Adhikarana 1 (1-2) · Śloka 2
अथातोऽतीसारप्रतिषेधं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
ज्वरप्रतिषेधानन्तरमग्न्युपघातपूर्वकत्वसामान्यादतीसारप्रतिषेधारम्भः प्राप्तः- अथेत्यादि| अतिसरणम् अतीसारः, तस्य प्रतिषेधः चिकित्सितं; तथा चोक्तं- “अतिरत्यर्थवचने, सरतिर्गतिकर्मणि| तस्मात्तदत्यन्तसरणादतीसार इति स्मृतः” इति||१-२||
Adhikarana 2 (3-5) · Śloka 5
गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः |
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ||३||
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात् |
शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात् ||४||
जलातिरमणैर्वेगविघातैः कृमिदोषतः |
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ||५||
यतो विज्ञातेऽतिसारे चिकित्सितं क्रियते, अतस्तद्विज्ञानार्थं पूर्वं निदानमाह- गुर्वतिस्निग्धेत्यादि| गुरु मात्रागुणविपाकेभ्यः| अतिशब्दः स्निग्धादिभिः स्थूलान्तैः प्रत्येकं सम्बध्यते| स्थूलं स्थूलावयवं पिष्टान्नादि| यद्यपि गुरुग्रहणेनैव स्निग्धस्थूलयोः प्राप्तिः, तथाऽप्यतिशयेनातीसारहेतुत्वापादनार्थं तयोर्ग्रहणम्| विरुद्धं हिताहितीयोक्तम्, अध्यशनम् अजीर्णभोजनम्, अजीर्णानि आमविदग्धादीनि| स्नेहाद्यैरिति स्नेहवमनविरेचननिरूहानुवासनैः| अतियुक्तैः अतियोगयुक्तैः| मिथ्याप्रयुक्तैः असम्यग्युक्तैः, यद्यपि मिथ्याप्रयुक्तैरित्यनेनैवातियोगः प्राप्तस्तथाऽप्यतिशयेनातीसारहेतुत्वापादनार्थमतियोगग्रहणम्| विषात् दूषीविषात्| दुष्टाम्बुमद्यातिपानात् वीर्यविपाकस्पर्शैर्दुष्टमम्बु, मद्यं पुनर्दुष्टं नवं व्यापन्नमकालजं वा, तयोराधिक्येन पानात्| सात्म्यर्तुपर्ययात् सात्म्यविपर्ययात् ऋतुविपर्ययाच्चेत्यर्थः| यद्येवं तर्हि असात्म्यैश्चापि भोजनैरिति निष्फलं; तन्न, विशेषहेतुत्वात्| जलातिरमणैः पानीयातिक्रीडनैः| वेगविघातैः मूत्रादिवेगावरोधैः| कृमिदोषतः कृमिप्रकोपात्| केचिदाचार्या गुर्वतिस्निग्धरूक्षेत्यादिसूत्रात् पूर्वमतीसारस्य प्रागुत्पत्तिं पठन्ति, तद्यथा,- “दीर्घसत्रेण यजतः पृषध्रस्य महात्मनः| आलम्भ्याः पशवः क्षीणास्ततो गावः प्रकल्पिताः|| तासामुपाकृतानां च गवामत्यर्थसेवनात्| असात्म्यत्वादथोष्णत्वाद्गौरवाच्च विशेषतः|| अतिस्नेहाच्च सङ्क्षीणो जाठरोऽग्निस्तदा किल| अतीसारः पुरोत्पन्नो दोषधातुमलाश्रयः|| अथ तेनैव कल्पेन सम्प्रत्येष महागदः”- इति||३-५||
Adhikarana 3 (6) · Śloka 6
संशम्यापान्धातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः |
वृद्धोऽतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः ||६||
लक्षणं तस्य वक्ष्यते इत्यभिधाय सम्प्राप्तिरपि लक्षणं भवत्यतो हेतोर्निरुक्तिद्वारेण सम्प्राप्तिमाह- संशम्यापान्धातुरित्यादि| यस्मादन्तरग्निं संशम्य अपान्धातुरेवम्भूतोऽतीवाधः सरति तस्मादतीसारमाचार्या आहुरिति पिण्डार्थः| संशम्य मन्दीकृत्य| अपान्धातुः कायद्रवः श्लेष्मपित्तरसादिकः| अन्ये तु कफदुष्टं रसं स्वेदं चापान्धातुशब्देनाहुः| वर्चोमिश्रः पुरीषयुक्तः| प्रणुन्नः प्रेरितः| वृद्धो वृद्धिं गतः||६||
Adhikarana 4 (7) · Śloka 8
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः |
केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत् ||७||
दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति |८|
इदानीमतीसाराणां सङ्ख्यामाह- एकैकश इत्यादि| सङ्ख्येयनिर्देशादेव सङ्ख्यायां लब्धायां षष्ठ इति सङ्ख्याकरणं नियमार्थं; तेन द्वन्द्वजा अतीसारा न भवन्ति, व्याधिस्वभावादिति सूचितम्| येऽन्ये तन्त्रान्तरीया वातादिभिर्व्यस्तैः समस्तैश्च चत्वारो, भयशोकाभ्यां च द्वौ, इत्यनया परिपाट्या षट्त्वं मन्यन्ते, तेषामीदृशोऽभिप्रायः- आमजोऽतीसारः सन्निपातजेऽवरुद्धः, ‘आमाजीर्णात् प्रद्रुताः क्षोभयन्तः’ इत्युक्तत्वात्| कैश्चिद्धारीतादिभिर्द्वन्द्वजादिभेदेन बहवोऽतिसाराः पठिताः, ते धन्वन्तरेरनभिमताः, अतस्तन्निषेधार्थमाह- केचित् प्राहुरित्यादि| केचिन्नैकरूपप्रकारमतीसारमाहुः; कुतः? द्वन्द्वजरक्तातीसारादिभेदेन बहुप्रकारत्वात्, काशिराजश्च तमतीसारमेव द्वन्द्वजादिभेदेन बहुप्रकारमिति हेतोर्नैवावोचत्; कोऽसौ हेतुर्यद्वशादनन्तप्रकारं तं नावोचदित्याह- दोषावस्था इत्यादि; दोषावस्था आमपक्वरक्ताद्याः, तस्य अतीसारिणः, काले काले स्वे स्वे काले; तत्र प्रथमा आमावस्था, ततः पक्वावस्था, तथा पित्तातीसारे पित्तलसेवनाद्रक्तातीसारावस्था भवति; एवमेकदोषावस्थेऽप्यतीसारे दोषान्तरानुबन्धेन द्वन्द्वजाभासता ज्ञेया| एतेनैतदुक्तम्- अतीसारः षट्प्रकार एव, याश्च आमपक्वरक्तान्यदोषानुबन्धाद्यास्तत्रानेकप्रकारा अवस्थास्ता दोषाणामेवेत्यर्थः||७||-
Adhikarana 5 (8) · Śloka 9
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः ||८||
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि |९|
इदानीमतीसारस्य पूर्वरूपमाह- हृन्नाभिपायूदरेत्यादि| हृत् हृदयं, पायु गुदं, तोदशब्दो हृदादिभिः कुक्षिपर्यन्तैः प्रत्येकं सम्बध्यते| यद्यप्युदरग्रहणेनैव नाभिकुक्षी अपि प्राप्येते, तथाऽपि नाभिकुक्ष्यभिधानं विशेषेण तत्र तोदो भवतीति दर्शनार्थम्| पुरःसराणि पूर्वरूपाणीत्यर्थः||८||-
Adhikarana 6 (9) · Śloka 10
शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः ||९||
वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन |१०|
इदानीं वातातीसारस्य लक्षणमाह- शूलाविष्ट इत्यादि| शूलाविष्टः शूलार्दितः| सक्तमूत्रो विबद्धमूत्रः| अन्त्रकूजी गुडगुडशब्दयुक्तः| स्रस्तापानः अधश्च्युतगुदः| सन्नकट्यूरुजङ्घः शिथिलकट्यूरुजङ्घः| अल्पमल्पमिति चान्यातिसारापेक्षया| सानिलं सशब्दवातयुतम्| श्यावशब्दोऽत्र व्रणास्रावोक्तारुणभस्मकपोतास्थिवर्णानुपलक्षयति||९||-
Adhikarana 7 (10) · Śloka 11
दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् ||१०||
पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः |११|
पित्तातीसारलक्षणमाह- दुर्गन्धीत्यादि| एवम्भूतः पुरुष एवम्भूतं वर्चः पित्तादतीसार्यत इति सम्बन्धः| वेगवत् अतिशयेन सवेगम्| मांसतोयप्रख्यं मांसधावनोदकसदृशम्| भिन्नं स्फुटितम्, अतितीक्ष्णम् अतिशयेन तीक्ष्णं, तच्च मक्षिकाणामपसर्पणेन ज्ञेयम्| दाहो गुदे जठरे वा, पाको गुदे एव ज्ञेयः||१०||-
Adhikarana 8 (11) · Śloka 12
तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः ||११||
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा |१२|
श्लेष्मातीसारलक्षणमाह- तन्द्रानिद्रेत्यादि| तन्द्रा शारीरोक्तलक्षणनिद्राभेदः, उत्क्लेशः थूत्करणं, सादी अङ्गग्लानियुक्तः| सृष्टविट्क इत्यादि| सृष्टविट्कोऽपि पुरुषो भूयः पुनर्वेगाशङ्की भवतीत्यर्थः| सान्द्रं घनम्| निःस्वनं निःशब्दम्| हृष्टरोमा उद्धर्षितरोमा||११||-
Adhikarana 9 (12) · Śloka 13
तन्द्रायुक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः ||१२||
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः |१३|
इदानीं सन्निपातातीसारलक्षणमाह- तन्द्रायुक्त इत्यादि| नैकवर्णं किं तर्हि सर्वदोषवर्णम्| सर्वलिङ्गोपपत्तिः सर्वलिङ्गप्राप्तिः||१२||-
Adhikarana 10 (13-14) · Śloka 15
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पावेगः पक्तिमाविध्य(श्य)जन्तोः ||१३||
कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् |
वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात् ||१४||
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः |१५|
शोकजलक्षणमाह- तैस्तैर्भावैरित्यादि| एवम्भूतस्य पुरुषस्य बाष्पावेगः कोष्ठं गत्वा, पक्तिमाविध्य, रक्तमस्य क्षोभयतीति सम्बन्धः| तैस्तैर्भावैः बन्धुवियोगादिभिः, शोचतः शोकं कुर्वतः, बाष्पावेगः शोकोत्थतेज उद्रेकः, पक्तिमग्निं पक्तिहेतुत्वात्, आविध्य आकुलीकृत्य, क्षोभयति| तच्चेति रक्तं, अधस्तादिति पदं क्षोभयतीत्यनेन सम्बन्धनीयं, अन्ये सार्यते तेन इत्यत्र सम्बध्नन्ति| काकणन्ती गुञ्जा| सगन्धं निर्गन्धं वेति सपुरीषापुरीषत्वादित्यर्थः| केचिदत्र अल्पाशनस्येत्यस्यानन्तरं शोकोत्पन्न इत्यतः प्राक् अन्यथा पठन्ति ‘शुष्कं भुक्तं तेज ऊष्मगृहीतं कोष्ठं गत्वा रक्तमत्यर्थमुष्णम्| गुञ्जाप्रख्यं प्रेरयेच्चाप्यधस्ताद्वर्चोयुक्तं निष्पुरीषं सगन्धम्|| निर्गन्धं वा सार्यते सोऽतिसारः’ इति| व्याख्यानयन्ति च,- शुष्कं शुष्कतां गतं, अल्पत्वात्; भुक्तं भोजनं, तेजः शोकोत्थं तेजः, ऊष्मगृहीतम् ऊष्मणा गृहीतम्||१३-१४||-
Adhikarana 11 (15-16) · Śloka 16
आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः सम्प्रदुष्टाः सभक्तम् ||१५||
नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति ||१६||
आमातीसारलक्षणमाह- आमाजीर्णेत्यादि| दोषाः सम्प्रदुष्टाः कोष्ठं क्षोभयन्तः सन्तो नानावर्णं कृच्छ्रात् सरुक् एकशो न, अपितु बहुशः सारयन्तीति पिण्डार्थः| आमाजीर्णोपद्रुताः आमाख्येनाजीर्णेनोदीरिताः, क्षोभयन्तः चालयन्तः, ‘मलं’ इति शेषः| सभक्तं ससिक्थम्| अत्र पुनः षष्ठसङ्ख्यावचनं नियमार्थं, तेन भयस्नेहाजीर्णविसूचिकार्शोऽजीर्णादिनिमित्ता अतीसारा न पृथग्गणनीयाः, यतस्ते दोषजेष्वेवान्तर्भूताः| एनम् आमजम्| केचित् ‘सम्प्रदुष्टाः सभक्तम्’ इत्यत्र ‘धातुसङ्घान् मलांश्च’ इति पठन्ति; धातुसङ्घान् रक्तादीन्, मलान् पुरीषादीन्, ‘दूषयित्वा’ इति शेषः, इति च व्याख्यानयन्ति| यद्यपि सर्वातीसाराणामादावामातीसारत्वं, तथाऽपि प्रभूतामजनितत्वादामजस्य पृथगुपादानं, एवं सान्निपातिकत्वेऽप्यस्य पृथगुपादानं समाधेयम्||१५-१६||
Adhikarana 12 (17) · Śloka 17
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति |
पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसञ्ज्ञकम् ||१७||
इदानीमामातीसारस्य लक्षणमाह- संसृष्टमेभिर्दोषैरित्यादि| संसृष्टमेभिर्दोषैः पूर्वनिर्दिष्टैर्वातादिलिङ्गैर्गुरुतरैर्व्याप्तमित्यर्थः| अवसीदति ब्रुडति| विच्छिन्नम् अल्पाल्पप्रवर्तकं; ‘विच्छिन्नम्’ इत्यत्र ‘पिच्छिलम्’ इति केचित् पठन्ति||१७||
Adhikarana 13 (18) · Śloka 18
