Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

60. amānuṣōpasargapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः | इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता | क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

अशुचिं भिन्नमर्यादं क्षतं व यदि वाऽक्षतम् | हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा ||५||

🔊 Audio coming soon

Adhikarana 5 (6) · Śloka 6

असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये | व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ||६||

🔊 Audio coming soon

Adhikarana 6 (7) · Śloka 7

देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः | रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः ||७||

🔊 Audio coming soon

Adhikarana 7 (8) · Śloka 8

सन्तुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी | तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्यण्यो भवति नरः स देवजुष्टः ||८||

🔊 Audio coming soon

Adhikarana 8 (9) · Śloka 9

संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः | सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः ||९||

🔊 Audio coming soon

Adhikarana 9 (10) · Śloka 10

हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः | नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः ||१०||

🔊 Audio coming soon

Adhikarana 10 (11) · Śloka 11

ताम्राक्षः प्रियतनुरक्तवस्त्रधारी गम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः | तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ||११||

🔊 Audio coming soon

Adhikarana 11 (12) · Śloka 12

प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः | मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः ||१२||

🔊 Audio coming soon

Adhikarana 12 (13) · Śloka 13

भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव | निद्रालुर्गडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः ||१३||

🔊 Audio coming soon

Adhikarana 13 (14) · Śloka 14

मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः | क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः ||१४||

🔊 Audio coming soon

Adhikarana 14 (15) · Śloka 15

उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः | बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः ||१५||

🔊 Audio coming soon

Adhikarana 15 (16) · Śloka 16

स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रालुः पतति च कम्पते च योऽति | यश्चाद्रिद्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः ||१६||

🔊 Audio coming soon

Adhikarana 16 (17-18) · Śloka 18

देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि | गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ ||१७|| कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः | रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च ||१८||

🔊 Audio coming soon

Adhikarana 17 (19) · Śloka 19

दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा | स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक् | विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् ||१९||

🔊 Audio coming soon

Adhikarana 18 (20) · Śloka 20

तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम् | गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् ||२०||

🔊 Audio coming soon

Adhikarana 19 (21) · Śloka 21

न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति | ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः ||२१||

🔊 Audio coming soon

Adhikarana 20 (22) · Śloka 22

तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपह्मसङ्ख्याः | असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति ||२२||

🔊 Audio coming soon

Adhikarana 21 (23) · Śloka 23

निशाचराणां तेषां हि ये देवगणमाश्रिताः | ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ||२३||

🔊 Audio coming soon

Adhikarana 22 (24) · Śloka 24

देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्च ये | देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् ||२४||

🔊 Audio coming soon

Adhikarana 23 (25) · Śloka 25

स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु | निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः ||२५||

🔊 Audio coming soon

Adhikarana 24 (26) · Śloka 26

सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता |२६|

🔊 Audio coming soon

Adhikarana 25 (26) · Śloka 27

हिंसाविहारा ये केचिद्देवभावमुपाश्रिताः ||२६|| भूतानीति कृता सञ्ज्ञा तेषां सञ्ज्ञाप्रवक्तृभिः |२७|

🔊 Audio coming soon

Adhikarana 26 (27) · Śloka 28

ग्रहसञ्ज्ञानि भूतानि यस्मद्वेत्त्यनया भिषक् ||२७|| विद्यया भूतविद्यात्वमत एव निरुच्यते |२८|

🔊 Audio coming soon

Adhikarana 27 (28) · Śloka 29

तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः ||२८|| जपैः सनियमैर्होमैरारभेत चिकित्सितुम् |२९|

🔊 Audio coming soon

Adhikarana 28 (29) · Śloka 30

रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी ||२९|| भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते |३०|

🔊 Audio coming soon

Adhikarana 29 (30) · Śloka 30

वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत् ||३०||

🔊 Audio coming soon

Adhikarana 30 (31) · Śloka 32

हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ||३१|| दिनेषु तेषु देयानि तद्भूतविनिवृत्तये |३२|

