Adhikarana 1 (1-2) · Śloka 2
अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने | अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ||३||
🔊 Audio coming soon
Adhikarana 3 (4-6) · Śloka 6
मिथ्यातियोगेन्द्रियार्थकर्मणामभिसेवनात् | विरुद्धमलिनाहारविहारकुपितैर्मलैः ||४|| वेगनिग्रहशीलानामहिताशुचिभोजिनाम् | रजस्तमोभिभूतानां गच्छतां च रजस्वलाम् ||५|| तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम् | चेतस्यभिहते पुंसामपस्मारोऽभिजायते ||६||
🔊 Audio coming soon
Adhikarana 4 (7) · Śloka 7
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता | निद्रानाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ||७||
🔊 Audio coming soon
Adhikarana 5 (8-10) · Śloka 10
सञ्ज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः | रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ||८|| विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः | दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ||९|| अल्पकालान्तरं चापि पुनः सञ्ज्ञां लभेत सः | सोऽपस्मार इति प्रोक्तः... |१०|
🔊 Audio coming soon
Adhikarana 6 (10) · Śloka 11
... स च दृष्टश्चतुर्विधः ||१०|| वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः |११|
🔊 Audio coming soon
Adhikarana 7 (11-12) · Śloka 12
वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ||११|| यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति | ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः ||१२||
🔊 Audio coming soon
Adhikarana 8 (13) · Śloka 14
तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः | यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति ||१३|| ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते |१४|
🔊 Audio coming soon
Adhikarana 9 (14-15) · Śloka 15
शीतहृल्लासनिद्रार्तः पतन् भूमौ वमन् कफम् ||१४|| यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति | ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः ||१५||
🔊 Audio coming soon
Adhikarana 10 (16) · Śloka 16
हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु सङ्ख्यया |१६|
🔊 Audio coming soon
Adhikarana 11 (16) · Śloka 16
प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह ||१६||
🔊 Audio coming soon
Adhikarana 12 (17) · Śloka 17
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे |१७|
🔊 Audio coming soon
Adhikarana 13 (17) · Śloka 18
अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च ||१७|| आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम् |१८|
🔊 Audio coming soon
Adhikarana 14 (18-21) · Śloka 21
क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च ||१८|| आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः | देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् ||१९|| शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः | स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः ||२०|| दर्शयन्ति विकारांस्तु विश्वरूपान्निसर्गतः | अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु ||२१||
🔊 Audio coming soon
Adhikarana 15 (22-23) · Śloka 24
तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते | पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः ||२२|| उपयोगो ग्रहोक्तानां योगानां तु विशेषतः | ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत् | शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् ||२३|| चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम् |२४|
🔊 Audio coming soon
Adhikarana 16 (24) · Śloka 25
गोधानकुलनागानां पृषतर्क्षगवामपि ||२४|| पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम् |२५|
🔊 Audio coming soon
Adhikarana 17 (25) · Śloka 25
तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् ||२५||
🔊 Audio coming soon
Adhikarana 18 (26) · Śloka 26
पूजां रुद्रस्य कुर्वीत तद्गणानां च नित्यशः |२६|
🔊 Audio coming soon
Adhikarana 19 (26) · Śloka 27
वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः ||२६|| कफजं वमनैर्धीमानपस्मारमुपाचरेत् |२७|
🔊 Audio coming soon
Adhikarana 20 (27-28) · Śloka 28
कुलत्थयवकोलानि शणबीजं पलङ्कषाम् ||२७|| जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः | बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् ||२८||
🔊 Audio coming soon
Adhikarana 21 (29) · Śloka 29
काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे | पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् ||२९||
🔊 Audio coming soon
Adhikarana 22 (30) · Śloka 30
कृष्णावचामुस्तकाद्यैर्युक्तमारग्वधादिके | पक्वं च मूत्रवर्गे तु श्लेष्मापस्मारिणे हितम् ||३०||
🔊 Audio coming soon
Adhikarana 23 (31-33) · Śloka 33
सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः | मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः ||३१|| करञ्जबीजशैरीषगिरिकर्णीहुताशनैः | सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ||३२|| कृमिकुष्ठगरश्वासबलासविषमज्वरान् | सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् ||३३||
🔊 Audio coming soon
Adhikarana 24 (34-37) · Śloka 37
दशमूलेन्द्रवृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः | शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ||३४|| शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः | त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः ||३५|| कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः | सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्रसैः ||३६|| साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत् | चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ||३७||
🔊 Audio coming soon
Adhikarana 25 (38-40) · Śloka 41
भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम् | त्र्यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत् ||३८|| ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत् | त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् ||३९|| मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः | शुद्धे कुम्भे निदध्याच्च सम्भारं तं सुरां ततः ||४०|| जातगन्धां जातरसां पाययेदातुरं भिषक् |४१|
🔊 Audio coming soon
Adhikarana 26 (41) · Śloka 41
सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ||४१||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 61
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम (द्वितीयोऽध्यायः, आदितः) एकषष्टितमोऽध्यायः ||६१||
🔊 Audio coming soon