Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

21. vraṇapraśnādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो व्रणप्रश्नमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

वातपित्तश्लेष्माण एव देहसम्भवहेतवः | तैरेवाव्यापन्नैरधोमध्योर्ध्वसन्निविष्टैः शरीरमिदं धार्यतेऽगारमिव स्थूणाभिस्तिसृभिः अतश्च त्रिस्थूणमाहुरेके | त एव च व्यापन्नाः प्रलयहेतवः | तदेभिरेव शोणितचतुर्थैः सम्भवस्थितिप्रलयेष्वप्यविरहितं शरीरं भवति ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

भवति चात्र- नर्ते देहः कफादस्ति न पित्तान्न च मारुतात् | शोणितादपि वा नित्यं देह एतैस्तु धार्यते ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

तत्र ‘वा’ गतिगन्धनयोः, इति धातुः, ‘तप’ सन्तापे, ‘श्लिष’ आलिङ्गने, एतेषां कृद्विहितैः प्रत्ययैर्वातः पित्तं श्लेष्मेति च रूपाणि भवन्ति ||५||

🔊 Audio coming soon

Adhikarana 5 (6) · Śloka 6

दोषस्थानान्यत ऊर्ध्वं वक्ष्यामः- तत्र समासेन वातः श्रोणिगुदसंश्रयः; तदुपर्यधो नाभेः पक्वाशयः, पक्वामाशयमध्यं पित्तस्य; आमाशयः श्लेष्मणः ||६||

🔊 Audio coming soon

Adhikarana 6 (7) · Śloka 7

अतः परं पञ्चधा विभज्यन्ते | तत्र वातस्य वातव्याधौ वक्ष्यामः; पित्तस्य यकृत्प्लीहानौ हृदयं दृष्टिस्त्वक् पूर्वोक्तं च; श्लेष्मण उरः शिरः कण्ठो जिह्वामूलं सन्धय इति पूर्वोक्तं च; एतानि खलु दोषाणां स्थानान्यव्यापन्नानाम् ||७||

🔊 Audio coming soon

Adhikarana 7 (8) · Śloka 8

भवति चात्र- विसर्गोदानविक्षेपैः सोमसूर्यानिला यथा | धारयन्ति जगद्देहं कफपित्तानिलास्तथा ||८||

🔊 Audio coming soon

Adhikarana 8 (9) · Śloka 9

तत्र जिज्ञास्यं किं पित्तव्यतिरेकादन्योऽग्निः? आहोस्वित् पित्तमेवाग्निरिति? | अत्रोच्यते- न खलु पित्तव्यतिरेकादन्योऽग्निरुपलभ्यते, आग्नेयत्वात् पित्ते दहनपचनादिष्वभिप्रवर्तमानेऽग्निवदुपचारः क्रियतेऽन्तरग्निरिति; क्षीणे ह्यग्निगुणे तत्समानद्रव्योपयोगात् , अतिवृद्धे शीतक्रियोपयोगात् , आगमाच्च पश्यामो न खलु पित्तव्यतिरेकादन्योऽग्निरिति ||९||

🔊 Audio coming soon

Adhikarana 9 (10) · Śloka 10

तच्चादृष्टहेतुकेन विशेषेण पक्वामाशयमध्यस्थं पित्तं चतुर्विधमन्नपानं पचति, विवेचयति च दोषरसमूत्रपुरीषाणि; तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां शरीरस्य चाग्निकर्मणाऽनुग्रहं करोति, तस्मिन् पित्ते पाचकोऽग्निरिति सञ्ज्ञा; यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति सञ्ज्ञा, स रसस्य रागकृदुक्तः; यत् पित्तं हृदयस्थं तस्मिन् साधकोऽग्निरिति सञ्ज्ञा, सोऽभिप्रार्थितमनोरथसाधनकृदुक्तः; यद्दृष्ट्यां पित्तं तस्मिन्नालोचकोऽग्निरिति सञ्ज्ञा, स रूपग्रहणाऽधिकृतः; यत्तु त्वचि पित्तं तस्मिन् भ्राजकोऽग्निरिति सञ्ज्ञा, सोऽभ्यङ्गपरिषेकावगाहालेपनादीनां क्रियाद्रव्याणां पक्ता छायानां च प्रकाशकः ||१०||