एतान्येव तु लिङ्गानि विपरीतानि यस्य तु |
लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत् ||१८||
आमलक्षणमभिधाय पक्वलक्षणमाह- एतान्येवेत्यादि| एतान्येव लिङ्गानि अनन्तरोक्तापक्वलिङ्गानि| चकारात् कफदुष्टिरहितं पुरीषं समुच्चीयते| ‘मनुष्यस्य’ इत्यत्र ‘पुरीषस्य’ इति केचित् पठन्ति; व्याख्यानयन्ति च- यद्यपि न्यस्तमप्स्ववसीदतीत्यस्य वैपरीत्येनैव पुरीषलाघवं प्राप्तं, तथाऽपि पुनर्लाघवोपादानं कफदुष्टिरहितत्वबोधनाय| ननु, कफसंसृष्टः पक्वोऽपि मलो निमज्जति, तत् कथं पक्वकफातीसारज्ञानम्? उच्यते- तदितरलक्षणैरेव||१८||
Adhikarana 14 (19-21) · Śloka 21
सर्पिर्मेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्ररूपं स्रवेद्यत् |
मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम् ||१९||
राजीमद्वा चन्द्रकैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम् |
हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः ||२०||
असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम् |
गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत् ||२१||
इदानीमतीसाराणां परिहारार्थमसाध्यलक्षणमाह- सर्पिरित्यादि| वेसवारं विशिष्टसंस्कारसंस्कृतं मांसं खानिस्कापरपर्यायं, तेन मिश्रमम्बु वेसवाराम्बु; रूपशब्दः सर्पिरादिभिः प्रत्येकं सम्बध्यते| मस्तुलुङ्गोऽर्धविलीनचतुःस्नेहाकारो मस्तकमज्जा तत्सदृशम्| विस्रम् आमगन्धि, शटितमृतकगन्धतुल्यगन्धमित्यर्थः| अञ्जनाभं सौवीराञ्जनाभम्| राजीमत् नीलपीतादिरेखायुक्तम्| चन्द्रकैः मयूरपिच्छाभैः, सन्ततं व्याप्तम्| यत् प्रतीपं यथास्वदोषलिङ्गेभ्यो विपरीतलिङ्गम्, अन्ये तु अरिष्टलिङ्गमाहुः| उपसर्गा उपद्रवाः, ते च तन्त्रान्तरे पठिता ज्वरशोफादयः| उक्तं च,- “शोफं शूलं ज्वरं तृष्णां श्वासं कासमरोचकम्| छर्दिं हिक्कां च मूर्च्छां च दृष्ट्वाऽतीसारिणं त्यजेत्” इति| प्रभूता बहवः| एते उपद्रवाः क्षीणमतीसारिणं हन्युरिति योजनीयम्| असंवृतगुदम् असङ्कुचितगुदमित्यर्थः| क्षीणम् उत्साहोपचयबलरहितं, दुरात्मानम् अजितेन्द्रियम्| उपद्रुतम् अवारणीयोक्तैरुपद्रवैर्जुष्टम्| गुदे पक्वे गतोष्माणं गुदे पक्वे सति यस्य ऊष्मा बहिर्निर्गतो विनष्टस्तादृशमतिसारिणं त्यजेत्| केचित् ‘दुरात्मानं’ इत्यत्र ‘सदाऽऽध्मातं’ इति पठन्ति, सदाऽऽध्मानयुक्तमिति च व्याख्यानयन्ति||१९-२१||
Adhikarana 15 (22-23) · Śloka 23
शरीरिणामतीसारः सम्भूतो येन केनचित् |
दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते ||२२||
स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः |
विसूचिकानिमित्तस्तु चान्योऽजीर्णनिमित्तजः |
विषार्शःकृमिसम्भूतो यथास्वं दोषलक्षणः ||२३||
इदानीं षट्सङ्ख्याधिक्यशङ्कानिषेधार्थमितराणामतीसाराणां दोषजेष्वेवान्तर्भावार्थमाह - शरीरिणामित्यादि| येन केनचित् ‘हेतुना’ इति शेषः| यस्माद्बहुनिमित्तजोऽप्यतीसारो दोषलिङ्गानि नातिवर्तते नातिक्रामति तस्माद्यथास्वदोषलक्षणादतीसारो ज्ञेय इत्यर्थः| एतेन न षट्सङ्ख्याधिक्यम्| केचित् ‘शरीरिणामतीसारः’ इत्यादिपाठमामजातिसारलक्षणादनन्तरं पठन्ति, युक्तश्चायं तथैव पाठः; परं जेज्जटाचार्यवचनानुरोधेनात्र पठितः; जेज्जटाचार्यं विहायान्ये टीकाकारा अस्यानन्तरं पाठं न पठन्ति, क्षोदक्षमत्वाभावात्||२२-२३||
Adhikarana 16 (24) · Śloka 24
आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः |
अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः ||२४||
इदानीमामपक्वलक्षणज्ञाने भिषजो यत्नातिशयं प्रतिपादयन्नाह- आमपक्वक्रममित्यादि| पक्वामलक्षणैः पूर्वोक्तैरेव||२४||
Adhikarana 17 (25) · Śloka 25
तत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम् |
ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः ||२५||
इदानीं चिकित्सावसरः- तत्रादौ लङ्घनमित्यादि| तत्रेति वाक्योपक्रमे| लङ्घनम् उपवासः| आदौ प्रथमतः| यस्मात् सर्व एवातीसारा आदावामत्वं भजन्तेऽत आमशमनार्थमादौ लङ्घनं, ततो लङ्घनादनन्तरम्| आदिशब्दात् यूषरसादयो गृह्यन्ते| एतद्यवागूयूषरसादिकं यद्यस्य हितं भवति तत्तदवस्थां बुद्ध्वा दद्यात्| केचित् ‘तत्रादौ लङ्घनं कार्यं’ इत्यस्य स्थाने ‘हितं लङ्घनमेवादौ’ इत्यादिपाठं पठन्ति, स च मया न दृष्ट इति न दर्शितः||२५||
Adhikarana 18 (26) · Śloka 26
अथवा वामयित्वाऽऽमे शूलाध्माननिपीडितम् |
पिप्पलीसैन्धवाम्भोभिर्लङ्घनाद्यैरुपाचरेत् ||२६||
अवस्थाविशेषेण पक्षान्तरमाह- अथवा वामयित्वेत्यादि| आमेऽतीसारे शूलादिपीडितं पुरुषं पिप्पलीसैन्धवाम्भोभिर्वामयित्वा लङ्घनाद्यैरुपाचरेदिति सम्बन्धः| लङ्घनाद्यैरिति लङ्घनस्वेदोष्णोदकपानादिभिः| ननु, अग्निमान्द्यादतीसारप्रवृत्तिः, तत् कथमग्निमान्द्यजनकस्य वमनस्य तत्रोपदेशः? सत्यम्, अतिप्रवृत्तदोषप्रतिबन्धार्थं च वमनं प्रयुज्यते||२६||
Adhikarana 19 (27) · Śloka 27
कार्यं वमनस्यान्ते प्रद्रवं लघुभोजनम् |
खडयूषयवागूषु पिप्पल्याद्यं च योजयेत् ||२७||
वमनादनन्तरं यत् कार्यं तदाह- कार्यमित्यादि| प्रद्रवं प्रकृष्टद्रवं यवागूयूषादि| ननु, भोजेनातीसारे द्रवस्य निषेधो दर्शितस्तत् कथमत्र द्रवाणां यवाग्वादीनां प्रयोगः? सत्यं, भोजे केवलस्यैव द्रवस्य निषेधो न संस्कृतस्येत्यदोषः| अन्ये तु प्रगतद्रवं प्रद्रवं कथयन्ति| तन्न, अतीसारे यवागूपदेशात्| खडयूषयवागूषु पिप्पल्याद्यं च योजयेदिति ष(ख)डयूषः कपित्थदाडिममरिचादिभिः सुपक्वं तक्रम्, अन्ये तु षडा दाडिमतक्रशाकादिसंस्कृता द्रवाः, यूषा मुद्गमसूरादिकृताः||२७||
Adhikarana 20 (28) · Śloka 28
अनेन विधिना चामं यस्य वै नोपशाम्यति |
हरिद्रादिं वचादिं वा पिबेत् प्रातः स मानवः ||२८||
षडयूषादिभिरपच्यमानेऽतीसारे पाचनार्थमाह- अनेन विधिना चाममित्यादि| आमम् आमातीसारः| प्रातःशब्दो निरन्नताद्योतकः||२८||
Adhikarana 21 (29-30) · Śloka 30
आमातीसारिणां कार्यं नादौ सङ्ग्रहणं नृणाम् |
तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान् ||२९||
प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान् |
शोफगुल्मग्रहण्यर्शःशूलालसकहृद्ग्रहान् ||३०||
आमातिसारे आदौ सङ्ग्रहाद्दोषमाह- आमातीसारिणामित्यादि| तेषाम् आमातिसारिणाम्| विबद्धा विशेषेण बद्धा सङ्गृहीता इत्यर्थः| अन्ये आमातीसारिणामित्यादिपाठस्य स्थाने ‘दोषस्तम्भनमादौ तु न कर्तव्यं विजानता| तस्यादौ बध्यमानस्तु बली कुर्यादुपद्रवान्’ इति पठन्ति| अपरे तु अन्यथा पाठं पठन्ति, स चाप्रसिद्ध इति न दर्शितः||२९-३०||
Adhikarana 22 (31) · Śloka 31
सशूलं बहुशः कृच्छ्राद्विबद्धं योऽतिसार्यते |
दोषान् सन्निचितान् तस्य पथ्याभिः सम्प्रवर्तयेत् ||३१||
इदानीमावस्थिकं क्रममाह- सशूलमित्यादि| विबद्धं विबद्धमिव अल्पाल्पप्रवृत्तिः| सन्निचितान् सञ्चयगतान्, प्रवृद्धानित्यर्थः| सम्प्रवर्तयेदित्यत्र बहुश इति सम्बन्धनीयम्| यस्मात् सन्निचिताः शूलकारिणो दोषा विरेचनेनाधःपतन्ति तस्मादतीसारेऽपि विरेचनं प्रयुज्यते||३१||
Adhikarana 23 (32) · Śloka 32
योऽतिद्रवं प्रभूतं च पूरीषमतिसार्यते |
तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम् ||३२||
अपरमावस्थिकमाह- योऽतिद्रवमित्यादि| यस्माद्वमनमूर्ध्वमार्गहरणद्वारेणोदकधातोरुच्छेदकारी तस्मात् प्रयुज्यते||३२||
Adhikarana 24 (33) · Śloka 33
स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते |
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ||३३||
स्तोकमित्यादि| वाशब्दोऽभयापिप्पलीकल्कैरित्यत्र सम्बन्धनीयः| यद्यपि ‘सशूलं बहुश’ इत्यनेनैव स्तोकं विबद्धमित्यस्यार्थः प्राप्तः, तथाऽपि पिप्पलीसंयोगस्याधिकस्य दर्शनार्थं पुनरभिधानम्||३३||
Adhikarana 25 (34) · Śloka 34
आमे च लङ्घनं शस्तमादौ पाचनमेव वा |३४|
तत्र लङ्घनं परं यदि तस्यैव विकल्पकार्थमाह- आमे च लङ्घनमित्यादि| आमातीसारे लङ्घनं कार्यं परं यदि लङ्घने क्षमं शरीरमन्नानभिलाषश्च भवति, अतो विपर्यये आदौ पाचनमिति|३४|-
Adhikarana 26 (34) · Śloka 34
योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः ||३४||
योगाश्चात्रेत्यादि| योगाः पाचनयोगाः||३४||
Adhikarana 27 (35-46) · Śloka 46
कलिङ्गातिविषाहिङ्गुसौवर्चलवचाभयाः |
देवदारुवचामुस्तानागरातिविषाभयाः ||३५||
अभया धान्यकं मुस्तं पिप्पली नागरं वचा |
नागरं धान्यकं मुस्तं वालकं बिल्वमेव च ||३६||
मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषाऽभया |
अभयाऽतिविषा हिङ्गु वचा सौवर्चलं तथा ||३७||
चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी |
पाठा वत्सकबीजानि हरीतक्यो महौषधम् ||३८||
मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली |
सिद्धार्थका भद्रदारु शताह्वा कटुरोहिणी ||३९||
एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः |
मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च ||४०||
वृक्षादनी वीरतरुर्बृहत्यौ द्वे सहे तथा |
अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी ||४१||
पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम् |
पटोलं(ली) दीप्यको बिल्वं हरिद्रे देवदारु च ||४२||
विडङ्गमभया पाठा शृङ्गवेरं घनं वचा |
वचा वत्सकबीजानि सैन्धवं कटुरोहिणी ||४३||
हिङ्गुर्वत्सकबीजानि वचा बिल्वशलाटु च |
नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम् ||४४||
महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः |
प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे ||४५||
धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा |
निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान् ||४६||
