Adhikarana 1 (1-2) · Śloka 2
अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातो जलौकावचारणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
नृपाढ्यबालस्थविरभीरुदुर्बलनारीसुकुमाराणामनुग्रहार्थं परमसुकुमारोऽयं शोणितावसेचनोपायोऽभिहितो जलौकसः ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
तत्र वातपित्तकफदुष्टशोणितं यथासङ्ख्यं शृङ्गजलौकालाबुभिरवसेचयेत्, सर्वाणि सर्वैर्वा (विशेषस्तु विस्राव्यं शृङ्गजलौकालाबुभिर्गृह्णीयात्) ||४||
🔊 Audio coming soon
Adhikarana 4 (5-7) · Śloka 7
भवन्ति चात्र श्लोकाः- उष्णं समधुरं स्निग्धं गवां शृङ्गं प्रकीर्तितम् | तस्माद्वातोपसृष्टे तु हितं तदवसेचने ||५|| शीताधिवासा मधुरा जलौका वारिसम्भवा | तस्मात् पित्तोपसृष्टे तु हिता सा त्ववसेचने ||६|| अलाबु कटुकं रूक्षं तीक्ष्णं च परिकीर्तितम् | तस्माच्छ्लेष्मोपसृष्टे तु हितं तदवसेचने ||७||
🔊 Audio coming soon
Adhikarana 5 (8) · Śloka 8
तत्र प्रच्छिते तनुबस्तिपटलावनद्धेन शृङ्गेण शोणितमवसेचयेदाचूषणात्, सान्तर्दीपयाऽलाब्वा (जलायुका वक्ष्यन्ते) ||८||
🔊 Audio coming soon
Adhikarana 6 (9) · Śloka 9
जलमासामायुरिति जलायुकाः, जलमासामोक इति जलौकसः ||९||
🔊 Audio coming soon
Adhikarana 7 (10) · Śloka 10
ता द्वादश; तासां सविषाः षट्, तावत्य एव निर्विषाः ||१०||
🔊 Audio coming soon
Adhikarana 8 (11) · Śloka 11
तत्र सविषाः- कृष्णा, कर्बुरा, अलगर्दा, इन्द्रायुधा, सामुद्रिका, गोचन्दना चेति | तासु, अञ्जनचूर्णवर्णा पृथुशिराः कृष्णा; वर्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्बुरा; रोमशा महापार्श्वा कृष्णमुखी अलगर्दा; इन्द्रायुधवदूर्ध्वराजिभिश्चित्रा इन्द्रायुधा; ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रा सामुद्रिकाः; गोवृषणवदधोभागे द्विधाभूताकृतिरणुमुखी गोचन्दनेति | ताभिर्दष्टे पुरुषे दंशे श्वयथुरतिमात्रं कण्डूर्मूर्च्छा ज्वरो दाहश्छर्दिर्मदः सदनमिति लिङ्गानि भवन्ति | तत्र महागदः पानालेपननस्यकर्मादिषूपयोज्यः | इन्द्रायुधादष्टमसाध्यम् | इत्येताः सविषाः सचिकित्सिता व्याख्याताः ||११||
🔊 Audio coming soon
Adhikarana 9 (12) · Śloka 12
अथ निर्विषाः- कपिला, पिङ्गला, शङ्कुमुखी, मूषिका, पुण्डरीकमुखी, सावरिका चेति | तत्र, मनःशिलारञ्जिताभ्यामिव पार्श्वाभ्यां पृष्ठे स्निग्धा मुद्गवर्णा कपिला; किञ्चिद्रक्ता वृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला; यकृद्वर्णा शीघ्रपायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी; मूषिकाकृतिवर्णाऽनिष्टगन्धा च मूषिका; मुद्गवर्णा पुण्डरीकतुल्यवक्त्रा पुण्डरीकमुखी; स्निग्धा पद्मपत्रवर्णाऽष्टादशाङ्गुलप्रमाणा सावरिका, सा च पश्वर्थे; इत्येता अविषा व्याख्याताः ||१२||
🔊 Audio coming soon
Adhikarana 10 (13) · Śloka 13
तासां यवनपाण्ड्यसह्यपौतनादीनि क्षेत्राणि; तेषु महाशरीरा बलवत्यः शीघ्रपायिन्यो महाशना निर्विषाश्च विशेषेण भवन्ति ||१३||
🔊 Audio coming soon
Adhikarana 11 (14-15) · Śloka 15