🔊 Audio coming soon

Adhikarana 10 (11) · Śloka 11

भवति चात्र- पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च | उष्णं कटुरसं चैव विदग्धं चाम्लमेव च ||११||

🔊 Audio coming soon

Adhikarana 11 (12) · Śloka 12

अत ऊर्ध्वं श्लेष्मस्थानान्यनुव्याख्यास्यामः | तत्र, आमाशयः पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्ध्वगतित्वात्तेजसः, चन्द्र इव आदित्यस्य , चतुर्विधस्याहारस्याधारः; स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो भिन्नसङ्घातः सुखजरो भवति ||१२||

🔊 Audio coming soon

Adhikarana 12 (13) · Śloka 13

माधुर्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च | आमाशये सम्भवति श्लेष्मा मधुरशीतलः ||१३||

🔊 Audio coming soon

Adhikarana 13 (14) · Śloka 14

स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां शरीरस्य चोदककर्मणाऽनुग्रहं करोति; उरःस्थस्त्रिकसन्धारणमात्मवीर्येणान्नरससहितेन हृदयावलम्बनं करोति; जिह्वामूलकण्ठस्थो जिह्वेन्द्रियस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्तते; शिरःस्थः स्नेहसन्तर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्येणानुग्रहं करोत्; सन्धिस्थः श्लेष्मा सर्वसन्धिसंश्लेषात् सर्वसन्ध्यनुग्रहं करोति ||१४||

🔊 Audio coming soon

Adhikarana 14 (15) · Śloka 15

भवति चात्र- श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च | मधुरस्त्वविदग्धः स्याद्विदग्धो लवण स्मृतः ||१५||

🔊 Audio coming soon

Adhikarana 15 (16) · Śloka 16

शोणितस्य स्थानं यकृत्प्लीहानौ, तच्च प्रागभिहितं; तत्रस्थमेव शेषाणां शोणितस्थानानामनुग्रहं करोति ||१६||

🔊 Audio coming soon

Adhikarana 16 (17) · Śloka 17

भवति चात्र- अनुष्णशीतं मधुरं स्निग्धं रक्तं च वर्णतः | शोणितं गुरु विस्रं स्याद्विदाहश्चास्य पित्तवत् ||१७||

🔊 Audio coming soon

Adhikarana 17 (18) · Śloka 18

एतानि खलु दोषस्थानानि; एषु सञ्चीयन्ते दोषाः | प्राक् सञ्चयहेतुरुक्तः | तत्र सञ्चितानां खलु दोषाणां स्तब्धपूर्णकोष्ठता पीतावभासता मन्दोष्मता चाङ्गानां गौरवमालस्यं चयकारणविद्वेषश्चेति लिङ्गानि भवन्ति | तत्र प्रथमः क्रियाकालः ||१८||

🔊 Audio coming soon

Adhikarana 18 (19) · Śloka 19

अत ऊर्ध्वं प्रकोपणानि वक्ष्यामः | तत्र बलवद्विग्रहातिव्यायामव्यवायाध्ययनप्रपतनप्रधावनप्रपीडनाभिघातलङ्घनप्लवनतरणरात्रिजागरणभारहरण- गजतुरगरथपदातिचर्याकटुकषायतिक्तरूक्षलघुशीतवीर्यशुष्कशाकवल्लूरवरकोद्दालककोरदूषश्यामाकनीवार- मुद्गमसूराढकीहरेणुकलायनिष्पावानशनविषमाशनाध्यशनवातमूत्रपुरीषशुक्रच्छर्दिक्षवथूद्गारबाष्पवेगविघातादिभिर्विशेषैर्वायुः प्रकोपमापद्यते ||१९||

🔊 Audio coming soon

Adhikarana 19 (20) · Śloka 20

स शीताभ्रप्रवातेषु घर्मान्ते च विशेषतः | प्रत्यूषस्यपराह्णे तु जीर्णेऽन्ने च प्रकुप्यति ||२०||

🔊 Audio coming soon

Adhikarana 20 (21) · Śloka 21

क्रोधशोकभयायासोपवासविदग्धमैथुनोपगमनकट्वम्ललवण- तीक्ष्णोष्णलघुविदाहितिलतैलपिण्याककुलत्थसर्षपातसीहरितकशाक- गोधामत्स्याजाविकमांसदधितक्रकूर्चिकामस्तुसौवीरकसुराविकाराम्लफलकट्वरप्रभृतिभिः पित्तं प्रकोपमापद्यते ||२१||