तानेव पाचनयोगानाह- कलिङ्गेत्यादि| कलिङ्गा इन्द्रयवाः| प्रतिविषा श्यामकन्दाऽतिविषाभेदः| महौषधं शुण्ठी| मूर्वा चोरस्नायुः, निर्दहनी चित्रकः, त्र्यूषणं त्रिकटुकम्| सिद्धार्थकाः श्वेतसर्षपाः, कटुरोहिणी कटुका| सावरकं रोध्रं, हरिद्रे हरिद्राद्वयं, कौटजा यवा इन्द्रयवाः| मेषशृङ्गी कर्कटशृङ्गी, त्वक् त्वचा, कृमिघ्नं विडङ्गं, वृक्षकः कुटजः, वृक्षादनी बन्दाकः, वीरतरुः शरः, बृहत्यौ क्षुद्रफला स्थूलफला च, द्वे सहे मुद्गपर्णी माषपर्णी च| अरलुः श्योनाकभेदः तस्य त्वक्, अन्ये श्योनाकमरलुशब्देनाहुः त्वक्शब्दोऽर्थवशात् तिन्दुकी चेत्यादिष्वपि सम्बन्धनीयः| तेजोवती काकमर्दनिका| दीप्यको यवानी, अन्ये अजमोदामाहुः| शृङ्गवेरं शुण्ठी, बिल्वशलाटु कोमलं बिल्वं, वात्सकं फलम् इन्द्रयवाः| श्लोकार्धविहिता अर्धश्लोकैः कृता इत्यर्थः| धान्याम्लादीनां मध्यादन्यतमेन कलिङ्गकादिचूर्णं पिबेत्| एतेषां निष्क्वाथान् साधु साधितान् मात्रया साधितान् पिबेदिति| एतद्वृद्धवैद्या नेच्छन्ति, बहुद्रव्यसाधिताम्बुसंस्कृताहारस्यारुचिकरत्वात्||३५-४६||
Adhikarana 28 (47-59) · Śloka 59
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि |
क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च ||४७||
निखिलेनोपदिष्टोऽयं विधिरामोपशान्तये |
हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम् ||४८||
पिबेत् सुखाम्बुना जन्तुरामातीसारपीडितः |
पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम् ||४९||
मुस्तं कुष्ठं विडङ्गं च पिबेद्वाऽपि सुखाम्बुना |
शृङ्गवेरं गुडूचीं च पिबेदुष्णेन वारिणा ||५०||
लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी |
चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च ||५१||
हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः |
हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ ||५२||
वचा गुडूचीकाण्डानि योगोऽयं परमो मतः |
एते सुखाम्बुना योगा देयाः पञ्च सतां मताः ||५३||
निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः |
स्तोकं स्तोकं रुजामच्च सशूलं योऽतिसार्यते ||५४||
सक्षारलवणैर्युक्तं मन्दाग्निः स पिबेद्घृतम् |
क्षीरनागरचाङ्गेरीकोलदध्यम्लसाधितम् ||५५||
सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये |
दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः ||५६||
सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः |
निखिलो विधिरुक्तोऽयं वातश्लेष्मोपशान्तये ||५७||
तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक् |
यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते ||५८||
बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च |
शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः ||५९||
सशूलेऽतिसारे योगानाह- पयसीत्यादि||४७-५९||
Adhikarana 29 (60) · Śloka 60
मुद्गादिषु च यूषाः स्युर्द्रव्यैरेतैः सुसंस्कृताः |६०|
यवागूविषये यूषमाह- मुद्गादिषु चेत्यादि| मुद्गादिष्वित्यादिशब्दात् वनमुद्गकलायमसूरादिवर्गग्रहणम्| द्रव्यैरेतैरिति बलादिभिः| क्वाथकल्पना अत्रापि पूर्ववत्|६०|-
Adhikarana 30 (60-62) · Śloka 62
मृदुभिर्दीपनैस्तिक्तैर्द्रव्यैः स्यादामपाचनम् ||६०||
हरिद्रातिविषापाठावत्सबीजरसाञ्जनम् |
रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च ||६१||
पाठा गुडूची भूनिम्बस्तथैव कटुरोहिणी |
एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः ||६२||
पैत्तिके आमातीसारे परं पाचनमाह- मृदुभिर्दीपनैरित्यादि| एवंविशिष्टैस्तिक्तैर्दुरालभागुडूच्यतिविषाप्रभृतिभिरामपाचनं पित्तातीसारे बोद्धव्यम्| ननु, तिक्तानि शीतवीर्याणि कथमामातीसारे पाचनानि? उच्यते, ज्वरातीसारादौ तिक्तान्यपि पाचनान्येवाभिमतानि; उक्तं च,- ‘स्वेदनं लङ्घनं कालो यवाग्वस्तिक्तको रसः| पाचनान्यविपक्वानाम्’- इति| अन्ये तु तिक्तकानि अर्कागरुप्रभृतीन्युष्णवीर्याणि पाचनीयानि; नान्यानि, तेषां शीतवीर्यत्वात्| अतीसारे अर्कादीनामयौगिकत्वात्तान्येव तिक्तद्रव्याण्याह- हरिद्रातिविषापाठेत्यादि| हरिद्रादिभिः पित्तपाचनाः क्वाथाः श्लोकार्धनिर्दिष्टाः स्युरिति सम्बन्धः||६०-६२||
Adhikarana 31 (63-65) · Śloka 66
मुस्तं कुटजबीजानि भूनिम्बं सरसाञ्जनम् |
दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम् ||६३||
चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम् |
मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम् ||६४||
पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम् |
फलत्वचं वत्सकस्य शृङ्गवेरं घनं वचा ||६५||
षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः |६६|
अपरान् योगान् सिद्धतमान् सामपित्तपाचनार्थमाह- मुस्तमित्यादि| भूनिम्बं किरातं, सरसाञ्जनं रसाञ्जनसहितम्| दार्वी दारुहरिद्रा, बिल्वं बिल्वफलम्| मृणालं पद्मनालं, चन्दनं रक्तचन्दनं, रोध्रं शावरं, नागरं शुण्ठी| घनं मुस्तम्| अभिहिता योगाः ‘श्लोकार्धेन’ इति शेषः| पूर्वेभ्यो विंशतियोगेभ्यो हरिद्रातिविषेत्यादियोगास्तथा मुस्तं कुटजबीजानीत्यादयो योगाः सिद्धतमाः, अतः पृथक् पठिताः| वातकफोत्थयोरतीसारयोः पाचनेन वातकफपाकात् पित्तानुबन्धः स्यात्, अतस्तत्संशमनार्थं मुस्तं कुटजबीजानीत्यादयो योगा निर्दिष्टा इति केचिद्व्याख्यानयन्ति| अत एव पक्वातीसारचिकित्सितप्रकरणात् प्राक् पित्तारब्धपक्वातीसारस्य चिकित्सा तैरभिहिता||६३-६५||
Adhikarana 32 (66) · Śloka 66
बिल्वशक्रयवाम्भोदबालकातिविषाकृतः |
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ||६६||
अतः परमपरं सिद्धतमं योगमाह- बिल्वेत्यादि| बिल्वं बिल्वफलं कोमलं, शक्रयवा इन्द्रयवाः, अम्भोदो मुस्ता, अतिविषाकृत इति कृतग्रहणं शीतकषायादिनिवृत्त्यर्थम्| अयं योगश्चिरप्रवृत्तेऽपि सामे सशोणिते दृश्यते||६६||
Adhikarana 33 (67) · Śloka 67
मधुकोत्पलबिल्वाब्दह्रीबेरोशीरनागरैः |
कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः ||६७||
मधुकोत्पलबिल्वाब्देत्यादि| मधुकं यष्टीमधु, उत्पलं नीलोत्पलम्| अब्दं मुस्तं, ह्रीबेरं वालकं; मधुकादिद्रव्यैः कृतः क्वाथः सुशीतो मधुयुतः पित्तातीसारनाशनो भवतीति सम्बन्धः||६७||
Adhikarana 34 (68) · Śloka 68
यदा पक्वोऽप्यतीसारः सरत्येव मुहुर्मुहुः |
ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम् ||६८||
पक्वातीसारस्य सरणे किं कार्यमित्याह- यदा पक्वोऽप्यतीसार इत्यादि| ग्रहण्या मार्दवात् अग्निस्तम्भात्| संस्तम्भनं सङ्ग्रहणम्||६८||
Adhikarana 35 (69-71) · Śloka 71
समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम् |
शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचौ ||६९||
आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः |
मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च ||७०||
चत्वार एते योगाः स्युः पक्वातीसारनाशनाः |
उक्ता य उपयोज्यास्ते सक्षौद्रास्तण्डुलाम्बुना ||७१||
तानेव स्तम्भनयोगानाह- समङ्गा धातकीपुष्पमित्यादि| समङ्गा लज्जालुका, अन्ये वराहक्रान्तामाहुः| शाल्मलीवेष्टकः शाल्मलीनिर्यासकः, अन्ये वेष्टकं वृन्तमाहुः; वृक्षः कुटजः| आम्रास्थिमध्यम् आम्रफलमज्जा| शृङ्गवेरं शुण्ठी, दीर्घवृन्तत्वक् अरलुत्वक्, अन्ये श्योनाकत्वगित्याहुः| चत्वार एते योगाः श्लोकार्धोक्ताः| अन्ये तु- ‘समङ्गाधातकीपुष्पमञ्जिष्ठारोध्रमुस्तकम्| शाल्मलीवेष्टकं वाऽपि विदध्याद्योगमुत्तमम्’ इत्येकेनैव शाल्मलीवेष्टकेनापरं पञ्चमं योगं मन्यन्ते; तत एव च ‘एते हि पञ्चयोगाः स्युः पक्वातीसारनाशनाः’ इति पठन्ति| सर्वेऽपि पक्वातीसारनाशनाः स्युः| अन्ये तु पित्तातीसारनाशना इति व्याख्यानयन्ति| कथमेते योगा उपयोज्या इत्याह- उक्ता इत्यादि| ये योगाः समङ्गादिका उक्तास्ते सक्षौद्रास्तण्डुलाम्बुना उपयोज्या इत्यर्थः||६९-७१||
Adhikarana 36 (72) · Śloka 72
मौस्तं कषायमेकं वा पेयं मधुसमायुतम् |
लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् ||७२||
मौस्तं कषायमेकमित्यादि| कषायमेकं वेति कथमेतदुच्यते मधुपानीययोरपि विद्यमानत्वात्? नैवं, तयोः संस्कारत्वेनाप्रधानत्वात्| अयं योगः पक्वपित्तरक्तातीसारे विशेषेण बोद्धव्यः; सामान्ये पक्वातीसारे केचिन्मन्यन्ते, तथा चोक्तं ‘पक्वातीसारिणे देयो मुस्ताक्वाथः समाक्षिकः’ इति| रोध्राद्यम्बष्ठादिप्रियङ्ग्वादीन् गणानेवमिति क्वाथान् कृत्वा मधुप्रक्षेपेण सहोपयोजयेदित्यर्थः||७२||
Adhikarana 37 (73) · Śloka 73
पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च |
पिबेत्तण्डुलतोयेन सक्षौद्रमगदङ्करम् ||७३||
पद्मां समङ्गामित्यादि| पद्मा भार्गी, समङ्गा लज्जालुका, बिल्वजम्बूशलाटु चेति बिल्वफलं कोमलं, जम्बूफलं च कोमलम्| अगदङ्करमत्र अतीसारहरमित्यर्थः||७३||
Adhikarana 38 (74) · Śloka 75
कच्छुरामूलकल्कं वाऽप्युदुम्बरफलोपमम् |
पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम् ||७४||
पक्वातिसारं योगोऽयं जयेत्पीतः सशोणितम् |७५|
कच्छुरामूलकल्कं वेत्यादि| कच्छुरा कङ्कतिका, तन्मूलकल्कमुदुम्बरफलोपमं कर्षप्रमाणं सक्षौद्रं तण्डुलाम्बुना पिबेदिति सम्बध्यते| पयस्या चन्दनमित्यादि| पयस्या अर्कपुष्पी, अन्ये दुग्धिकामाहुः, क्षीरकाकोलीमपरे; चन्दनं रक्तचन्दनं, पद्मा भार्गी, सिता शर्करा, अब्जकेशरं पद्मकेशरम्| सशोणितमिति पित्तातीसारमेव नतु रक्तातीसारं, तच्चिकित्साया वक्ष्यमाणत्वात्| ‘पक्वातीसारं योगोऽयं’ इत्यत्रान्ये ‘पित्तातीसारं योगोऽयं’ इति पठन्ति| पीत इति क्वथितकषायविधिनेत्यर्थः||७४||-
Adhikarana 39 (75) · Śloka 76
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ||७५||
नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम् |७६|
इदानीं घृतपानार्हमतीसारिणमाह- निरामरूपमित्यादि| पक्वातीसारप्रस्तावे निरामरूपमिति प्राप्तमतस्तदभिधानमतिशयेन निरामरूपप्रापणार्थम्| अवेक्ष्याग्निं ‘दीप्तं’ इति शेषः| सक्षारं यवक्षारसहितं, स्वर्जिकाक्षारसहितमित्यन्ये| निरामरूपमित्याद्यारभ्य वातचिकित्सितं शूलस्यान्यथाऽसम्भूतेरित्यन्ये वदन्ति||७५||-
Adhikarana 40 (76) · Śloka 77
बलाबृहत्यंशुमतीकच्छुरामूलसाधितम् ||७६||
मधूक्षितं समधुकं पिबेच्छूलैरभिद्रुतः |७७|
बलाबृहत्यंशुमतीत्यादि| ‘घृतं’ इत्यनुवर्तते| मधूक्षितम् ईषन्मात्रमधुयुक्तमित्यर्थः| समधुकं यष्टीमधुसहितं, वक्ष्यमाणयोगे यष्टीमधुकस्य प्रक्षेपदर्शनादत्रापि प्रक्षेपः| शूलैरभिद्रुतः शूलैरार्तः||७६||-
Adhikarana 41 (77-78) · Śloka 79
दार्वीबिल्वकणाद्राक्षाकटुकेन्द्रयवैर्घृतम् ||७७||