🔊 Audio coming soon

Adhikarana 31 (32) · Śloka 33

देवग्रहे देवगृहे हुत्वाऽग्निं प्रा(दा) पयेद्वलिम् ||३२|| कुशस्वस्तिकपूपाज्यच्छत्रपायससम्भृतम् |३३|

🔊 Audio coming soon

Adhikarana 32 (33) · Śloka 33

असुराय यथाकालं विदध्याच्चत्वरादिषु ||३३||

🔊 Audio coming soon

Adhikarana 33 (34) · Śloka 34

गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम् |३४|

🔊 Audio coming soon

Adhikarana 34 (34) · Śloka 35

हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः ||३४|| अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्वलिम् |३५|

🔊 Audio coming soon

Adhikarana 35 (35) · Śloka 35

नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ||३५||

🔊 Audio coming soon

Adhikarana 36 (36) · Śloka 36

तत्रैवोपहरेच्चापि नागाय विविधं बलिम् |३६|

🔊 Audio coming soon

Adhikarana 37 (36) · Śloka 36

चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा ||३६||

🔊 Audio coming soon

Adhikarana 38 (37) · Śloka 37

शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत् |३७|

🔊 Audio coming soon

Adhikarana 39 (37) · Śloka 38

पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ||३७|| न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत् |३८|

🔊 Audio coming soon

Adhikarana 40 (38-39) · Śloka 39

अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा ||३८|| हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत् | एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ||३९||

🔊 Audio coming soon

Adhikarana 41 (40) · Śloka 41

गजाह्वपिप्पलीमूलव्योषामलकसर्षपान् | गोधानकुलमार्जारऋष्यपित्तप्रपेषितान् ||४०|| नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित् |४१|

🔊 Audio coming soon

Adhikarana 42 (41-42) · Śloka 42

खराश्वाश्वतरोलूककरभश्वशृगालजम् ||४१|| पुरीषं गृध्रकाकानां वराहस्य च पेषयेत् | बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ||४२||

🔊 Audio coming soon

Adhikarana 43 (43) · Śloka 44

शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम् | मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत् ||४३|| वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम् |४४|

🔊 Audio coming soon

Adhikarana 44 (44) · Śloka 45

नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ||४४|| हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञजनम् |४५|

🔊 Audio coming soon

Adhikarana 45 (45) · Śloka 46

सैन्धवं कटुकां हिङ्गं वयःस्थां च वचामपि | बस्तमूत्रेण सम्पिष्टं मत्स्यपित्तेन पूर्ववत् ||४५|| ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम् |४६|

🔊 Audio coming soon

Adhikarana 46 (46-53) · Śloka 54

पुराणसर्पिर्लशुनं हिङ्ग सिद्धार्थकं वचा ||४६|| गोलोमी चाजलोमी च भूतकेशी जटा तथा | कुक्कुटा सर्पगन्धा च तथा काणविकाणिके ||४७|| वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका | अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् ||४८|| नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः | सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिगवां तथा ||४९|| श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च | विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः ||५०|| अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च | पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ||५१|| अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम् | विदधीत परीषेके क्वथितं, चूर्णितं तथा ||५२|| उद्धूलने, श्लक्ष्णपिष्टं प्रदेहे चावचारयेत् | एष सर्वविकारांस्तु मानसानपराजितः ||५३|| हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः |५४|

🔊 Audio coming soon

Adhikarana 47 (54) · Śloka 54

न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ||५४||

🔊 Audio coming soon

Adhikarana 48 (55) · Śloka 55

ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत् |५५|

🔊 Audio coming soon

Adhikarana 49 (55) · Śloka 55

वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ||५५||

🔊 Audio coming soon

Adhikarana 50 (56) · Śloka 56

हिताहितीये यच्चोक्तं नित्यमेव समाचरेत् |५६|

🔊 Audio coming soon

Adhikarana 51 (56) · Śloka 56

ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक् ||५६||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 60

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो नाम (प्रथमोऽध्यायः, आदितः) षष्टितमोऽध्यायः ||६०||

🔊 Audio coming soon