Adhikarana 1 (1-2) · Śloka 2
अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
तत्र, वयःस्थानां दृढानां प्राणवतां सत्त्ववतां (आत्मवतां) च सुचिकित्स्या व्रणाः; एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनीयतमाः | तत्र, वयःस्थानां प्रत्यग्रधातुत्वादाशु व्रणा रोहन्ति; दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्यमाणं सिरास्नाय्वादिविशेषान्न प्राप्नोति; प्राणवतां वेदनाभिघाताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते; सत्त्ववतां दारुणैरपि क्रियाविशेषैर्न व्यथा भवति; तस्मादेतेषां सुखसाधनीयतमाः ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
त एव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु द्रष्टव्याः ||४||
🔊 Audio coming soon
Adhikarana 4 (5) · Śloka 5
स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफलकोषोदरजत्रुमुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ||५||
🔊 Audio coming soon
Adhikarana 5 (6-7) · Śloka 7
अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकुक्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवाहिनोऽन्तःशल्याश्च दुश्चिकित्स्याः; अधोभागाश्चोर्ध्वभागनिर्वाहिणो , रोमान्तोपनखमर्मजङ्घास्थिसंश्रिताश्च, भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ||६|| कुष्ठिनां विषजुष्टानां शोषिणां मधुमेहिनाम् | व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे व्रणाः ||७||
🔊 Audio coming soon
Adhikarana 6 (8) · Śloka 8
अवपाटिकानिरुद्धप्रकशसन्निरुद्धगुदजठराणि, ग्रन्थिक्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमेहिणां वा ये परिक्षतेषु दृश्यन्ते, शर्करा सिकतामेहो वातकुण्डलिकाऽष्ठीला दन्तशर्करोपकुशः कण्ठशालूकं निष्कोषणदूषिताश्च दन्तवेष्टा विसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृतयश्च याप्याः ||८||
🔊 Audio coming soon
Adhikarana 7 (9) · Śloka 9
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां तथा | घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ||९||
🔊 Audio coming soon
Adhikarana 8 (10-11) · Śloka 11
यापनीयं विजानीयात् क्रिया धारयते तु यम् | क्रियायां तु निवृत्तायां सद्य एव विनश्यति ||१०|| प्राप्ता क्रियां धारयति याप्यव्याधितमातुरम् | प्रपतिष्यदिवागारं विष्कम्भः साधुयोजितः ||११||
🔊 Audio coming soon
Adhikarana 9 (12) · Śloka 12
अत ऊर्ध्वमसाध्यान् वक्ष्यामः- मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापानवदुद्वृत्तौष्ठाः , केचित् कठिना गोशृङ्गवदुद्गतमृदुमांसप्ररोहाः, अपरे दुष्टरुधिरास्राविणस्तनुशीतपिच्छिलास्राविणो वा मध्योन्नताः, केचिदवसन्नशुषिरपर्यन्ताः शणतूलवत् स्नायुजालवन्तो दुर्दर्शनाः, वसामेदोमज्जमस्तुलुङ्गस्राविणश्च दोषसमुत्थाः, पीतासितमूत्रपुरीषवातवाहिनश्च कोष्ठस्थाः, त एवोभयतोभागव्रणमुखेषु पूयरक्तनिर्वाहिणः, (क्षीणमांसानां च ) सर्वतोगतयश्चाणुमुखा मांसबुद्बुदवन्तः, सशब्दवातवाहिनश्च शिरःकण्ठस्थाः, क्षीणमांसानां च पूयरक्तनिर्वाहिणोऽरोचकाविपाककासश्वासोपद्रवयुक्ताः, भिन्ने वा शिरःकपाले यत्र मस्तुलुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौ वा यस्येति ||१२||
🔊 Audio coming soon
Adhikarana 10 (13) · Śloka 13
भवति चात्र- वसां मेदोऽथ मज्जानं मस्तुलुङ्गं च यः स्रवेत् | आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसम्भवः ||१३||
🔊 Audio coming soon
Adhikarana 11 (13-14) · Śloka 14
अमर्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते | विकारोयोऽनुपर्येति तदसाध्यस्य लक्षणम् ||१४||
🔊 Audio coming soon
Adhikarana 12 (15-16) · Śloka 16
क्रमेणोपचयं प्राप्य ; धातूननुगतः शनैः | न शक्य उन्मूलयितुं वृद्धो वृक्ष इवामयः ||१५|| स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च | निहन्त्यौषधवीर्याणि मन्त्रान् दुष्टग्रहो यथा ||१६||
🔊 Audio coming soon
Adhikarana 13 (17) · Śloka 17
अतो यो विपरीतः स्यात् सुखसाध्यः स उच्यते | अबद्धमूलः क्षुपको यद्वदुत्पाटने सुखः ||१७||
🔊 Audio coming soon
Adhikarana 14 (18) · Śloka 18
त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः पिडकी समः | अवेदनो निरास्रावो व्रणः शुद्ध इहोच्यते ||१८||
🔊 Audio coming soon
Adhikarana 15 (19) · Śloka 19
कपोतवर्णप्रतिमा यस्यान्ताः क्लेदवर्जिताः | स्थिराश्चिपिटिकावन्तो रोहतीति तमादिशेत् ||१९||
🔊 Audio coming soon
Adhikarana 16 (20) · Śloka 20
रूढवर्त्मानमग्रन्थिमशूनमरुजं व्रणम् | त्वक्सवर्णं समतलं सम्यग्रूढं विनिर्दिशेत् ||२०||
🔊 Audio coming soon
Adhikarana 17 (21) · Śloka 21
दोषप्रकोपाद्व्यायामादभिघातादजीर्णतः | हर्षात् क्रोधाद्भयाद्वाऽपि व्रणो रूढोऽपि दीर्यते ||२१||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 23
इति सुश्रुतसंहितायां सूत्रस्थाने कृत्याकृत्यविधिर्नाम त्रयोविंशोऽध्यायः ||२३||
🔊 Audio coming soon