Adhikarana 1 (1-3) · Śloka 3
अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| शल्यं द्विविधमवबद्धमनवबद्धं च ||३||
🔊 Audio coming soon
Adhikarana 1 (1-3) · Śloka 3
अथातः शल्यापनयनीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| शल्यं द्विविधमवबद्धमनवबद्धं च ||३||
🔊 Audio coming soon
Adhikarana 2 (4) · Śloka 4
तत्र समासेनानवबद्धशल्योद्धरणार्थं पञ्चदश हेतून् वक्ष्यामः | तद्यथा- स्वभावः, पाचनं, भेदनं, दारणं, पीडनं, प्रमार्जनं, निर्ध्मापनं, वमनं, विरेचनं, प्रक्षालनं, प्रतिमर्शः, प्रवाहणम्, आचूषणम्, अयस्कान्तो, हर्षश्चेति ||४||
🔊 Audio coming soon
Adhikarana 3 (5) · Śloka 5
तत्राश्रुक्षवथूद्गारकासमूत्रपुरीषानिलैः स्वभावबलप्रवृत्तैर्नयनादिभ्यः पतति | मांसावगाढं शल्यमविदह्यमानं पाचयित्वा प्रकोथात्तस्य पूयशोणितवेगाद्गौरवाद्वा पतति | पक्वमभिद्यमानं भेदयेद्दारयेद्वा | भिन्नमनिरस्यमानं पीडनीयैः पीडयेत् पाणिभिर्वा | अणून्यक्षशल्यानि परिषेचनाध्मापनैर्बालवस्त्रपाणिभिः प्रमार्जयेत् | आहारशेषश्लेष्महीनाणुशल्यानि श्वसनोत्कासनप्रधमनैर्निर्धमेत् | अन्नशल्यानि वमनाङ्गुलिप्रतिमर्शप्रभृतिभिः | विरेचनैः पक्वाशयगतानि | व्रणदोषाशयगतानि प्रक्षालनैः | वातमूत्रपुरीषगर्भसङ्गेषु प्रवाहणमुक्तम् | मारुतोदकसविषरुधिरदुष्टस्तन्येष्वाचूषणमास्येन विषाणैर्वा | अनुलोममनवबद्धमकर्णमनल्पव्रणमुखमयस्कान्तेन | हृद्यवस्थितमनेककारणोत्पन्नं शोकशल्यं हर्षेणेति ||५||
🔊 Audio coming soon
Adhikarana 4 (6) · Śloka 6
सर्वशल्यानां तु महतामणूनां वा द्वावेवाहरणहेतू भवतः- प्रतिलोमोऽनुलोमश्च ||६||
🔊 Audio coming soon
Adhikarana 5 (7) · Śloka 7
तत्र प्रतिलोममर्वाचीनमानयेत् , अनुलोमं पराचीनम् ||७||
🔊 Audio coming soon
Adhikarana 6 (8) · Śloka 8
उत्तुण्डितं छित्त्वा निर्घातयेच्छेदनीयमुखम् ||८||
🔊 Audio coming soon
Adhikarana 7 (9) · Śloka 9
छेदनीयमुखान्यपि कुक्षिवक्षःकक्षावङ्क्षणपर्शुकान्तरपतितानि च हस्तशक्यं यथामार्गेण हस्तेनैवापहर्तुं प्रयतेत ||९||
🔊 Audio coming soon
Adhikarana 8 (10) · Śloka 10
हस्तेनैवापहर्तुमशक्यं विशस्य शस्त्रेण यन्त्रेणापहरेत् ||१०||
🔊 Audio coming soon
Adhikarana 9 (11) · Śloka 11
भवति चात्र- शीतलेन जलेनैनं मूर्च्छन्तमवसेचयेत् | संरक्षेदस्य मर्माणि मुहुराश्वासयेच्च तम् ||११||
🔊 Audio coming soon
Adhikarana 10 (12) · Śloka 12
ततः शल्यमुद्धृत्य निर्लोहितं व्रणं कृत्वा स्वेदार्हमग्निघृतप्रभृतिभिः संस्वेद्यावदह्य प्रदिह्य सर्पिर्मधुभ्यां बद्ध्वाऽऽचारिकमुपदिशेत् | (सिरास्नायुविलग्नं शलाकादिभिर्विमोच्यापनयेत्; श्वयथुग्रस्तवारङ्गं समवपीड्य श्वयथुं; दुर्बलवारङ्गं कुशादिभिर्बद्ध्वा|) ||१२||
🔊 Audio coming soon
Adhikarana 11 (13) · Śloka 13
हृदयमभितो वर्तमानं शल्यं शीतजलादिभिरुद्वेजितस्यापहरेद्यथामार्गं; दुरुपहरमन्यतोऽपबाध्यमानं पाटयित्वोद्धरेत् ||१३||