साधितं हन्त्यतीसारं वातपित्तकफात्मकम् |
दध्ना चाम्लेन सम्पक्वं सव्योषाजाजिचित्रकम् ||७८||
सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः |७९|
दार्वीबिल्वकणाद्राक्षेत्यादि| दार्वी दारुहरिद्रा, कणा पिप्पली| अतीसारं वातपित्तकफात्मकं व्यस्तैः समस्तैश्च दोषैरारब्धम्||७७-७८||-
Adhikarana 42 (79) · Śloka 80
पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः ||७९||
सिताजमोदकट्वङ्गमधुकैरवचूर्णितम् |८०|
पयो घृतमित्यादि| क्षीरघृतमधूनि समांशानि शर्कराजमोदारलुयष्टीमधुकैश्चूर्णितैरवचूर्ण्य शूलैरभिद्रुतः पिबेदिति सम्बन्धः||७९||-
Adhikarana 43 (80) · Śloka 81
अवेदनं सुसम्पक्वं दीप्ताग्नेः सुचिरोत्थितम् ||८०||
नानावर्णमतीसारं पुटपाकैरुपाचरेत् |८१|
पुटपाकस्य विषयमाह- अवेदनं सुसम्पक्वमित्यादि| नानावर्णमित्यनेन सान्निपातिकोऽतीसारः पुटपाकस्य विषय इति दर्शितम्||८०||-
Adhikarana 44 (81-83) · Śloka 84
त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम् ||८१||
काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण सन्दृढम् |
मृदाऽवलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ||८२||
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः |
शीतं मधुयुतं कृत्वा पाययेतोदरामये ||८३||
जीवन्तीमेषशृङ्ग्यादिष्वेवं द्रव्येषु साधयेत् |८४|
पुटपाकविधिमाह- त्वक्पिण्डमित्यादि| दीर्घवृन्तस्य अरलुकस्य| अवकूलयेत् पचेत्| उदरामयोऽत्र अतीसारः| अरलुकस्य त्वचं पद्मकेसरं च समभागं गृहीत्वा सम्पिष्ट्वा तत्पिण्डं पद्मकाश्मरीपत्रपुटके निक्षिप्य सूत्रेणावेष्ट्य मृत्तिकया निर्धूमखदिराङ्गारेषु तावत् पचेद् यावद्बाह्ये रक्तवर्णता भवति, ततोऽङ्गारेभ्य आकृष्य तत्पिण्डं निष्पीड्य स्वरसं गृहीत्वा शीतीभूतं च कर्षप्रमितमधुसहितमतीसारे क्वाथमात्रया पाययेत्| अनेन विधिना सर्वपुटपाककल्पना| ये च सुकृतमिति कुशवेष्टितमिति व्याख्यानयन्ति, तन्मते ‘सूत्रेणावेष्ट्य’ इति पाठो नास्ति| जीवन्तीमेषशृङ्ग्यादिष्वेवमित्यादि| जीवन्ती उत्तरापथे महाकन्दा कर्कोटिकासदृशपत्रा, लाटविषये तु मूलिनी महाप्रताना| आदिशब्दात् पाठाशटीप्रभृतीनां ग्रहणम्| एवमिति यथा अरलुत्वक्पुटपाकविधिरेवमत्रापीत्यर्थः| अन्ये त्वेवं पठन्ति- ‘जीवन्तीमेषशृङ्गेषु चैवं वृन्तेषु कारयेत्’ इति||८१-८३||-
Adhikarana 45 (84-85) · Śloka 86
तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत् ||८४||
न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत् |
रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ||८५||
शर्करोपहितं शीतं पाययेतोदरामये |८६|
तित्तिरिं लुञ्चितमित्यादि| तित्तिरिं कृष्णतित्तिरिं; निष्कृष्टान्त्रमित्युपलक्षणं, तेन तुण्डपादवर्जितमिति च लभ्यते| पूर्ववच्चावकूलयेदिति कृष्णतित्तिरिं पादतुण्डान्त्रवर्जितं कृत्वा न्यग्रोधादिवल्कलकल्केन कोष्ठं पूरयित्वा काश्मरीपद्मपत्रपुटके निक्षिप्य कुशैरावेष्ट्य मृत्तिकया लिप्त्वा खदिराङ्गारेषु पचेत्; स्वरसप्रमाणं मधुशर्कराप्रक्षेपप्रमाणं पूर्ववदिति| श्रीब्रह्मदेवस्तु व्याख्यानयति- न्यग्रोधादीत्यादिशब्दात् पलाशनन्दीवृक्षादीनां ग्रहणं, कुतः? तेषां सङ्ग्राहकत्वात्; नतु सामस्त्येन न्यग्रोधादिगणस्य; कुतः? स्तम्भकत्वात्; तथा चोक्तं- “सङ्ग्राहि स्तम्भनाद्भिन्नं यथा तदभिदध्महे| आग्नेयगुणभूयिष्ठं तोयांशं परिशोषयेत्|| सङ्गृह्णाति मलं तत्स्याद्ग्राहि शुण्ठ्यादयो यथा| समीरगुणभूयिष्ठं शीतत्वाद्यन्नभस्वतः|| विधाय वृद्धिं स्तभ्नाति स्तम्भनं तद्यथा वटः” इति| अयं च वातपित्तातीसारे कर्तव्यः||८४-८५||-
Adhikarana 46 (86-87) · Śloka 88
लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान् ||८६||
तण्डुलोदकसम्पिष्टान् दीर्घवृन्तत्वगन्वितान् |
पूर्ववत् कूलितात्तस्माद्रसमादाय शीतलम् ||८७||
मध्वाक्तं पाययेच्चैतत् कफपित्तोदरामये |८८|
लोध्रचन्दनयष्ट्याह्वेत्यादि| लोध्रादिनीलोत्पलान्तानरलुत्वक्सहितान् तण्डुलोदकसम्पिष्टान् पूर्ववत्कूलितान् पुटपाकविधिना पक्वान्, अस्मात् पिष्टस्विन्नरोध्रादिकल्कात् रसं गृहीत्वा शीतं मधुयुतं पाययेदिति सम्बन्धः||८६-८७||-
Adhikarana 47 (88) · Śloka 89
एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ||८८||
पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान् |८९|
एवं प्ररोहैरित्यादि| एवं पूर्वोक्तप्रकारेण, वटादीनां प्ररोहैः शाखाधोभागनिःसृतजटाभिरित्यर्थः| आदिशब्दात् प्लक्षगर्दभाण्डादिप्ररोहाणां ग्रहणम्| विधानवत् यथायोगमवस्थापेक्षमित्यर्थः| जाङ्गलोपहितानिति अत्र जाङ्गलशब्देन लावककपिञ्जलादीनां ग्रहणं, लघुत्वात्| वटाद्यवरोहजाङ्गलमांसपुटपाककल्पना पूर्ववत्||८८||-
Adhikarana 48 (89-90) · Śloka 90
बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् ||८९||
कौटजं फाणितं वाऽपि हन्त्यतीसारमोजसा |
अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् ||९०||
बहुश्लेष्म सरक्तमित्यादि| फाणितमिव फाणितं, स्त्यानमध्वाकृति| ओजसा शक्त्या आत्मप्रभावेण| अत्र कल्पना- बृहत्फलशुक्लकुसुमस्निग्धपत्रस्य पुन्नामधेयस्य कुटजस्य वल्कं गृहीत्वा षोडशगुणे अष्टगुणे चतुर्गुणे वा जले क्वाथयित्वा अर्धावशिष्टं क्वाथमादाय वस्त्रगालितं कृत्वा पुनस्तावत् पचेत् यावत् पक्वफाणिताकृतिः स्यात्, ततस्तन्मध्येऽम्बष्ठादिमधुपिप्पल्यादिचूर्णं चतुर्थांशं निक्षिप्य अवतार्यमिति| अन्ये तु कुटजत्वक्स्वरसं गृहीत्वा तावत् क्वाथयेद्यावत् फाणिताकृतिर्भवतीति व्याख्यानयन्ति||८९-९०||
Adhikarana 49 (91) · Śloka 91
पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः |
सनागरैः पिबेत् पेयां साधितामुदरामयी ||९१||
पृश्निपर्णीत्यादि| बिल्वं बिल्वफलं कोमलं, उत्पलं नीलोत्पलं, सनागरैः सशुण्ठीकैः| उदरामयी अतीसारी| पेयार्थं क्वाथकल्पना पूर्ववत्||९१||
Adhikarana 50 (92) · Śloka 93
अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान् |
आवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्रवाम् ||९२||
एषा सर्वानतीसारान् हन्ति पक्वानसंशयम् |९३|
अरलुत्वगित्यादि| दाडिमाङ्कुरान् दाडिमकोमलपत्राणि| अरलुत्वगादीन् पिष्ट्वा दधनि निक्षिप्य यवागूं साधयेदित्यर्थः| अत्र पिष्ट्वेति यदुक्तं तदरलुत्वगादिक्वाथेन यवागूसाधननिषेधार्थम्| साधयेद्द्रवामिति यथा नातिसान्द्रा भवतीत्यर्थः| एषा यवागूः| पक्वातिसारप्रस्तावात् पक्वाभिधानस्य प्राप्तस्य पुनर्ग्रहणेन एषा यवागूः पक्वातीसारे अतिशयेन हितेति ज्ञापयति||९२||-
Adhikarana 51 (93-94) · Śloka 94
रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ||९३||
धातकी नागरं चैव पाययेत्तण्डुलाम्बुना |
सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः ||९४||
रसाञ्जनमित्यादि| एते योगाः| सशूलं रक्तजं ‘अतीसारं’ इति शेषः| अन्ये तु ‘हन्ति योगोऽयं मधुसंयुतः’ इति पठित्वा एक एव योगोऽयमिति मन्यन्ते||९३-९४||
Adhikarana 52 (95) · Śloka 96
मधुकं बिल्वपेशी च शर्करामधुसंयुता |
अतीसारं निहन्युश्च शालिषष्टिकयोः कणाः ||९५||
तद्वल्लीढं मधुयुतं बदरीमूलमेव तु |९६|
मधुकमित्यादि| शालिषष्टिकयोः कणाः इति अत्रापि शर्करामधुसंयुता इति सम्बन्धनीयम्| अयमपरो योगो मधुकं बिल्वपेशी चेत्यादियोगस्याग्रे कैश्चित् पठ्यते| तद्यथा- ‘योगान् साङ्ग्राहिकांश्चान्यान् पिबेत् सक्षौद्रशर्करान्| न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान्’- इति||९५||-
Adhikarana 53 (96) · Śloka 97
बदर्यर्जुनजम्ब्वाम्रशल्लकीवेतसत्वचः ||९६||
शर्कराक्षौद्रसंयुक्ताः पीता घ्नन्त्युदरामयम् |९७|
बदर्यर्जुनेत्यादि| अर्जुनः ककुभः; बदर्यादीनां त्वचः शर्कराक्षौद्रयुताः पीता उदरामयमतीसारं घ्नन्तीत्यर्थः||९६||-
Adhikarana 54 (97) · Śloka 98
एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ||९७||
पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान् |९८|
एतैरेव यवागूंश्चेत्यादि| एतैरेव बदर्यादिभिः| षडा दाडिमगोरसादिना घनपल्लवफलादिभिः कृताः| ‘रसाञ्जनं सातिविषं’ इत्यादिकं ‘द्रव्येष्वेतेषु बुद्धिमान्’ इत्यन्तं रक्तातीसारचिकित्सितं कार्तिकाचार्यो न पठति, रक्तातीसारस्यानङ्गीकृतत्वात्; पित्तातीसारावस्थायां च यो रक्तातीसारस्तस्य चिकित्सा ‘पित्तातिसारी यो मर्त्य’ इत्यादिना वक्ष्यमाणाऽस्ति; श्रीजेज्जटाचार्येणैष पाठो विभृश्यैव सर्वोऽपि पठितस्तन्मतानुसारिणा श्रीब्रह्मदेवेनापि||९७||-
Adhikarana 55 (98) · Śloka 99
कृतं शाल्मलिवृन्तेषु कषायं हिमसञ्ज्ञितम् ||९८||
निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम् |९९|
कृतं शाल्मलिवृन्तेषु कषायमित्यादि| कषायं हिमसञ्ज्ञितमिति शीतकषायमित्यर्थः; नतु क्वथितं, हिमशब्दोपादानात्| शीतकषायविधिमाह- द्रव्यचूर्णमुपादाय अहोरात्रं तुल्ये जले स्थापयेत्, ततो मृदितं वस्त्रपूतं पलचतुष्टयप्रमाणं मधु यष्ठीमधु च कर्षप्रमाणं प्रक्षिप्य पेयमित्यर्थः||९८||-
Adhikarana 56 (99-102) · Śloka 102
विबद्धवातविट् शूलपरीतः सप्रवाहिकः ||९९||
सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः |
यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् ||१००||
चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिः शृतम् |
दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् ||१०१||
हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये |
पिच्छिलस्वरसे सिद्धं हितं च घृतमुच्यते ||१०२||
चूर्णादीनभिधाय क्षीरपानस्य विषयमाह- विबद्धवातविट् शूलपरीत इत्यादि| विबद्धः अवरुद्धो वातोविट् च यस्य सः, तथा शूलपरीतः, तथा प्रवाहिकायुक्तः, तथा रक्तपित्तान्वित इति विषयचतुष्टयमस्य क्षीरस्य| पयः पिबेदित्युक्तं तत् कीदृशं पेयमित्याह- अपां भागैरित्यादि; अपां भागैरित्युपादानात् केवलजलेन क्षीरसाधनमत्रोक्तम्| दोषशेषहारित्वं क्षीरस्य प्रभावात्| तत् क्षीरम्| हि यस्मादर्थे| स्नेहविरकोऽत्र विरेचनीयद्रव्यसंस्कृतेन स्नेहेन स्वभावेन विरेचनस्नेहेन वा| बस्तयः पिच्छिलाश्च ये बस्तयो बस्तिविकारोक्तवक्ष्यमाणाश्च| पिच्छिला अरलुशाल्मलीप्रभृतयः, तेषां स्वरसे सिद्धं घृतं बस्तौ हितमित्यर्थः||९९-१०२||
