon

Adhikarana 19 (23-24) · Śloka 24

सम्यग्दग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः | सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् ||२३|| ग्राम्यानूपौदकैश्चैनं पिष्टैर्मांसैः प्रलेपयेत् | पित्तविद्रधिवच्चैनं सन्ततोष्माणमाचरेत् ||२४||

🔊 Audio coming soon

Adhikarana 20 (25-26) · Śloka 27

अतिदग्धे विशीर्णानि मांसान्युद्धृत्य शीतलाम् | क्रियां कुर्याद्भिषक् पश्चाच्छालितण्डुलकण्डनैः ||२५|| तिन्दुकीत्वक्कपालैर्वा घृतमिश्रैः प्रलेपयेत् | व्रणं गुडूचीपत्रैर्वा छादयेदथवौदकैः ||२६|| क्रियां च निखिलां कुर्याद्भिषक् पित्तविसर्पवत् |२७|

🔊 Audio coming soon

Adhikarana 21 (27-28) · Śloka 28

मधूच्छिष्टं समधुकं रोध्रं सर्जरसं तथा ||२७|| मञ्जिष्ठां चन्दनं मूर्वां पिष्ट्वा सर्पिर्विपाचयेत् | सर्वेषामग्निदग्धानामेतद्रोपणमुत्तमम् ||२८||

🔊 Audio coming soon

Adhikarana 22 (29) · Śloka 29

स्नेहदग्धे क्रियां रूक्षां विशेषेणावचारयेत् |२९|

🔊 Audio coming soon

Adhikarana 23 (29-37) · Śloka 37

अत ऊर्ध्वं प्रवक्ष्यामि धूमोपहतलक्षणम् ||२९|| श्वसिति क्षौति चात्यर्थमप्याधमति कासते | चक्षुषोः परिदाहश्च रागश्चैवोपजायते ||३०|| सधूमकं निश्वसिति घ्रेयमन्यन्न वेत्ति च | तथैव च रसान् सर्वान् श्रुतिश्चास्योपहन्यते ||३१|| तृष्णादाहज्वरयुतः सीदत्यथ च मूर्च्छति | धूमोपहत इत्येषः शृणु तस्य चिकित्सितम् ||३२|| सर्पिरिक्षुरसं द्राक्षां पयो वा शर्कराम्बु वा | मधुराम्लौ रसौ वाऽपि वमनाय प्रदापयेत् ||३३|| वमतः कोष्ठशुद्धिः स्याद्धूमगन्धश्च नश्यति | विधिनाऽनेन शाम्यन्ति सदनक्षवथुज्वराः ||३४|| दाहमूर्च्छातृडाध्मानश्वासकासाश्च दारुणाः | मधुरैर्लवणाम्लैश्च कटुकैः कवलग्रहैः ||३५|| सम्यग्गृह्णातीन्द्रियार्थान् मनश्चास्य प्रसीदति | शिरोविरेचनं चास्मै दद्याद्योगेन शास्त्रवित् ||३६|| दृष्टिर्विशुध्यते चास्य शिरोग्रीवं च देहिनः | अविदाहि लघु स्निग्धमाहारं चास्य कल्पयेत् ||३७||

🔊 Audio coming soon

Adhikarana 24 (38-39) · Śloka 39

उष्णवातातपैर्दग्धे शीतः कार्यो विधिः सदा | शीतवर्षानिलैर्दग्धे स्निग्धमुष्णं च शस्यते ||३८|| तथाऽतितेजसा दग्धे सिद्धर्नास्ति कथञ्चन | इन्द्रवज्राग्निदग्धेऽपि जीवति प्रतिकारयेत् | स्नेहाभ्यङ्गपरीषेकैः प्रदेहैश्च तथा भिषक् ||३९||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 12

इति सुश्रुतसंहितायां सूत्रस्थानेऽग्निकर्मविधिर्नाम द्वादशोऽध्यायः ||१२||

🔊 Audio coming soon