तत्र, सविषमत्स्यकीटदर्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भसु च सविषाः; पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्डरीकशैवलकोथजाता विमलेष्वम्भःसु च निर्विषाः ||१४|| भवति चात्र- क्षेत्रेषु विचरन्त्येताः सलिलाढ्यसुगन्धिषु | न च सङ्कीर्णचारिण्यो न च पङ्केशयाः सुखाः ||१५||
🔊 Audio coming soon
Adhikarana 12 (16) · Śloka 16
तासां ग्रहणमार्द्रचर्मणा, अन्यैर्वा प्रयोगैर्गृह्णीयात् ||१६||
🔊 Audio coming soon
Adhikarana 13 (17) · Śloka 17
अथैनां नवे महति घटे सरस्तडागोदकपङ्कमावाप्य निदध्यात्; भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमौदकांश्च कन्दांश्चूर्णीकृत्य; शय्यार्थं तृणमौदकानि च पत्राणि; त्र्यहात्त्र्यहाच्चाभ्योऽन्यज्जलं भक्ष्यं च दद्यात्; सप्तरात्रात् सप्तरात्राच्च घटमन्यं सङ्क्रामयेत् ||१७||
🔊 Audio coming soon
Adhikarana 14 (18) · Śloka 18
भवति चात्र- स्थूलमध्याः परिक्लिष्टाः पृथ्व्यो मन्दविचेष्टिताः | अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः ||१८||
🔊 Audio coming soon
Adhikarana 15 (19) · Śloka 19
अथ जलौकोवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा, विरूक्ष्य चास्य तमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् | गृहीताश्च ताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरकमध्ये मुहूर्तस्थिता विगतक्लमा ज्ञात्वा ताभी रोगं ग्राहयेत् | श्लणशुक्लार्द्रपिचुप्रोतावच्छन्नां कृत्वा मुखमपावृणुयात्; अगृह्णन्त्यै क्षीरबिन्दुं शोणितबिन्दुं वा दद्यात्, शस्त्रपदानि वा कुर्वीत; यद्येवमपि न गृह्णीयात्तदाऽन्यां ग्राहयेत् ||१९||
🔊 Audio coming soon
Adhikarana 16 (20) · Śloka 20
यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धं तदा जानीयाद्गृह्णातीति; गृह्णन्तीं चार्द्रवस्त्रावच्छन्नां कृत्वा धारयेत् ||२०||
🔊 Audio coming soon
Adhikarana 17 (21) · Śloka 21
दंशे तोदकण्डुप्रादुर्भावैर्जानीयाच्छुद्धमियमादत्त इति; शुद्धमाददानामपनयेतः अथ शोणितगन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् ||२१||
🔊 Audio coming soon
Adhikarana 18 (22) · Śloka 22
अथ पतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्तमुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणहस्ताङ्गुष्ठाङ्गुलिभ्यां शनैः शनैरनुलोममनुमार्जयेदामुखात्, वामयेत् तावद्यावत् सम्यग्वान्तलिङ्गानीति | सम्यग्वान्ता सलिलसरके न्यस्ता भोक्तुकामा सती चरेत् | या सीदती न चेष्टते सा दुर्वान्ता, तां पुनः सम्यग्वामयेत् | दुर्वान्ताया व्याधिरसाध्य इन्द्रमदो नाम भवति | अथ सुवान्तां पूर्ववत् सन्निदध्यात् ||२२||
🔊 Audio coming soon
Adhikarana 19 (23) · Śloka 23
शोणितस्य योगायोगानवेक्ष्य शतधौतघृताभ्यङ्गः, तत्पिचुधारणं वा; जलौकोव्रणान् मधुनाऽवघट्टयेत्, शीताभिरद्भिः परिषेचयेद्बध्नीत वा, कषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति ||२३||
🔊 Audio coming soon
Adhikarana 20 (24) · Śloka 24
भवति चात्र- क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् | जलौकसां च यो वेत्ति तत्साध्यान् स जयेद्गदान् ||२४||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 12
इति सुश्रुतसंहितायां सूत्रस्थाने जलौकावचारणीयो नाम त्रयोदशोऽध्यायः ||१२||
🔊 Audio coming soon