Adhikarana 1 (1-2) · Śloka 2
अथातो मिश्रकमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातो मिश्रकमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3-7) · Śloka 7
मातुलुङ्ग्यग्निमन्थौ च भद्रदारु महौषधम् | अहिंस्रा चैव रास्ना च प्रलेपो वातशोफजित् ||३|| दूर्वा च नलमूलं च मधुकं चन्दनं तथा | शीतलाश्च गणाः सर्वे प्रलेपः पित्तशोफहृत् ||४|| आगन्तुजे रक्तजे च ह्येष एव विधिः स्मृतः | विधिर्विषघ्नो विषजे पित्तघ्नोऽपि हितस्तथा ||५|| अजगन्धाऽश्वगन्धा च काला सरलया सह | एकैषिकाजशृङ्गी च प्रलेपः श्लेष्मशोफहृत् ||६|| एते वर्गास्त्रयो लोध्रं पथ्या पिण्डीतकानि च | अनन्ता चेति लेपोऽयं सान्निपातिकशोफहृत् ||७||
🔊 Audio coming soon
Adhikarana 3 (8) · Śloka 8
स्निग्धाम्ललवणो वाते कोष्णः, शीतः पयोयुतः | पित्ते, चोष्णः कफे क्षारमूत्राढ्यस्तत्प्रशान्तये ||८||
🔊 Audio coming soon
Adhikarana 4 (9) · Śloka 9
शणमूलकशिग्रूणां फलानि तिलसर्षपाः | सक्तवः किण्वमतसी द्रव्याण्युष्णानि पाचनम् ||९||
🔊 Audio coming soon
Adhikarana 5 (10) · Śloka 10
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः | कपोतकङ्कगृध्राणां पुरीषाणि च दारणम् | क्षारद्रव्याणि वा यानि क्षारो वा दारणं परम् ||१०||
🔊 Audio coming soon
Adhikarana 6 (11) · Śloka 11
द्रव्याणां पिच्छिलानां तु त्वङ्मूलानि प्रपीडनम् | यवगोधूममाषाणां चूर्णानि च समासतः ||११||
🔊 Audio coming soon
Adhikarana 7 (12) · Śloka 12
शाङ्खिन्यङ्कोठसुमनःकरवीरसुवर्चलाः | शोधनानि कषायाणि वर्गश्चारग्वधादिकः ||१२||
🔊 Audio coming soon
Adhikarana 8 (13-14) · Śloka 15
अजगन्धाऽजशृङ्गी च गवाक्षी लाङ्गलाह्वया | पूतीकश्चित्रकः पाठा विडङ्गैलाहरेणवः ||१३|| कटुत्रिकं यवक्षारो लवणानि मनःशिला | कासीसं त्रिवृता दन्ती हरितालं सुराष्ट्रजा ||१४|| संशोधनीनां वर्तीनां द्रव्याण्येतानि निर्दिशेत् |१५|
🔊 Audio coming soon
Adhikarana 9 (15) · Śloka 15
एतैरेवौषधैः कुर्यात्कल्कानपि च शोधनान् ||१५||
🔊 Audio coming soon
Adhikarana 10 (16) · Śloka 17
अर्कोत्तमां स्नुहीक्षीरं पिष्ट्वा क्षारोत्तमानि च | जातीमूलं हरिद्रे द्वे कासीसं कटुरोहिणीम् ||१६|| पूर्वोद्दिष्टानि चान्यानि कुर्यात् संशोधनं घृतम् |१७|
🔊 Audio coming soon
Adhikarana 11 (17-18) · Śloka 18
मयूरको राजवृक्षो निम्बः कोशातकी तिलाः ||१७|| बृहती कण्टकारी च हरितालं मनःशिला | शोधनानि च योज्यानि तैले द्रव्याणि शोधने ||१८||
🔊 Audio coming soon
Adhikarana 12 (19) · Śloka 19
कासीसे सैन्धवे किण्वे वचायां रजनीद्वये | शोधनाङ्गेषु चान्येषु चूर्णं कुर्वीत शोधनम् ||१९||
🔊 Audio coming soon
Adhikarana 13 (20) · Śloka 20
सालसारादिसारेषु पटोलत्रिफलासु च | रसक्रिया विधातव्या शोधनी शोधनेषु च ||२०||
🔊 Audio coming soon
Adhikarana 14 (21) · Śloka 21
श्रीवेष्टके सर्जरसे सरले देवदारुणि | सारेष्वपि च कुर्वीत मतिमान् व्रणधूपनम् ||२१||
🔊 Audio coming soon
Adhikarana 15 (22-23) · Śloka 23
कषायाणामनुष्णानां वृक्षाणां त्वक्षु साधितः | शृतः शीतकषायो वा रोपणार्थं प्रशस्यते ||२२|| सोमामृताश्वगन्धासु काकोल्यादौ गणे तथा | क्षीरिप्ररोहेष्वपि च वर्तयो रोपणाः स्मृताः ||२३||
🔊 Audio coming soon
Adhikarana 16 (24) · Śloka 24
समङ्गा सोमसरला सोमवल्कः सचन्दनः | काकोल्यादिश्च कल्कः स्यात् प्रशस्तो व्रणरोपणे ||२४||
🔊 Audio coming soon
Adhikarana 17 (25) · Śloka 25
पृथक्पर्ण्यात्मगुप्ता च हरिद्रे मालती सिता | काकोल्यादिश्च योज्यः स्याद्भिषजा रोपणे घृते ||२५||
🔊 Audio coming soon
Adhikarana 18 (26) · Śloka 26
कालानुसार्यागुरुणी हरिद्रे देवदारु च | प्रियङ्गवश्च रोध्रं च तैले योज्यानि रोपणे ||२६||
🔊 Audio coming soon
Adhikarana 19 (27-28) · Śloka 28
कङ्गुका त्रिफला रोध्रं कासीसं श्रवणाह्वया | धवाश्वकर्णयोस्त्वक् च रोपणं चूर्णमिष्यते ||२७|| प्रियङ्गुका सर्जरसः पुष्पकासीसमेव च | त्वक्चूर्णं धवजं चैव रोपणार्थं प्रशस्यते ||२८||
🔊 Audio coming soon
Adhikarana 20 (29) · Śloka 29
त्वक्षु न्यग्रोधवर्गस्य त्रिफलायास्तथैव च | रसक्रियां रोपणार्थे विदधीत यथाक्रमम् ||२९||
🔊 Audio coming soon
Adhikarana 21 (30) · Śloka 30
अपामार्गोऽश्वगन्धा च तालपत्री सुवर्चला | उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः ||३०||
🔊 Audio coming soon
Adhikarana 22 (31-32) · Śloka 32
कासीसं सैन्धवं किण्वं कुरुविन्दो मनःशिला | कुक्कुटाण्डकपालानि सुमनोमुकुलानि च ||३१|| फले शैरीषकारञ्जे धातुचूर्णानि यानि च | व्रणेषूत्सन्नमांसेषु प्रशस्तान्यवसादने ||३२||
🔊 Audio coming soon
Adhikarana 23 (33) · Śloka 33
समस्तं वर्गमर्धं वा यथालाभमथापि वा | प्रयुञ्जीत भिषक् प्राज्ञो यथोद्दिष्टेषु कर्मसु ||३३||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 37
इति सुश्रुतसंहितायां सूत्रस्थाने मिश्रकाध्यायो नाम सप्तत्रिंशत्तमोऽध्यायः ||३७||
🔊 Audio coming soon