Adhikarana 57 (103) · Śloka 104
शकृता यस्तु संसृष्टमतिसार्येत शोणितम् |
प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः ||१०३||
क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्रशर्करम् |१०४|
अवस्थावशेन चिकित्सितमाह- शकृतेत्यादि| शकृता पुरीषेण संसृष्टं सरुक् सशूलं, सपरिकर्तिकः बस्तिगुदमेढ्रेषु परिकृन्तनमिव वातवेदना परिकर्तिका तत्सहित इत्यर्थः| क्षीरिशुङ्गः वटाश्वत्थादीनां नूतनपत्राङ्कुराः| घृतपाकप्रमाणं स्नेहाध्यायोक्तं, क्षौद्रशर्कराप्रक्षेपः प्रत्येकं कर्षप्रमाणः||१०३||-
Adhikarana 58 (104-105) · Śloka 105
दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर्घृतम् ||१०४||
संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम् |
त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् ||१०५||
तस्यामेवावस्थायामपरमपि घृतमाह- दार्वीत्वगित्यादि| दार्वीत्वक् दारुहरिद्रात्वक्| अन्ये दार्वी दारुहारिद्रा, त्वक् त्वचमाहुः| भद्ररोहिणी कटुका| दार्वीत्वगादिभिर्भद्ररोहिणीपर्यन्तैः स्नेहचतुर्थांशैरुदकचतुर्गुणं घृतं पक्वं पेयायवागूप्रभृतिभिर्युक्तं पीतं त्रिदोषमप्यतीसारं हन्तीति सम्बन्धः||१०४-१०५||
Adhikarana 59 (106) · Śloka 106
गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः |
ज्वरे दाहे सविड्बन्धे मारुताद्रक्तपित्तवत् ||१०६||
प्रागामावस्थायां वमनमभिधायेदानीं पक्वावस्थायामपि वमनमाह- गौरवे वमनमित्यादि| गौरवे जठरगौरवे, रक्तपित्तवदिति यथा रक्तपित्तेऽधोगते वमनं तथा अतीसारेऽपि गौरवादियुक्ते यस्य पुरुषस्य प्रबलः कफो भवेत्, मारुतात् विड्बन्धे च सति वमनं पथ्यमिति सम्बन्धः| ननु वमनं कथमतीसारघ्नम्? उच्यते- द्रवश्लेष्मणः क्षयाद्विपरीतमार्गचिकित्साप्रभावाद्वा||१०६||
Adhikarana 60 (107) · Śloka 107
सम्पक्वे बहुदोषे च विबन्धे मूत्रशोधनैः |
कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम् ||१०७||
आस्थापनानुवासनविषयमाह- सम्पक्वेत्यादि| सम्पक्वे ‘अतीसारे’ इति शेषः| विबन्धे अधोवातादीनामप्रवृत्तौ| मूत्रशोधनैः तृणपञ्चमूलीपाषाणभेदगोक्षुरप्रभृतिभिः| आस्थापनं निरूहः||१०७||
Adhikarana 61 (108) · Śloka 108
प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे |
मधुराम्लैः शृतं तैलं सर्पिर्वाऽप्यनुवासनम् ||१०८||
अनुवासनस्यापरं विषयमाह- प्रवाहणे इत्यादि| गुदभ्रंशे गुदनिःसरणे, मधुरैः काकोल्यादिभिः, अम्लैः बीजपूरककपित्थचुक्रिकावृक्षाम्लकाञ्जिकादिभिः||१०८||
Adhikarana 62 (109) · Śloka 109
गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः |
तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः ||१०९||
गुदपाक इत्यादि| यस्य अतीसारिणः, अहिताशिनः अपथ्यभोजिनः| तत्र गुदपाके पित्तहराः सेकाः क्षीरेक्षुरसशर्करोदकमधुरौषधकषायैः कृताः, तत्सिद्धाः पित्तहरैः सिद्धा अनुवासनाः स्नेहाः| यद्यपि गुदपाकः पित्तेनैव स्यात्तथाऽपि ‘गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत्’ इति यो गुदपाकोऽभिहितस्तत्परिहारार्थमहिताशित्वेन प्रकुपितपित्तजनितगुदपाकचिकित्सार्थं च ‘गुदपाकस्तु पित्तेन’ इत्युक्तम्||१०९||
Adhikarana 63 (110) · Śloka 110
दधिमण्डसुराबिल्वसिद्धं तैलं समारुते |
भोजने च हितं क्षीरं कच्छुरामूलसाधितम् ||११०||
तैलानुवासनविषयमाह- दधीत्यादि| दधिमण्डो दधिमस्तु| दधिमण्डादिभिः सिद्धं तैलमनुवासने देयमित्यर्थः| समारुते ‘अतीसारे’ इति शेषः| कच्छुरा कङ्कतिका, ‘शूकशिम्बा’ इत्येके, ‘दुरालभा’ इत्यन्ये||११०||
Adhikarana 64 (111) · Śloka 111
अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते |
यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः ||१११||
पिच्छाबस्तेर्विषयमाह- अल्पाल्पमित्यादि| बहुशो बहून् वारान्, सरुक् सवेदनं, य उपवेश्यते अतिसार्यते, तस्य तदा पिच्छाबस्तिर्हित इति सम्बन्धः| पिच्छाबस्तिः पिच्छिलद्रव्यैः कृतः; स च ‘बदर्यैरावतीशेलुशाल्मली’ (चि. ३८) इत्यादिना निरूहक्रमोक्तः; जेज्जटाचार्यस्तु ‘अत्रैवाध्याये वक्ष्यमाणानां ‘कपित्थशाल्मलीफञ्जी’ इत्यादिद्रव्याणां कल्कपिण्डं पुटपाकविधिना संस्वेद्य निष्पीड्य रसमानीय तेन रसेन सक्षीरेण पिच्छाबस्तिर्देयः, अथवा कपित्थादिद्रव्यकल्कं क्षीरेणालोड्य पिच्छाबस्तिर्देयः’ इति मन्यते||१११||
Adhikarana 65 (112) · Śloka 112
प्रायेण गुददौर्बल्यं दीर्घकालातिसारिणाम् |
भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम् ||११२||
दीर्घकालातिसारिणां गुददौर्बल्ये चिकित्सितमाह- प्रायेण गुददौर्बल्यमित्यादि| तैलावचारणं पिचुसेकानुवासनैः; सदाहे गुददौर्बल्ये पुनर्घृतमवचारणीयम्||११२||
Adhikarana 66 (113) · Śloka 113
कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः |
यूथिका कच्छुरा शेलुः शणश्चुच्चूश्च दाधिकाः ||११३||
अतीसारशूले चिकित्सितमाह- कपित्थशाल्मलीत्यादि| फञ्जी पाठाभेदः, अन्ये भार्गीमाहुः| कच्छुरा कङ्कतिका, अन्ये दुरालभामाहुः| शेलुः श्लेष्मातकः| दाधिका दध्ना संस्कृताः| हितशब्दोऽत्र वक्ष्यमाणः सम्बध्यते, स चार्थाद्बहुवचनान्तो द्रष्टव्यः| कपित्थादयश्चुच्चूपर्यन्ता दध्ना संस्कृता हिता इत्यर्थः||११३||
Adhikarana 67 (114) · Śloka 115
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका |
बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम् ||११४||
एष आहारसंयोगे हितः सर्वातिसारिणाम् |११५|
पेयाद्युपयोगद्रव्याण्याह- शालपर्णीत्यादि| एष शालपर्ण्यादिः| आहारसंयोगे पेयादिसंस्कारे; संस्कारश्च शालपर्ण्यादिद्रव्यपलचतुष्टयं जलाढके साधयित्वा अर्धशृतेन तेन पेयादि साधनीयं; वृद्धवैद्यास्तु बहुद्रव्यसाधिताम्बुसंस्कृताहारस्यारुचिकरत्वादाढकेऽम्भसि पलमात्रं द्रव्यं साधयन्ति| भक्तादिसाधने द्रवप्रमाणं तन्त्रान्तराज्ज्ञेयं; तथा हि- “भक्तं पञ्चगुणे तोये यवागूं षड्गुणे पचेत्| चतुर्दशगुणे पेयां विलेपीं च चतुर्गुणे”- इति| एष शालपर्ण्यादिर्दशाङ्गत्वेन प्रसिद्धः||११४||-
Adhikarana 68 (115) · Śloka 115
तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा ||११५||
तिलकल्क इत्यादि| मौद्गो मुद्गस्य कल्कः||११५||
Adhikarana 69 (116) · Śloka 117
पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते |
पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् ||११६||
ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम् |११७|
इदानीं पित्तातीसारस्यैवावस्थाविशेषं रक्तातीसारमाह- पित्तातिसारी यो मर्त्य इत्यादि| पित्तलान्येवेति अन्नपानादीनि| दारुणं कष्टसाध्यम्||११६||-
Adhikarana 70 (117-118) · Śloka 119
यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ||११७||
स पल्लवैर्वटादीनां ससर्पिः साधितं पयः |
पिबेत् सशर्कराक्षौद्रमथवाऽप्यभिमथ्य तत् ||११८||
नवनीतमथो लिह्यात्तक्रं चानुपिबेत्ततः |११९|
पित्तातीसारस्यैवावस्थान्तरमभिधाय चिकित्सितमाह- यो रक्तमित्यादि| सः पित्तातीसारयुक्तः पुरुषः| वटादीनां न्यग्रोधादीनाम्; अत्र न्यग्रोधादिपल्लवानां पलार्धं, क्षीरपलचतुष्टयं, चतुर्गुणं जलं च दत्त्वा साधयित्वा क्षीरावशेषं ग्राह्यं, तच्च घृतकर्षैकयुतं मध्याग्निः पिबेत्| अभिमथ्य विलोड्य| तत्क्षीरं तदुत्पन्नं नवनीतं च शर्करामधुयुतं लिह्यादित्यर्थः| अन्ये तु वटादिपल्लवशृतं क्षीरं मधुघृतशर्करादियुक्तं पिबेदिति मन्यन्ते; तत एव च नवनीतं केवलं लिह्यात्, ततस्तक्रं पिबेदिति वदन्ति||११७-११८||-
Adhikarana 71 (119) · Śloka 120
प्रियालशाल्मलीप्लक्षशल्लकीतिनिशत्वचः ||११९||
क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः |१२०|
प्रियालशाल्मलीप्लक्षेत्यादि| प्रियालादीनां त्वचः पृथक् पृथक् पेयाः सामस्त्येन वा| प्रियालः चारः, प्लक्षः पर्कटी, तिनिशः स्यन्दनः| क्षीरे अजाक्षीरे, तन्त्रान्तरोक्तत्वात्| विमृदिता आलोडिताः| सक्षौद्रा मधुसहिताः||११९||-
Adhikarana 72 (120) · Śloka 121
मधुकं शर्करां लोध्रं पयस्यामथ सारिवाम् ||१२०||
पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम् |१२१|
मधुकं शर्करां लोध्रमित्यादि| पयस्या अर्कपुष्पी||१२०||-
Adhikarana 73 (121) · Śloka 122
मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् ||१२१||
पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये |१२२|
मञ्जिष्ठां सारिवामित्यादि| पद्मकं प्रसिद्धं, कुमुदं श्वेतम्, उत्पलं नीलं, पद्मा भार्गी| मञ्जिष्ठादीनि कल्कीकृतानि चूर्णितानि वा छागदुग्धेन पिबेदित्यर्थः||१२१||-
Adhikarana 74 (122-124) · Śloka 124
शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः ||१२२||
तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च |
तिला मोचरसो लोध्रं तथैव मधुकोत्पलम् ||१२३||
कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च |
आजेन पयसा पेयाः सरक्ते मधुसंयुताः ||१२४||
शर्करोत्पललोध्राणीत्यादि| समङ्गा वराहक्रान्ता| तिलाः कृष्णाः कृष्णतिलाः, सयष्ट्याह्वा यष्टीमधुसहिताः| मोचरसः शाल्मलीनिर्यासः| कच्छुरा कङ्कतिका| सरक्ते पुरीषे ‘स्रवति ’ इति शेषः| शर्करेत्यादिचत्वारो योगाः श्लोकार्धिका मधुसहिताः सरक्ते पुरीषे छागदुग्धेन पेया इत्यर्थः||१२२-१२४||
Adhikarana 75 (125) · Śloka 125
द्रवे सरक्ते स्रवति बालबिल्वं सफाणितम् |
सक्षौद्रतैलं प्रागेव लिह्यादाशु हितं हि तत् ||१२५||
सरक्ते अद्रवे च पुरीषे सरति चिकित्सितमभिधाय सरक्तद्रवातीसारिणश्चिकित्सितमाह- द्रवे सरक्ते इत्यादि| द्रवे द्रवमले, ‘उदकधातौ’ इत्यन्ये| फाणितं काकवी, सक्षौद्रतैलं मधुतैलसहितं, प्रागेवेति भोजनात् पूर्वं हितम्| ‘आशु हितम्’ इत्यत्र ‘हितकरम्’ इत्यन्ये पठन्ति||१२५||
Adhikarana 76 (126) · Śloka 126
कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु |
सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् ||१२६||
