Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

40. atisārapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातोऽतीसारप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3-5) · Śloka 5

गुर्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः | विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ||३|| स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात् | शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात् ||४|| जलातिरमणैर्वेगविघातैः कृमिदोषतः | नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ||५||

🔊 Audio coming soon

Adhikarana 3 (6) · Śloka 6

संशम्यापान्धातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः | वृद्धोऽतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः ||६||

🔊 Audio coming soon

Adhikarana 4 (7) · Śloka 8

एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः | केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत् ||७|| दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति |८|

🔊 Audio coming soon

Adhikarana 5 (8) · Śloka 9

हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः ||८|| विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि |९|

🔊 Audio coming soon

Adhikarana 6 (9) · Śloka 10

शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः ||९|| वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन |१०|

🔊 Audio coming soon

Adhikarana 7 (10) · Śloka 11

दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् ||१०|| पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः |११|

🔊 Audio coming soon

Adhikarana 8 (11) · Śloka 12

तन्द्रानिद्रागौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः ||११|| शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा |१२|

🔊 Audio coming soon

Adhikarana 9 (12) · Śloka 13

तन्द्रायुक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः ||१२|| सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः |१३|

🔊 Audio coming soon

Adhikarana 10 (13-14) · Śloka 15

तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पावेगः पक्तिमाविध्य(श्य)जन्तोः ||१३|| कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम् | वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात् ||१४|| शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः |१५|

🔊 Audio coming soon

Adhikarana 11 (15-16) · Śloka 16

आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः सम्प्रदुष्टाः सभक्तम् ||१५|| नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति ||१६||

🔊 Audio coming soon

Adhikarana 12 (17) · Śloka 17

संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति | पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसञ्ज्ञकम् ||१७||

🔊 Audio coming soon

Adhikarana 13 (18) · Śloka 18

एतान्येव तु लिङ्गानि विपरीतानि यस्य तु | लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत् ||१८||

🔊 Audio coming soon

Adhikarana 14 (19-21) · Śloka 21

सर्पिर्मेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्ररूपं स्रवेद्यत् | मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम् ||१९|| राजीमद्वा चन्द्रकैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम् | हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः ||२०|| असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम् | गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत् ||२१||

🔊 Audio coming soon

Adhikarana 15 (22-23) · Śloka 23

शरीरिणामतीसारः सम्भूतो येन केनचित् | दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते ||२२|| स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः | विसूचिकानिमित्तस्तु चान्योऽजीर्णनिमित्तजः | विषार्शःकृमिसम्भूतो यथास्वं दोषलक्षणः ||२३||

🔊 Audio coming soon

Adhikarana 16 (24) · Śloka 24

आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः | अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः ||२४||

🔊 Audio coming soon

Adhikarana 17 (25) · Śloka 25

तत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम् | ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः ||२५||

🔊 Audio coming soon

Adhikarana 18 (26) · Śloka 26

अथवा वामयित्वाऽऽमे शूलाध्माननिपीडितम् | पिप्पलीसैन्धवाम्भोभिर्लङ्घनाद्यैरुपाचरेत् ||२६||

🔊 Audio coming soon

Adhikarana 19 (27) · Śloka 27

कार्यं वमनस्यान्ते प्रद्रवं लघुभोजनम् | खडयूषयवागूषु पिप्पल्याद्यं च योजयेत् ||२७||

🔊 Audio coming soon

Adhikarana 20 (28) · Śloka 28

अनेन विधिना चामं यस्य वै नोपशाम्यति | हरिद्रादिं वचादिं वा पिबेत् प्रातः स मानवः ||२८||

🔊 Audio coming soon

Adhikarana 21 (29-30) · Śloka 30

आमातीसारिणां कार्यं नादौ सङ्ग्रहणं नृणाम् | तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान् ||२९|| प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान् | शोफगुल्मग्रहण्यर्शःशूलालसकहृद्ग्रहान् ||३०||

🔊 Audio coming soon

Adhikarana 22 (31) · Śloka 31

सशूलं बहुशः कृच्छ्राद्विबद्धं योऽतिसार्यते | दोषान् सन्निचितान् तस्य पथ्याभिः सम्प्रवर्तयेत् ||३१||

🔊 Audio coming soon

Adhikarana 23 (32) · Śloka 32

योऽतिद्रवं प्रभूतं च पूरीषमतिसार्यते | तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम् ||३२||

🔊 Audio coming soon

Adhikarana 24 (33) · Śloka 33

स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते | अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ||३३||

🔊 Audio coming soon

Adhikarana 25 (34) · Śloka 34

आमे च लङ्घनं शस्तमादौ पाचनमेव वा |३४|

🔊 Audio coming soon

Adhikarana 26 (34) · Śloka 34

योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः ||३४||

🔊 Audio coming soon

Adhikarana 27 (35-46) · Śloka 46

कलिङ्गातिविषाहिङ्गुसौवर्चलवचाभयाः | देवदारुवचामुस्तानागरातिविषाभयाः ||३५|| अभया धान्यकं मुस्तं पिप्पली नागरं वचा | नागरं धान्यकं मुस्तं वालकं बिल्वमेव च ||३६|| मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषाऽभया | अभयाऽतिविषा हिङ्गु वचा सौवर्चलं तथा ||३७|| चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी | पाठा वत्सकबीजानि हरीतक्यो महौषधम् ||३८|| मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली | सिद्धार्थका भद्रदारु शताह्वा कटुरोहिणी ||३९|| एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः | मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च ||४०|| वृक्षादनी वीरतरुर्बृहत्यौ द्वे सहे तथा | अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी ||४१|| पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम् | पटोलं(ली) दीप्यको बिल्वं हरिद्रे देवदारु च ||४२|| विडङ्गमभया पाठा शृङ्गवेरं घनं वचा | वचा वत्सकबीजानि सैन्धवं कटुरोहिणी ||४३|| हिङ्गुर्वत्सकबीजानि वचा बिल्वशलाटु च | नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम् ||४४|| महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः | प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे ||४५|| धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा | निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान् ||४६||

🔊 Audio coming soon

Adhikarana 28 (47-59) · Śloka 59

पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि | क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च ||४७|| निखिलेनोपदिष्टोऽयं विधिरामोपशान्तये | हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम् ||४८|| पिबेत् सुखाम्बुना जन्तुरामातीसारपीडितः | पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम् ||४९|| मुस्तं कुष्ठं विडङ्गं च पिबेद्वाऽपि सुखाम्बुना | शृङ्गवेरं गुडूचीं च पिबेदुष्णेन वारिणा ||५०|| लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी | चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च ||५१|| हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः | हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ ||५२|| वचा गुडूचीकाण्डानि योगोऽयं परमो मतः | एते सुखाम्बुना योगा देयाः पञ्च सतां मताः ||५३|| निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः | स्तोकं स्तोकं रुजामच्च सशूलं योऽतिसार्यते ||५४|| सक्षारलवणैर्युक्तं मन्दाग्निः स पिबेद्घृतम् | क्षीरनागरचाङ्गेरीकोलदध्यम्लसाधितम् ||५५|| सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये | दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः ||५६|| सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः | निखिलो विधिरुक्तोऽयं वातश्लेष्मोपशान्तये ||५७|| तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक् | यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते ||५८|| बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च | शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः ||५९||

🔊 Audio coming soon

Adhikarana 29 (60) · