Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

40. dravyarasaguṇavīryavipākavijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

केचिदाचार्या ब्रुवते- द्रव्यं प्रधानं, कस्मात्? व्यवस्थितत्वात्, इह खलु द्रव्यं व्यवस्थितं न रसादयः, यथा आमे फले ये रसादयस्ते पक्वे न सन्ति; नित्यत्वाच्च, नित्यं हि द्रव्यमनित्या गुणाः, यथा कल्कादिप्रविभागः, स एव सम्पन्नरसगन्धो व्यापन्नरसगन्धो वा भवति; स्वजात्यवस्थानाच्च, यथा हि पार्थिवं द्रव्यमन्यभावं न गच्छत्येवं शेषाणि; पञ्चेन्द्रियग्रहणाश्च, पञ्चभिरिन्द्रियैर्गृह्यते द्रव्यं न रसादयः; आश्रयत्वाच्च, द्रव्यमाश्रिता रसादयः; आरम्भसामर्थ्याच्च, द्रव्याश्रित आरम्भः, यथा- ‘विदारिगन्धादिमाहृत्य सङ्क्षुद्य विपचेत्’ इत्येवमादिषु न रसादिष्वारम्भः; शास्त्रप्रामाण्याच्च, शास्त्रे हि द्रव्यं प्रधानमुपदेशे योगानां, यथा- ‘मातुलुङ्गाग्निमन्थौ च’ इत्यादौ न रसादय उपदिश्यन्ते; क्रमापेक्षितत्वाच्च रसादीनां, रसादयो हि द्रव्यक्रममपेक्षन्ते, यथा- तरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति; एकदेशसाध्यत्वाच्च, द्रव्याणामेकदेशेनापि व्याधयः साध्यन्ते, यथा- महावृक्षक्षीरेणेति; तस्माद्द्रव्यं प्रधानं, न रसादयः, कस्मात्? निरवयवत्वात् | द्रव्यलक्षणं तु ‘क्रियागुणवत् समवायिकारणम्’ इति ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

नेत्याहुरन्ये , रसास्तु प्रधानं; कस्मात्? आगमात्, आगमो हि शास्त्रमुच्यते; शास्त्रे हि रसा अधिकृताः, यथा- रसायत्त आहार इति, तस्मिंस्तु प्राणाः; उपदेशाच्च, उपदिश्यन्ते हि रसाः, यथा- मधुराम्ललवणा वातं शमयन्ति; अनुमानाच्च, रसेन ह्यनुमीयते द्रव्यं, यथा- मधुरमिति; ऋषिवचनाच्च, ऋषिवचनं वेदो यथा- किञ्चिदिज्यार्थं मधुरमाहरेदिति, तस्माद्रसाः प्रधानं; रसेषु गुणसञ्ज्ञा | रसलक्षणमन्यत्रोपदेक्ष्यामः ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

नेत्याहुरन्ये , वीर्यं प्रधानमिति | कस्मात्? तद्वशेनौषधकर्मनिष्पत्तेः | इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसङ्ग्राहिकाग्निदीपनपीडनलेखनबृंहण- रसायनवाजीकरणश्वयथुकरविलयनदहनदारणमादनप्राणघ्नविषप्रशमनादीनि वीर्यप्राधान्याद्भवन्ति | तच्च वीर्यं द्विविधमुष्णं शीतं च, अग्नीषोमीयत्वाज्जगतः | केचिदष्टविधमाहुः- शीतमुष्णं स्निग्धं रूक्षं विशदं पिच्छिलं मृदु तीक्ष्णं चेति | एतानि वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति | यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति, उष्णवीर्यत्वात्; तथा कुलत्थः कषायः, कटुकः पलाण्डुः, स्नेहभावाच्च; मधुरश्चेक्षुरसो वातं वर्धयति, शीतवीर्यत्वात्; कटुका पिप्पली पित्तं शमयति, मृदुशीतवीर्यत्वात्; अम्लमामलकं लवणं सैन्धवं च; तिक्ता काकमाची पित्तं वर्धयति, उष्णवीर्यत्वात्, मधुरा मत्स्याश्च; कटुकं मूलकं श्लेष्माणं वर्धयति, स्निग्धवीर्यत्वात्; अम्लं कपित्थं श्लेष्माणां शमयति, रूक्षवीर्यत्वात्, मधुरं क्षौद्रं च; तदेतन्निदर्शनमात्रमुक्तम् ||५||