कोशकारमित्यादि| कोशकार इक्षुभेदः | अत्र विधिः- निस्त्वचं कोशकारस्य सूक्ष्मखण्डं घृते भृष्ट्वा पेषयित्वा लाजशर्कराचूर्णमिश्रं मधुना लिहन् रक्तपित्तोत्थं सशूलमुदरामयमतीसारं हन्तीत्यर्थः||१२६||
Adhikarana 77 (127) · Śloka 127
बिल्वमध्यं समधुकं शर्कराक्षौद्रसंयुतम् |
तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् ||१२७||
बिल्वमध्यमित्यादि| अवस्थावशेन पित्ताद्रक्ताद्वा उत्थितं, न तु रक्तपित्ताभ्यामेवोत्थितं, एवं सत्यतीसाराणां सप्तत्वं स्यात्||१२७||
Adhikarana 78 (128) · Śloka 128
योगान् साङ्ग्राहिकांश्चान्यान् पिबेत्सक्षौद्रशर्करान् |
न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् ||१२८||
अत्र साङ्ग्राहिकानिति सामान्योक्तावपि पित्तातिसारोक्तानिति प्रत्येतव्यम्, औपयिकत्वात्| ननु, न्यग्रोधादिषु पुटपाका दर्शिताः, तत्कथं पुनरभिधीयन्ते? उच्यते- न्यग्रोधादिषु कुर्याच्चेति यथेरितान् पुटपाकान् कुर्यादिति योजनात्||१२८||
Adhikarana 79 (129) · Śloka 129
गुदपाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः |१२९|
गुदपाके चेत्यादि| ये उक्ताः सेकादयस्ते पित्तरक्तोत्थितेऽतीसारे हिताः|१२९|-
Adhikarana 80 (129) · Śloka 129
रुजायां चाप्रशाम्यन्त्यां पिच्छाबस्तिर्हितो भवेत् ||१२९||
अवस्थावशेन पुनः पिच्छाबस्तिमाह- रुजायामित्यादि||१२९||
Adhikarana 81 (130-131) · Śloka 131
सक्तविड् दोषबहुलं दीप्ताग्निर्योऽतिसार्यते |
विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत् ||१३०||
अथवैरण्डसिद्धेन पयसा केवलेन वा |
यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः ||१३१||
इदानीमवस्थापेक्षमतीसारे विरेचनमाह- सक्तविडित्यादि| सक्तविट् विबद्धपुरीषः| दोषबहुलमिति दोषशब्दोऽत्र पुरीषवचनः, तेन पुरीषबहुलमित्यर्थः| तम् अतीसारिणं, विडङ्गादिकषायैर्विरेचयेदित्यर्थः| अथवेत्यादि| एरण्डमूलसिद्धेन केवलेन क्षीरेण विरेचयेदिति सम्बन्धः| विरेचितस्य किं कार्यमित्याह- यवागूरित्यादि| वातघ्नैर्दीपनैरिति शालिपर्ण्यादिभिः| ननु, ‘स्तोकं स्तोकं विबद्धम्’ इत्यादावसम्यक्प्रवर्तमाने पुरीषे विरेचनमुक्तम्, अत्रातिप्रवर्तमाने कथं विरेकः? उच्यते- अत्रातीसारातिप्रवर्तकस्य प्रकुपितपित्तस्य विरेचनेन निराकरणादित्यदोषः||१३०-१३१||
Adhikarana 82 (132) · Śloka 132
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत् |
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् ||१३२||
अतोऽतीसारस्यैवावस्थान्तरान्वितस्य निःसारकसञ्ज्ञकस्य लक्षणं चिकित्सितं चाह- दीप्ताग्निर्निष्पुरीषो य इत्यादि| निष्पुरीषः क्षीणवर्चाः, फेनिलं शकृत् फेनवत् पुरीषमित्यर्थः| फाणितं काकवी, तैलं तिलतैलं, पयो दुग्धं, फाणितमित्यादिकं घृतान्तमेकीकृत्य पिबेदित्यर्थः||१३२||
Adhikarana 83 (133) · Śloka 133
स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च |१३३|
अत्रैव द्वितीयं योगमाह- स्विन्नानीत्यादि|१३३|-
Adhikarana 84 (133) · Śloka 133
स्विन्नानि पिष्टवद्वाऽपि समं बिल्वशलाटुभिः ||१३३||
तृतीययोगमाह- स्विन्नानीत्यादि| स्विन्नानि ‘बदराणि’ इति शेषः| पिष्टवदिति पिष्टस्वेदनविधिनेत्यर्थः| समं बिल्वशलाटुभिः बालबिल्वफलैः सहेत्यर्थः| एतेन बिल्वशलाटुभिः सह बदराणि पिष्टस्वेदनविधिना स्विन्नानि शीतीभूतानि गुडतैलाभ्यामश्नीयादित्यर्थः| अन्ये त्वन्यथा पठन्ति- ‘सुस्विन्नान् पिष्टवद्वाऽपि माषान् बिल्वशलाटुभिः’ इति| माषानिति क्षीणपुरीषस्य पुरीषजननार्थं माषोपदेशः||१३३||
Adhikarana 85 (134) · Śloka 134
दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम् |१३४|
चतुर्थं योगमाह- दध्नोपयुज्येत्यादि| कुल्माषान् आस्तरस्विन्नान् यवपिष्टमयान्| श्वेतां सुरां पैष्टीम्| कुल्माषान् दध्ना सहोपयुज्य पैष्टीं सुरां पिबेदित्यर्थः|१३४|-
Adhikarana 86 (134) · Śloka 135
शशमांसं सरुधिरं समङ्गां सघृतं दधि ||१३४||
खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षये |१३५|
पञ्चमं योगमाह- शशमांसमित्यादि| समङ्गा लज्जालुका, दधिसंयुतं कल्कं शशरुधिरेणैव प्राश्नीयान्मलसङ्क्षये इति| अन्ये ‘समङ्गां’ इत्यत्र ‘समांशं’ इति पठन्ति, व्याख्यानयन्ति च- शशमांसरुधिरेण समांशं तुल्यं कृत्वा सघृतं सदधि विपाच्य खादेदित्यर्थः| सेवेत मृद्वन्नमिति मृद्वन्नमत्र पुरीषजनकं माषादिकं संस्कृतम्| शकृतः क्षये पुरीषक्षये||१३४||-
Adhikarana 87 (135) · Śloka 136
संस्कृतो यमके माषयवकोलरसः शुभः ||१३५||
भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः |१३६|
वर्चःक्षये यूषप्रयोगमाह- संस्कृत इत्यादि| यमके घृततैले, रसोऽत्र क्वाथः; माषादियूषो घृततैलसंस्कृतो दधिदाडिमाभ्यां सह साधितश्च क्षीणपुरीषस्य भोजनार्थं प्रदातव्य इत्यर्थः||१३५||-
Adhikarana 88 (136) · Śloka 137
विडं बिल्वशलाटूनि नागरं चाम्लपेषितम् ||१३६||
दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः |१३७|
क्षीणवर्चसः अपरं योगमाह- विडमित्यादि| विडं लवणभेदः, दध्नः सरो दध्न उपरितनो भागः| यमके घृततैले||१३६||-
Adhikarana 89 (137) · Śloka 137
सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते |
स पिबेद्दीपनैर्युक्तं सर्पिः सङ्ग्राहकैः सह ||१३७||
विशिष्टावस्थाहितमष्टमयोगमाह- सशूलमित्यादि| दीपनैः चित्रकादिभिः, सङ्ग्राहकैः धातकीबिल्वशलाटुप्रभृतिभिः| यः क्षीणपुरीषो दीप्ताग्निरतिसार्यते स चित्रकादिधातक्यादिद्रव्यचूर्णयुक्तमपक्वमेव सर्पिः पिबेदित्यर्थः||१३७||
Adhikarana 90 (138) · Śloka 138
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य |
प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ||१३८||
इदानीं प्रवाहिकासञ्ज्ञमतीसारभेदमाह- वायुरित्यादि| निचितं सञ्चयप्राप्तं, बलासं श्लेष्माणं, नुदति प्रेरयति, अधस्ताद् गुदमार्गे, प्रवाहमाणस्य प्रेर्यमाणस्य, मुहुः वारंवारं, मलाक्तम् ईषत्पुरीषमिश्रं, ‘श्लेष्माणं’ इति शेषः; एतेनैतदुक्तं भवति- यत्र रोगे वातप्रेरितं कफं पुरुषः प्रेरयति, तां प्रवाहिकां कफं प्रवाहमाणस्य प्रेर्यमाणस्य तज्ज्ञाः प्रवदन्तीति सम्बन्धः| बलासमित्युपलक्षणं, तेन पित्तं रक्तं वा निचितमिति ज्ञेयम्||१३८||
Adhikarana 91 (139) · Śloka 140
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च |
सशोणिता शोणितसम्भवा तु ताः स्नेहरूक्षप्रभवा मतास्तु ||१३९||
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च |१४०|
वातादिभेदेन प्रवाहिकामाह- प्रवाहिका वातकृतेत्यादि| स्नेहरूक्षप्रभवा इति स्नेहरूक्षाभ्यां प्रभवो यासां तास्तथा; एतच्च प्रायिकम्| ताः प्रवाहिकाः| तासामित्यादि| तासां प्रवाहिकाणां; यद्यपि वातादिभेदेन प्रागेव प्रवाहिकाणां लक्षणमुक्तं तथाऽप्यतीसारवदादिशेच्च लिङ्गमित्यभिधानमधिकलिङ्गज्ञापनार्थम्| क्रमं क्रियाक्रमम्| आमविपक्वताम् आमतां विपक्वतां चेत्यर्थः||१३९||-
Adhikarana 92 (140) · Śloka 141
न शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा ||१४०||
तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च |१४१|
लङ्घनाद्युपक्रमैर्या प्रवाहिका न प्रशाम्यति तां कथं चिकित्सेदित्याह- न शान्तिमित्यादि| उदीर्णा उत्कटा या प्रवाहिका लङ्घनैः पाचनयोगैर्वा शान्तिं न याति तां क्षीरादिकं हन्तीति सम्बन्धः||१४०||-
Adhikarana 93 (141-142) · Śloka 143
आर्द्रैः कुशैः सम्परिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम् ||१४१||
पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत |
क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वाऽपि ||१४२||
बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे |१४३|
पिच्छाबस्तिमाह- आर्द्रैः कुशैरित्यादि| बस्तिं पिच्छाबस्तिम्; अस्य प्रमाणं निरूहोक्तविधिनोक्तं (चि. ३८) ज्ञातव्यम्| अप्रमत्तः सावधानः||१४१-१४२||-
Adhikarana 94 (143) · Śloka 144
द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण ||१४३||
क्षीरेण चास्थापनमग्र्यमुक्तं... |१४४|
अवस्थाविशेषे आस्थापनोपदेशमाह- द्विपञ्चमूलीत्यादि| द्विपञ्चमूलीक्वथितेन दशमूलीक्वथितेन| आस्थापनं निरूहः| अग्र्यं श्रेष्ठम्| क्षीरपाककल्पेन दशमूलीसाधितेन क्षीरेण मधुसहितेनास्थापनं श्रेष्ठमुक्तं, प्रवाहमाणस्य शूले भवतीति सम्बन्धः||१४३||-
Adhikarana 95 (144) · Śloka 144
...तैलेन युञ्ज्यादनुवासनं च |१४४|
अनुवासनमाह- तैलेनेत्यादि| द्विपञ्चमूलीसाधितक्षीरसिद्धेन तैलेनानुवासनं युञ्ज्यादित्यर्थः; न पुनरपक्वतैलेन, तस्य व्यापत्करत्वात्|१४४|-
Adhikarana 96 (144) · Śloka 144
वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने ||१४४||
अन्नसंस्कारार्थं पानार्थं च तैलमाह- वातघ्नवर्गे इत्यादि| वातघ्नवर्गे विदारिगन्धादौ, लवणेषु सैन्धवसौवर्चलादिषु; अत्र विदारिगन्धादिक्वाथेन सैन्धवाद्यावापेन सिद्धं तैलमन्नसंस्कारे पाने च हितमित्यर्थः| अन्ये तु ‘लवणेषु च’ इत्यत्र ‘मधुरेषु’ इति पठन्ति, एवमन्यत्र दृष्टत्वात्||१४४||
Adhikarana 97 (145) · Śloka 145
लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम् |१४५|
लेहप्रयोगमाह- लोध्रं विडमित्यादि| कटुत्रिकाढ्यमिति त्रिकटुप्रधानं स्पष्टत्रिकटुकमित्यर्थः|१४५|-
Adhikarana 98 (145-149) · Śloka 149
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चा(स्सा)रकपीडितस्तु ||१४५||
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन |
शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः ||१४६||
वातघ्नसाङ्ग्राहिकदीपनीयैः कृतान् षडांश्चाप्युपभोजयेच्च |
खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् ||१४७||
एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत् |
मेध्य(द्य)स्य सिद्धं त्वथ वाऽपि रक्तं बस्तस्य दध्ना घृततैलयुक्तम् ||१४८||
खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः |
माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान् ||१४९||