🔊 Audio coming soon
Adhikarana 12 (14) · Śloka 14
अस्थिविवरप्रविष्टमस्थिविदष्टं वाऽवगृह्य पादाभ्यां यन्त्रेणापहरेत्, अशक्यमेवं वा बलवद्भिः सुपरिगृहीतस्य यन्त्रेण ग्राहयित्वा शल्यवारङ्गं प्रविभुज्य धनुर्गुणैर्बद्ध्वैकतश्चास्य पञ्चाङ्ग्यामुपसंयतस्याश्वस्यवक्त्रकविके बध्नीयात्, अथैनं कशया ताडयेद्यथोन्नामयञ् शिरो वेगेन शल्यमुद्धरति; दृढां वा वृक्षशाखामवनम्य तस्यां पूर्ववद्बद्ध्वोद्धरेत् ||१४||
🔊 Audio coming soon
Adhikarana 13 (15) · Śloka 15
अदेशोत्तुण्डितमष्ठीलाश्ममुद्गराणामन्यतमस्य प्रहारेण विचाल्य यथामार्गमेव यन्त्रेण ||१५||
🔊 Audio coming soon
Adhikarana 14 (16) · Śloka 16
विमृदितकर्णानि कर्णवन्त्यनाबाधकरदेशोत्तुण्डितानि पुरस्तादेव ||१६||
🔊 Audio coming soon
Adhikarana 15 (17) · Śloka 17
जातुषे कण्ठासक्ते कण्ठे नाडीं प्रवेश्याग्नितप्तां च शलाकां, तयाऽवगृह्य शीताभिरद्भिः परिषिच्य स्थिरीभूतं शल्यमुद्धरेत् ||१७||
🔊 Audio coming soon
Adhikarana 16 (18) · Śloka 18
अजातुषं तु जतुमधूच्छिष्टप्रलिप्तया शलाकया पूर्वकल्पेनेत्येके ||१८||
🔊 Audio coming soon
Adhikarana 17 (19) · Śloka 19
अस्थिशल्यमन्यद्वा तिर्यक्कण्ठासक्तमवेक्ष्य केशोण्डुकं दृढैकदीर्घसूत्रबद्धं द्रवभक्तोपहितं पाययेदाकण्ठात् पूर्णकोष्ठं च वामयेत्, वमतश्च शल्यैकदेशसक्तं ज्ञात्वा सूत्रं सहसा त्वाक्षिपेत्; मृदुना वा दन्तधावनकूर्चकेनापहरेत् प्रणुदेद्वाऽन्तः | क्षतकण्ठाय च मधुसर्पिषी लेढुं प्रयच्छेत्त्रिफलाचूर्णं वा मधुशर्करामिश्रम् ||१९||
🔊 Audio coming soon
Adhikarana 18 (20) · Śloka 20
उदकपूर्णोदरमवाक्शिरसमवपीडयेद्धुनीयाद्वामयेद्वा भस्मराशौ वा निखनेदामुखात् ||२०||
🔊 Audio coming soon
Adhikarana 19 (21) · Śloka 21
ग्रासशल्ये तु कण्ठासक्ते निःशङ्कमनवबुद्धं स्कन्धे मुष्टिनाऽभिहन्यात्, स्नेहं मद्यं पानीयं वा पाययेत् ||२१||
🔊 Audio coming soon
Adhikarana 20 (22) · Śloka 22
बाहुरज्जुलतापाशैः कण्ठपीडनाद्वायुः प्रकुपितः श्लेष्माणं कोपयित्वा स्रोतो निरुणद्धि, लालास्रावं फेनागमनं सञ्ज्ञानाशं चापादयति; तमभ्यज्य संस्वेद्य शिरोविरेचनं तस्मै तीक्ष्णं विदध्याद्रसं च वातघ्नं दद्यादिति ||२२||
🔊 Audio coming soon
Adhikarana 21 (23-26) · Śloka 26
भवन्ति चात्र- शल्याकृतिविशेषांश्च स्थानान्यावेक्ष्य बुद्धिमान् | तथा यन्त्रपृथक्त्वं च सम्यक् शल्यमथाहरेत् ||२३|| कर्णवन्ति तु शल्यानि दुःखाहार्याणि यानि च | आददीत भिषक् तस्मात्तानि युक्त्या समाहितः ||२४|| एतैरुपायैः शल्यं तु नैव निर्यात्यते यदि | मत्या निपुणया वैद्यो यन्त्रयोगैश्च निर्हरेत् ||२५|| शोथपाकौ रुजश्चोग्राः कुर्याच्छल्यमनाहृतम् | वैकल्यं मरणं चापि तस्माद्यत्नाद्विनिर्हरेत् ||२६||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 27
इति सुश्रुतसंहितायां सूत्रस्थाने शल्यापनयनीयो नाम सप्तविंशतितमोऽध्यायः ||२७||
🔊 Audio coming soon