🔊 Audio coming soon

Adhikarana 5 (6-9) · Śloka 9

भवन्ति चात्र- ये रसा वातशमना भवन्ति यदि तेषु वै | रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ||६|| ये रसाः पित्तशमना भवन्ति यदि तेषु वै | तैक्ष्ण्यौष्ण्यलघुताश्चैव न ते तत्कर्मकारिणः ||७|| ये रसाः श्लेष्मशमना भवन्ति यदि तेषु वै | स्नेहगौरवशैत्यानि न ते तत्कर्मकारिणः ||८|| तस्माद्वीर्यं प्रधानमिति ||९||

🔊 Audio coming soon

Adhikarana 6 (10) · Śloka 10

नेत्याहुरन्ये , विपाकः प्रधानमिति | कस्मात्? सम्यङ्मिथ्याविपक्वत्वात्; इह सर्वद्रवाण्यभ्यवहृतानि सम्यङ्मिथ्याविपक्वानि गुणं दोषं वा जनयन्ति | तत्राहुरन्ये- प्रति रसं पाक इति | केचित्त्रिविधमिच्छन्ति- मधुरमम्लं कटुकं चेति | तत्तु न सम्यक्, भूतगुणादामाच्चान्योऽम्लो विपाको नास्ति; पित्तं हि विदग्धमम्लतामुपैत्याग्नेयत्वात्; यद्येवं लवणोऽप्यन्यः पाको भविष्यति, श्लेष्मा हि विदग्धो लवणतामुपैतीति | मधुरो मधुरस्याम्लोऽम्लस्यैवं सर्वेषामिति केचिदाहुः; दृष्टान्तं चोपदिशन्ति- यथा तावत् क्षीरमुखागतं पच्यमानं मधुरमेव स्यात्तथा शालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपि न परित्यजन्ति तद्वदिति | केचिद्वदन्ति- अबलवन्तो बलवतां वशमायान्तीति | एवमनवस्थितिः, तस्मादसिद्धान्त एषः | आगमे हि द्विविध एव पाको मधुरः कटुकश्च | तयोर्मधुराख्यो गुरुः, कटुकाख्यो लघुरिति | तत्र पृथिव्यप्तेजोवाय्वाकाशानां द्वैविध्यं भवति गुणसाधर्म्याद्गुरुता लघुता च; पृथिव्यापश्च गुर्व्यः, शेषाणि लघूनि; तस्माद्द्विविध एव पाक इति ||१०||

🔊 Audio coming soon

Adhikarana 7 (11-12) · Śloka 12

भवन्ति चात्र- द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः | निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ||११|| तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु | निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते ||१२||

🔊 Audio coming soon

Adhikarana 8 (13) · Śloka 13

पृथक्त्वदर्शिनामेष वादिनां वादसङ्ग्रहः | चतुर्णामपि सामग्र्यमिच्छन्त्यत्र विपश्चितः ||१३||

🔊 Audio coming soon

Adhikarana 9 (14) · Śloka 14

तद्द्रव्यमात्मना किञ्चित्किञ्चिद्वीर्येण सेवितम् | किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ||१४||

🔊 Audio coming soon

Adhikarana 10 (15) · Śloka 15

पाको नास्ति विना वीर्याद्वीर्यं नास्ति विना रसात् | रसो नास्ति विना द्रव्याद्द्रव्यं श्रेष्ठतमं स्मृतम् ||१५||

🔊 Audio coming soon

Adhikarana 11 (16-18) · Śloka 18

जन्म तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् | अन्योन्यापेक्षिकं जन्म यथा स्याद्देहदेहिनोः ||१६|| वीर्यसञ्ज्ञा गुणा येऽष्टौ तेऽपि द्रव्याश्रयाः स्मृताः | रसेषु न भवन्त्येते निर्गुणास्तु गुणाः स्मृताः ||१७|| द्रव्ये द्रव्याणि यस्माद्धि विपच्यन्ते न षड्रसाः | श्रेष्ठं द्रव्यमतो ज्ञेयं, शेषा भावास्तदाश्रयाः ||१८||

🔊 Audio coming soon

Adhikarana 12 (19) · Śloka 19

अमीमांस्यान्यचिन्त्यानि प्रसिद्धानि स्वभावतः | आगमेनोपयोज्यानि भेषजानि विचक्षणैः ||१९||

🔊 Audio coming soon

Adhikarana 13 (20-21) · Śloka 21

प्रत्यक्षलक्षणफलाः प्रसिद्धाश्च स्वभावतः | नौषधीर्हेतुभिर्विद्वान् परीक्षेत कदाचन ||२०|| सहस्रेणापि हेतूनां नाम्बष्ठादिर्विरचयेत् | तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ||२१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 40

इति सुश्रुतसंहितायां सूत्रस्थाने द्रव्यगुणरसवीर्यविपाकविज्ञानीयो नाम चत्वारिंशत्तमोऽध्यायः ||४०||

🔊 Audio coming soon