लोध्रादिकं लीढ्वा भोजनमाह- दध्ना ससारेणेत्यादि| दध्ना ससारेण उपरितनस्निग्धभागसराख्यसहितेन, समाक्षिकेण मधुसहितेन, एवंविधेन दध्ना सह भोजनं कुर्वीतेत्यर्थः| निश्चारकः प्रवाहिकाभेदः पुरीषक्षयापरपर्यायः, तेन पीडितः;- अन्ये तु निश्चारकाभिधानेन अतिसारः प्रवाहिका चोच्यते इति मन्यन्ते, अत्रोक्तयोगानामुभयहितत्वापादनार्थम्| नन्वयमर्थः ‘तासामतीसारवदादिशेच्च’ इत्यनेन प्राप्तः, पुनरत्राभिधानेन किं प्रयोजनम्? उच्यते- अत्रोक्तयोगाः प्रवाहिकायां विशेषेण हिता इति ज्ञापनार्थम्| सुतप्तेत्यादि|- सुतप्तसुवर्णरूप्येतरलोहप्रक्षेपक्वथितेन क्षीरेण; अन्ये त्वघटितं रूप्यादिकं कुप्यमाचक्षते; केचित् कुप्यस्थाने कूर्पमिति पठन्ति व्याख्यानयन्ति च- कूर्पो दक्षिणापथे पाषाणविशेषः शङ्खमुण्डाकृतिः रसायनवादेषु प्रयुज्यते| एवंविधेन क्षीरेण वा भुञ्जीतेति सम्बध्यते| व्योषं त्रिकटु| विदारिगन्धेत्यत्र आदिशब्दो लुप्तो ज्ञेयः, तेन विदारिगन्धादिगणो गृह्यते| त्रिकटुविदारिगन्धादिगणसिद्धेन क्षीरेण शूलार्दितो निश्चारकी हिताय भोज्य इति सम्बन्धः| वातघ्नेत्यादि|- वातघ्नानि शालपर्ण्यादीनि, भद्रदार्वादीनीत्यन्ये; साङ्ग्राहिकाणि बिल्वपाठाचाङ्गेरीप्रभृतीनि; दीपनीयानि चित्रकशुण्ठ्यादीनि| षडा सदाडिमा गोरसादाना घनाः| कृताः संस्कृताः| मत्स्यान् साङ्ग्राहिकान् रोहितशकुलादीन्| रसं लावादिमांसरसम्| आप्नुयात् पिबेत्, धातूनामनेकार्थत्वात्| वातघ्नानि शालपर्णीपृश्निपर्णीबृहत्यादीनि, तैः सिद्धं; बदरादिसंस्कृतमित्यन्ये व्याख्यानयन्ति| सघृतं सतैलमिति घृततैलेन भृष्टं, वातघ्नसिद्धं घृततैलभृष्टं मांसरसमाप्नुयादिति सम्बन्धः| एणाव्यजानामित्यादि|- एणः कृष्णसारः, अविः भेडः, अजा छागी, वटप्रवालैः वटकोमलपल्लवैः, पिशितानि मांसानि; एणादीनां पिशितानि वटप्रवालैः सह सिद्धानि खादेदिति सम्बन्धः| मेध्यस्येत्यादि|- मेधो यज्ञस्तदर्हो मेध्यः तस्य; एतेन मेदुरस्येत्युक्तं, यज्ञे तस्यार्हत्वात्| रक्तं स्त्यानं रक्तम्, अत एव खादेदित्युपपन्नम्| बस्तस्य छागस्य| दध्नेति दध्ना सहितमित्यर्थः| ‘मेध्यस्य’ इत्यत्रान्ये ‘मेध्यं च’ इति पठन्ति; तत्र मेध्यमिति रक्तस्य विशेषणम्; मेध्यस्य बस्तस्य रक्तं, घृततैलमृष्टं दध्ना संस्कृतं खादेदिति सम्बन्धः| खादेत् प्रदेहैरित्यादि| पाकेन घनीभूता रसाः प्रदेहाः, तैः| शिखी मयूरः, कुक्कुट इत्यन्ये| प्रलेपैरित्यन्ये पठन्ति| (तत्रापि स एवार्थः| शिखिलावजैः प्रदेहैश्च सह संस्कृतं तद्रक्तं खादेदिति सम्बध्नीयात्; अन्ये प्रदेहैरिति भुञ्जीतेत्यत्र सम्बध्नन्ति|) यूषैः माषादियूषैः | माषानित्यादि|- सुसिद्धान् सुस्विन्नान्, घृतमण्डस्तु घृतस्य स्त्यानस्य उपरिस्थो भागस्तेन युक्तान्, मरिचोपदंशान् मरिचावचूर्णितान्; सुस्विन्नान् माषान् घृतमण्डमिश्रान् मरिचावचूर्णितान् खादेदिति सम्बन्धः||१४५-१४९||
Adhikarana 99 (150) · Śloka 151
महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत् |
पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् ||१५०||
स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम् |१५१|
आहारमुपदिश्य बस्तिमाह- महारुजे इत्यादि| बस्तिं निरूहम्| मधुकं यष्टीमधु, उत्पलं नीलोत्पलम्| मधुकनीलोत्पलसाधितेन क्वाथेन क्षीरमधुघृतोन्मिश्रितेन बस्तिं भिषक् प्रदापयेत्, स च दत्तः सन् रक्तमित्यादिकं शमयेदिति सम्बन्धः| यद्यपि प्रवाहिकायां प्रागेव बस्तिरभिहितस्तत्प्रसङ्गेनैतावपि बस्ती अभिधेयौ भवतः, तथाऽप्यत्र विशिष्टावस्थायां निश्चारकसञ्ज्ञायां महारुजाद्यनुबन्धे विशिष्टौ बस्ती प्रतिपादितौ||१५०||-
Adhikarana 100 (151) · Śloka 152
मधुरौषधसिद्धं च हितं तस्यानुवासनम् ||१५१||
रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः |१५२|
निरूहबस्तिमभिधायानुवासनमाह- मधुरौषधसिद्धमित्यादि| मधुरौषधानि काकोल्यादीनि तैः सिद्धं; रुजार्तो यो नरो भवेत् तस्य मधुरौषधसिद्धमनुवासनं रात्रौ दिने वा हितमिति सम्बन्धः| यद्यपि रात्रावनुवासनं निषिद्धं तथाऽपि नित्यं शूलार्ते रुग्दाहज्वरसद्भावे सति रात्रावपि देयम्||१५१||-
Adhikarana 101 (152-153) · Śloka 153
यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा ||१५२||
प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका |
तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् ||१५३||
प्रवाहिकारोगेऽनुवासनसाफल्यमाह- यथेत्यादि| याति उपशान्तिं गच्छतीत्यर्थः||१५२-१५३||
Adhikarana 102 (154) · Śloka 154
पाठाजमोदाकुटजोत्पलं च शुण्ठी समा मागधिकाश्च पिष्टाः |
सुखाम्बुपीताः शमयन्ति रोगं... |१५४|
प्रवाहिकारोगे दीपनीयौषधमाह- पाठाजमोदेत्यादि| सुखाम्बु ईषदुष्णाम्बु| पाठादयः पिप्पल्यन्ताः समास्तुल्याः पिष्टाः सुखाम्बुना पीता रोगं प्रवाहिकाख्यं शमयन्तीति सम्बन्धः|१५४|-
Adhikarana 103 (154) · Śloka 154
... मेध्याण्डसिद्धं सघृतं पयो वा ||१५४||
मेध्याण्डसिद्धमित्यादि| मेध्याण्डं छागलाण्डं, तत्सिद्धं पयः क्षीरं सघृतं प्रवाहिकां शमयेदित्यत्रापि सम्बध्यते| क्षीरपाकविधिः प्रागुक्तः||१५४||
Adhikarana 104 (155) · Śloka 155
शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वाऽऽमयमाशु हन्यात् |१५५|
शुण्ठीमित्यादि| क्षवकः छिक्काकरः फणिज्जकाकारो लोके ‘छिङ्किनी’ इति प्रसिद्धः| अत्र विधिः- शुण्ठीक्षवककल्कं सघृततैलमवलेहविधिना विपाच्य लीढ्वा आमयं प्रवहिकाख्यमाशु हन्यादिति सम्बन्धः|१५५|-
Adhikarana 105 (155) · Śloka 156
गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि ||१५५||
बिल्वान्विता पथ्यतमा यवागू... |१५६|
गजाशनेत्यादि| गजाशना शल्लकी, कुम्भिका पानीयकुम्भिका, रसैः क्वाथैः, कृता संस्कृता| बिल्वान्विता बिल्वगर्भान्विता| शल्लक्यादिक्वाथैर्बिल्वगर्भान्विता तैलघृते संस्कृता दध्नि सिद्धा यवागूः पथ्यतमेति सम्बन्धः||१५५||-
Adhikarana 106 (156) · Śloka 156
...र्धारोष्णदुग्धस्य तथा च पानम् |१५६|
प्रवाहिकायां क्षीरपानस्य पथ्यतमत्वमाह- धारोष्णदुग्धस्येत्यादि| तथेति पथ्यतममित्यर्थः|१५६|-
Adhikarana 107 (156-157) · Śloka 157
लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु ||१५६||
हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः ||१५७||
इदानीमुपसंहारमाह- लघूनीत्यादि| भोज्यानि भोजनप्रकारान्| उदरामयेषु अतीसारप्रवाहिकाख्येषु| वितरेत् दद्यात्| विभज्येति दोषविशेषमवस्थां च| अन्ये तु ‘पथ्यानि योगांश्च विभज्य’ इति सम्बध्नन्ति| योगांश्च तांस्तानिति लघुदीपनस्निग्धान्| अप्रमत्तः सावधानः||१५६-१५७||
Adhikarana 108 (158) · Śloka 158
तृष्णापनयनी लघ्वी दीपनी बस्तिशोधनी |
ज्वरे चैवातिसारे च यवागूः सर्वदा हिता ||१५८||
एकान्तहितत्वार्थं यवाग्वा गुणकीर्तनमाह- तृष्णापनयनीत्यादि| तृष्णापनयनी पिपासाहरी| सर्वदा सर्वास्ववस्थासु, यतो ज्वरातिसारयोरग्निमान्द्यं भवति, यवागूश्चाग्निदीप्तिकरी, अतः सर्वदा हिता||१५८||
Adhikarana 109 (159) · Śloka 160
रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे |
भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी ||१५९||
विषार्शःकृमिसम्भूते हिता चोभयशर्मदा |१६०|
रोगप्रत्यनीकं चिकित्सितमभिधाय हेतुविपरीतमाह- रौक्ष्यादित्यादि| रूक्षाज्जाते ‘अतीसारे’ इति शेषः; स्निग्धा क्रिया ‘हिता’ इति शेषः| भयजे अतीसारे सान्त्वनापूर्वा शा(सा)मप्रयोगपूर्वा| शोकजे पुत्रमित्रकलत्रादिवियोगजे| विषादिसम्भूतेऽतीसारे उभयशर्मदा विषार्शःकृमिहिता तज्जनितातिसारे हिता चेत्यर्थः; एतेन हेतुव्याधिप्रत्यनीका क्रियोक्ता||१५९||-
Adhikarana 110 (160) · Śloka 160
छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः ||१६०||
अतीसारोपद्रवचिकित्सितमाह- छर्दीत्यादि| अविरोधतः इति ‘मूलव्याधेः’ इति शेषः||१६०||
Adhikarana 111 (161) · Śloka 161
समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत् |
ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् ||१६१||
नन्वतीसारे त्रयाणां दोषाणां द्वयोर्वा संयोगे पूर्वं को दोष उपचर्यत इत्याह- समवाये तु दोषाणामित्यादि| समवायोऽत्र संयोगः| दोषाणामिति त्रयाणां द्वयोर्वा| किं दोषाणां संयोगे सर्वत्रापि पूर्वं पित्तमुपचरणीयमित्याह- ज्वरे चैवेत्यादि| सर्वत्रान्यत्र मारुतमिति ज्वरातीसारौ विहायान्येषु रोगेषु सर्वत्र वातमुपाचरेदित्यर्थः| यद्यपि ज्वरचिकित्सिते ‘शमयेत्’ पित्तमेवादौ इत्यादिना ज्वरे दोषाणां समवाये पूर्वं पित्तमुपाचरेदिति प्रोक्तं, तथाऽप्यत्र ‘ज्वरे चैव’ इति पुनर्यदुक्तं तज्ज्वरेऽतिशयेन पूर्वं पित्तमुपाचरेदिति प्रतिपादनार्थम्| ये च तन्त्रान्तरीया अतीसारे पूर्वं वातोपक्रममिच्छन्ति तेषामयमभिप्रायः- यत्रातीसारे कफवातसमवायः स्यात्तत्र पूर्वं वातमुपाचरेत्, यस्मात् पाचनेन आमकफक्षयाद्वायोर्वृद्धिः||१६१||
Adhikarana 112 (162) · Śloka 162
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति |
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः ||१६२||
इदानीमतीसारनिवृत्तिलक्षणमाह- यस्योच्चारमित्यादि| उच्चारं पुरीषम्| सम्यगिति प्रवृत्तिशङ्कारहितम्| वातोऽत्र अधोवातः| दीप्ताग्नेरिति प्रथमावस्थापेक्षया; तेन अतीसारे निवृत्तेऽपि मन्दाग्नेरिति वक्ष्यमाणं न विरुध्यते| लघुकोष्ठस्य उदरगौरवरहितस्य| स्थितो निवृत्तः| उदरामयः अतीसारः||१६२||
Adhikarana 113 (163) · Śloka 163
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे |
कर्मदोषोद्भवाश्चान्ये... |१६३|
अवश्यं वक्तव्यत्वादस्य वस्तुन एष प्रदेश इत्यतोऽत्र व्याधीनां कर्मजादिभेदेन त्रैविध्यमाह- कर्मजा व्याधय इत्यादि| तत्र पथ्यरतानां सद्वृत्तरतानां शास्त्रोक्ताहारविहारसेविनां हेमन्तशिशिरे रक्तपित्ताद्युत्पद्यते, वसन्ते वातव्याध्युत्पत्तिः, प्रावृषि श्लेष्मव्याध्युत्पत्तिरित्यादयो निमित्तमन्तरेण ये चोत्पद्यन्ते ते कर्मजाः; यान् पुनरसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामलक्षणैः मिथ्याहारविहारैः शास्त्रविरुद्धैरासेव्यमानैर्दोषाः कुपिता व्याधीन् जनयन्ति ते दोषजाः; उभयहेतुजाः कर्मदोषजाः|१६३|-
Adhikarana 114 (163) · Śloka 164
... कर्मजास्तेष्वहेतुकाः ||१६३||
नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसङ्क्षये |१६४|