🔊 Audio coming soon

Adhikarana 21 (22) · Śloka 22

तदुष्णैरुष्णकाले च घनान्ते च विशेषतः | मध्याह्ने चार्धरात्रे च जीर्यत्यन्ने च कुप्यति ||२२||

🔊 Audio coming soon

Adhikarana 22 (23) · Śloka 23

दिवास्वप्नाव्यायामालस्यमधुराम्ललवणशीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवकनैषधेत्कट- माषमहामाषगोधूमतिलपिष्टविकृतिदधिदुग्धकृशरापायसेक्षुविकारानूपौदकमांसवसाबिसमृणाल- कसेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्यशनप्रभृतिभिः श्लेष्मा प्रकोपमापद्यते ||२३||

🔊 Audio coming soon

Adhikarana 23 (24) · Śloka 24

स शीतैः शीतकाले च वसन्ते च विशेषतः | पूर्वाह्णे च प्रदोषे च भुक्तमात्रे प्रकुप्यति ||२४||

🔊 Audio coming soon

Adhikarana 24 (25) · Śloka 25

पित्तप्रकोपणैरेव चाभीक्ष्णं द्रवस्निग्धगुरुभिराहारैर्दिवास्वप्नक्रोधानलातपश्रमाभिघाताजीर्णविरुद्धाध्यशनादिभिर्विशेषैरसृक् प्रकोपमापद्यते ||२५||

🔊 Audio coming soon

Adhikarana 25 (26) · Śloka 26

यस्माद्रक्तं विना दोषैर्न कदाचित् प्रकुप्यति | तस्मात्तस्य यथादोषं कालं विद्यत् प्रकोपणे ||२६||

🔊 Audio coming soon

Adhikarana 26 (27) · Śloka 27

तेषां प्रकोपात् कोष्ठतोदसञ्चरणाम्लीकापिपासापरिदाहान्नद्वेषहृदयोत्क्लेदाश्च जायन्ते | तत्र द्वितीयः क्रियाकालः ||२७||

🔊 Audio coming soon

Adhikarana 27 (28) · Śloka 28

अत ऊर्ध्वं प्रसरं वक्ष्यामः- तेषामेभिरातङ्कविशेषैः प्रकुपितानां किण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति | तेषां वायुर्गतिमत्त्वात् प्रसरणहेतुः सत्यप्यचैतन्ये | स हि रजोभूयिष्ठः; रजश्च प्रवर्तकं सर्वभावानाम् | यथा- महानुदकसञ्चयोऽतिवृद्धः सेतुमवदार्यापरेणोदकेन व्यामिश्रः सर्वतः प्रधावति, एवं दोषाः कदाचिदेकशो द्विशः समस्ताः शोणितसहिता वाऽनेकधा प्रसरन्ति | तद्यथा- वातः, पित्तं, श्लेष्मा, शोणितं, वातपित्ते, वातश्लेष्माणौ, पित्तश्लेष्माणौ, वातशोणिते, पित्तशोणिते, श्लेष्मशोणिते, वातपित्तशोणितानि, वातश्लेष्मशोणितानि, पित्तश्लेष्मशोणितानि, वातपित्तकफाः, वातपित्तकफशोणितानीति; एवं पञ्चदशधा प्रसरन्ति ||२८||

🔊 Audio coming soon

Adhikarana 28 (29-30) · Śloka 30

कृत्स्नेऽर्धेऽवयवे वाऽपि यत्राङ्गे कुपितो भृशम् | दोषो विकारं नभसि मेघवत्तत्र वर्षति ||२९|| नात्यर्थं कुपितश्चापि लीनो मार्गेषु तिष्ठति | निष्प्रत्यनीकः कालेन हेतुमासाद्य कुप्यति ||३०||

🔊 Audio coming soon

Adhikarana 29 (31) · Śloka 31

तत्र वायोः पित्तस्थानगतस्य पित्तवत् प्रतीकारः, पित्तस्य च कफस्थानगतस्य कफवत्, कफस्य च वातस्थानगतस्य वातवत् ; एष क्रियाविभागः ||३१||

🔊 Audio coming soon

Adhikarana 30 (32) · Śloka 32

एवं प्रकुपितानां प्रसरतां वायोर्विमार्गगमनाटोपौ, ओषचोषपरिदाहधूमायनानि पित्तस्य, अरोचकाविपाकाङ्गसादाश्छर्दिश्चेति श्लेष्मणो लिङ्गानि भवन्ति; तत्र तृतीयः क्रियाकालः ||३२||

🔊 Audio coming soon

Adhikarana 31 (33) · Śloka 33

अत ऊर्ध्वं स्थानसंश्रयं वक्ष्यामः | एवं प्रकुपितातांस्ताञ् शरीरप्रदेशानागम्य तांस्तान् व्याधीन् जनयन्ति | ते यदोदरसन्निवेशं कुर्वन्ति तदा गुल्म विद्रध्युदराग्निसङ्गानाहविसूचिकातिसारप्रभृतीञ्जनयन्ति; बस्तिगताः प्रमेहाश्मरीमूत्राघातमूत्रदोषप्रभृतीन्; मेढ्रगता निरुद्धप्रकशोपदंशशूकदोषप्रभृतीन्; गुदगता भगन्दरार्शःप्रभृतीन्; वृषणगता वृद्धीः; ऊर्ध्वजत्रुगतास्तूर्ध्वजान्; त्वङ्मंसशोणितस्थाः क्षुद्ररोगान् कुष्ठानि विसर्पांश्च; मेदोगता ग्रन्थ्यपच्यर्बुदगलगण्डालजीप्रभृतीन्; अस्थिगता विद्रध्यनुशयीप्रभृतीन्; पादगताः श्लीपदवातशोणितवातकण्टकप्रभृतीन्; सर्वाङ्गगता ज्वरसर्वाङ्गरोगप्रभृतीन्; तेषामेवमभिसन्निविष्टानां पूर्वरूपप्रादुर्भावः ; तं प्रतिरोगं वक्ष्यामः | तत्र पूर्वरूपगतेषु चतुर्थः क्रियाकालः ||३३||

🔊 Audio coming soon

Adhikarana 32 (34) · Śloka 34

अत ऊर्ध्वं व्याधेर्दर्शनं वक्ष्यामः- शोफार्बुदग्रन्थिविद्रधिविसर्पप्रभृतीनां प्रव्यक्तलक्षणता ज्वरातीसारप्रभृतीनां च | तत्र पञ्चमः क्रियाकालः ||३४||

🔊 Audio coming soon

Adhikarana 33 (35) · Śloka 35

अत ऊर्ध्वमेतेषामवदीर्णानां व्रणभावमापन्नानां षष्ठः क्रियाकालः, ज्वरातिसारप्रभृतीनां च दीर्घकालानुबन्धः | तत्राप्रतिक्रियमाणेऽसाध्यतामुपयान्ति ||३५||

🔊 Audio coming soon

Adhikarana 34 (36) · Śloka 36

भवन्ति चात्र- सञ्चयं च प्रकोपं च प्रसरं स्थानसंश्रयम् | व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक् ||३६||

🔊 Audio coming soon

Adhikarana 35 (37) · Śloka 37

सञ्चयेऽपहृता दोषा लभन्ते नोत्तरा गतीः | ते तूत्तरासु गतिषु भवन्ति बलवत्तराः ||३७||

🔊 Audio coming soon

Adhikarana 36 (38) · Śloka 38

सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः | संसर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति ||३८||

🔊 Audio coming soon

Adhikarana 37 (39) · Śloka 39

संसर्गे यो गरीयान् स्यादुपक्रम्यः स वै भवेत् | शेषदोषाविरोधेन सन्निपाते तथैव च ||३९||

🔊 Audio coming soon

Adhikarana 38 (40) · Śloka 40

वृणोति यस्माद्रूढेऽपि व्रणवस्तु न नश्यति | आदेहधारणात्तस्माद्व्रण इत्युच्यते बुधैः ||४०||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 21

इति सुश्रुतसंहितायां सूत्रस्थाने व्रणप्रश्नाध्यायो नामैकविंशोध्यायः ||२१||

🔊 Audio coming soon