तेषां मध्ये कर्मजानां तत्र लक्षणमाह- कर्मजास्तेष्वहेतुकाः; तेषु कर्मजादिषु त्रिषु कर्मजा अहेतुका दोषागन्तुहेतुरहिताः| नश्यन्तीत्यादि ते कर्मजाः, तु पुनः, अक्रियाभिः अचिकित्साभिः, क्रियाभिः प्रायश्चित्तजपहोमोपहारादिरूपाभिः| कर्मसङ्क्षये व्याधिजनककर्मक्षये| ये व्याधयोऽहेतुका उत्पद्यन्ते अक्रियाभिश्च कर्मक्षये सति नश्यन्ति ते कर्मजा इति सम्बन्धः||१६३||-
Adhikarana 115 (164) · Śloka 164
शाम्यन्ति दोषसम्भूता दोषसङ्क्षयहेतुभिः ||१६४||
दोषजानां लक्षणमाह- शाम्यन्तीत्यादि| ये दोषसङ्क्षयहेतुभिः शाम्यन्ति ते दोषजा इत्यर्थः||१६४||
Adhikarana 116 (165) · Śloka 165
तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च |
मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते ||१६५||
कर्मदोषजानां लक्षणमाह- तेषामित्यादि| तेषां कर्मादिजानाम्| अल्पनिदाना अल्पकारणा अल्पोत्पादकदोषाः| प्रतिकष्टा इति प्रतिशब्द इत्थम्भूतार्थे; तेनेत्थम्भूता अपि ये कष्टा भवन्ति, बहुदोषारब्धाश्च ये मृदवो भवन्ति, ते कर्मदोषोद्भवा व्याधय इति सम्बन्धः||१६५||
Adhikarana 117 (166) · Śloka 166
कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते |१६६|
कर्मदोषोद्भवानां चिकित्सितमाह- कर्मेत्यादि| तेषाम् उभयजानाम्| कर्मदोषक्षयकृता इति कर्मक्षयकृता यागदानमन्त्रबल्युपहारदेवताराधनगुरुपूजनादिना, दोषक्षयकृता स्नेहस्वेदनवमनादिना| सिद्धिः साधनं, विधीयते क्रियते|१६६|-
Adhikarana 118 (166) · Śloka 166
दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः ||१६६||
प्रकृतमिदानीं प्रस्तूयते- तत्रानुत्पन्नातीसारस्यापि ग्रहणीरोगसम्भवमाह- दुष्यतीत्यादि| दुष्यति विकृतिं याति| ग्रहणी पित्तधरा कला वह्न्यधिष्ठानत्वेन सञ्जाता | जन्तोः प्राणिनः, अग्निसादनहेतुभिः अग्निनिर्वापणकारणैः, एतेनातीसारं विनाऽपि ग्रहणीरोगसम्भव उक्तः||१६६||
Adhikarana 119 (167-168) · Śloka 168
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः |
भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ||१६७||
तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत् |
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||१६८||
उत्पन्नातीसारस्य यथा ग्रहणीरोगोत्पत्तिस्तथा दर्शयन्नाह- अतीसारे इत्यादि| निवृत्तेऽपीति अपिशब्दादनिवृत्तेऽपि| भूयः पुनरपि| ग्रहणीमिति अग्न्यधिष्ठानम्| तस्मादित्यादि यस्मात् पुनर्दूषितो वह्निर्ग्रहण्याख्यमधिष्ठानं दूषयति तस्मादतीसारे विरिक्तवत् परीहारः कार्य इति सम्बन्धः| परीहारकालावधिमाह- यावदित्यादि||१६७-१६८||
Adhikarana 120 (169) · Śloka 169
षष्ठी पित्तधरा नाम या कला परिकीर्तिता |
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता ||१६९||
अथ केयं ग्रहणी यां दूषितो वह्निर्दूषयतीत्याह- षष्ठी पित्तधरेत्यादि| या कला परिकीर्तिता गर्भव्याकरणे शारीरे प्रोक्ता||१६९||
Adhikarana 121 (170) · Śloka 170
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः |
तस्मात् सन्दूषिते वह्नौ ग्रहणी सम्प्रदुष्यति ||१७०||
यथाऽग्नौ दूषिते सति ग्रहणी प्रदुष्यति तथा दर्शयति- ग्रहण्या इत्यादि| हि यस्मादर्थे, यस्माद्ग्रहण्या अग्न्यधिष्ठानभूताया बलमग्निः स, चाप्यग्निर्ग्रहणीं श्रितो ग्रहणीमाश्रितः, तस्मादग्नौ प्रदूषिते ग्रहणी सम्प्रदुष्यतीति||१७०||
Adhikarana 122 (171-172) · Śloka 172
एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः |
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ||१७१||
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् |
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ||१७२||
कैः प्रदुष्यतीत्याह- एकश इत्यादि| अत्यर्थमुच्छ्रितैः अत्यन्तवृद्धैः, एकशो वातादिभिः, सर्वशः सर्वैर्दोषैः, सा ग्रहणी दुष्टा सती भुक्तमन्नं, बहुशो बहून् वारान्, आममपक्वमेव विमुञ्चति| किं सा दुष्टा सती आममेव परं विमुञ्चतीत्याह- पक्वं वेत्यादि| आयुर्वेदविदः अष्टाङ्गज्ञाः||१७१-१७२||
Adhikarana 123 (173) · Śloka 173
तस्योत्पत्तौ विदाहोऽन्ने सदनालस्यतृट्क्लमाः |
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् ||१७३||
अतो ग्रहणीरोगस्य पूर्वरूपमाह- तस्योत्पत्तावित्यादि| तस्य ग्रहणीरोगस्य| विदाहोऽन्ने अन्नं भुक्तं विदह्यतीत्यर्थः| सदनम् अङ्गसादः, आलस्यम् अनुत्साहः, तृट् पिपासा, क्लमो विनाऽपि व्यायामं श्रमः| कर्णक्ष्वेडः अनेकविधहुङ्कारादिशब्दश्रवणम्| ‘विदाहोऽन्ने’ इत्यत्रान्ये ‘विदाहोऽन्तः’ इति पठन्ति, अन्तःकोष्ठेऽन्नं विदाहमापादयतीति व्याख्यानयन्ति च||१७३||
Adhikarana 124 (174-175) · Śloka 175
अथ जाते भवेज्जन्तुः शूनपादकरः कृशः |
पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवान् ||१७४||
उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् |
प्रसेकमुखवैरस्यतमकारुचिपीडितः ||१७५||
पूर्वरूपानन्तरं रूपमाह- अथेत्यादि| पर्वरुक् सन्धिपीडा, लौल्यं सर्वरसेषु लोलुपत्वम्| उद्गिरेत् वमेत्| शुक्तं चुक्रम्| गन्धशब्दो लोहादिभिः प्रत्येकं सम्बध्यते| प्रसेको लालास्रावः| तमकः श्वासविशेषः, अन्ये तु तमकं मोहमाचक्षते| पीडितशब्दः प्रसेकादिभिः प्रत्येकं सम्बध्यते| अत्र पाठे ‘निर्मासो वा कृशः’ इत्यन्ये पठन्ति, तत्र निर्मांसःअत्यन्तक्षीणमांसः, कृशः अल्पमांसः| अत्रारोचकशब्दोपादानादेवारुचिः प्राप्ता, पुनररुच्यभिधानमस्मिन् रोगेऽरुचेरवश्यम्भावसूचनार्थम्||१७४-१७५||
Adhikarana 125 (176) · Śloka 176
वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः |
पित्तात् सदाहैर्गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः ||१७६||
अत ऊर्ध्वं वातादिभेदेन ग्रहणीलक्षणान्याह- वातादित्यादि| पायुः गुदः, हृत् हृदयं, पार्श्वे द्वे; पाय्वादिमस्तकान्तैः शूलाधिकैर्वाताद्ग्रहणीरोगो ज्ञातव्य इति; एवं सर्वत्र सम्बन्धनीयम्| एभिरेव पाय्वादिभिः सदाहैः पित्ताद्ग्रहणी, गुरुभिः पाय्वादिभिः कफात्, त्रिलक्षणैरिति शूलाधिकैः सदाहैर्गुरुभिः पाय्वादिभिः; त्रिभ्यो दोषेभ्यः, ‘ग्रहणी’ इति शेषः||१७६||
Adhikarana 126 (177) · Śloka 177
दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः |
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः ||१७७||
किमेतैरेव लक्षणैर्ग्रहणीरोगो ज्ञेयोऽथवाऽन्यैरपीत्याह- दोषवर्णैरित्यादि| दोषवर्णैरिति कृष्णारुणनीलपीतरक्तासितपाण्डुभिर्नखैः, तद्वदिति कृष्णादिवर्णैर्विडादिभिश्च ‘ग्रहणीरोगो ज्ञेय’ इति शेषः| हृत्पाण्डूदरादिरोगाशङ्की च मानवो भवति, ‘प्रवर्धमाने ग्रहणीरोगे’ इति वाक्यशेषः||१७७||
Adhikarana 127 (178-180) · Śloka 181
यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम् |
पेयादिं वितरेत् सम्यग्दीपनीयोपसम्भृतम् ||१७८||
ततः पाचनसङ्ग्राहिदीपनीयगणत्रयम् |
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः ||१७९||
तक्रेण वाऽथ तक्रं वा केवलं हितमुच्यते |
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् ||१८०||
चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम् |१८१|
अत ऊर्ध्वं ग्रहणीरोगचिकित्सितमाह- यथेत्यादि| दोषोच्छ्रयो दोषोद्रेकः| तस्येति ग्रहणीरोगिणः| तत्र यथादोषोच्छ्रयं विशुद्धस्येति वातोद्रेके निरूहेण, पित्तोद्रेके विरेकेण, कफोद्रेके वमनेन| यथाक्रममिति यथास्वं शुद्धिप्रकरणोक्तक्रमेणेत्यर्थः| पेयादिमित्यादिशब्दात् विलेपीयूषमृद्वोदनादिकम्| वितरेत् दद्यात्| सम्यक् यथोक्तम्| दीपनीयोपसम्भृतमिति पञ्चकोलाद्यग्निदीपनद्रव्ययुक्तम्| ‘यथादोषोच्छ्रयं’ इत्यत्रान्ये ‘यथादोषबलं’ इति पठन्ति, तत्र दोषबलानतिक्रमेण विशुद्धस्येत्यर्थः| तत इत्यादि| तत इति पेयादिक्रमानन्तरम्| पाचनसङ्ग्राहिदीपनीयगणत्रयमिति गणशब्दः प्रत्येकं सम्बध्यते; तेन पाचनद्रव्यगणो हरिद्रादिः, सङ्ग्राहीगणः अम्बष्ठादिः, दीपनीयगणः पिप्पल्यादिः; एतद्गणत्रयं दोषकालसात्म्याद्यपेक्षया सुरारिष्टादिभिस्तक्रान्तैः प्रातः पिबेदित्यर्थः| तक्रं वेत्यादि सङ्ग्राहिदीपनीयलघुत्वात् “एका शान्तिरनेकस्य” इति वचनात्| क्रिम्यादिघ्नी क्रियाऽत्रापि करणीयेत्याह- क्रिमीत्यादि| अत्रेति ग्रहणीरोगे| अवचारयेत् प्रयोजयेत्| ननु, ग्रहणीरोगो वातादिभेदेन चतुर्विधः प्रोक्तः, तत्कथं चिकित्सितं तथा नोक्तं? उच्यते- यथादोषोच्छ्रयमित्यत्राप्यनुवर्तनीयम्; तेन क्रिम्यादिघ्नी क्रिया यथादोषोच्छ्रयमवचारयेदिति न दोषः| हिङ्ग्वादिचूर्णादिकं ग्रहण्यामप्यतिदिशन्नाह- चूर्णमित्यादि| हिङ्ग्वादिचूर्णं महावातव्याध्युक्तं, घृतं वा प्लीहनाशनमिति षट्पलादिकं, अवचारयेदित्यत्रापि सम्बध्यते||१७८-१८०||-
Adhikarana 128 (181) · Śloka 182
कल्केन मगधादेश्च चाङ्गेरीस्वरसेन च ||१८१||
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत् |१८२|
चाङ्गेरीघृतमाह- कल्केनेत्यादि| मगधादेः पिप्पल्यादेः| चाङ्गेरी अम्लपत्रिका, तस्याः स्वरसेन स्नेहचतुर्गुणेन, पिप्पल्यादिकल्केन स्नेहचतुर्थांशेन, दध्ना च चतुर्गुणेन, सिद्धं घृतं हितं भवेदित्यर्थः||१८१||
Adhikarana 129 (182) · Śloka 182
सर्वथा दीपनं सर्वं ग्रहणीरोगिणां हितम् ||१८२||
इदानीं ग्रहणीरोगेऽशेषसङ्ग्रहार्थमाह- सर्वथेत्यादि| सर्वथा सर्वप्रकारेण| दीपनम् अग्निदीपनम्; यत् अग्निदीपनं तत्सर्वं ग्रहणीरोगिणां सर्वथा हितमिति सम्बन्धः||१८२||
Adhikarana 130 (183) · Śloka 183
ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः ||१८३||
अतोऽनन्तरं ग्रहणीरोगोपद्रवाणां ज्वरारोचकादीनां प्रतिकारमाह- ज्वरादीनित्यादि| ज्वरादीनित्यादिशब्दादरोचकशूलकरपादशोफादीनां ग्रहणम्| अविरोधाच्चेति ‘मूलव्याधेः’ इति शेषः| यद्यपि निबन्धकारैरयमध्यायो व्यस्तपाठेन पठितस्तथाऽपि मया मद्गुरुणा येन क्रमेणोपदिष्टस्तथाऽयं पठितो व्याख्यातश्च||१८३||
Adhikarana puShpikA · Śloka 40
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽतिसारप्रतिषेधो नाम (द्वितीयोऽध्यायः, आदितः) चत्वारिंशोऽध्यायः ||४०||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गतकायचिकित्सायामतिसारप्रतिषेधाध्यायश्चत्वारिंशत्तमः||४०||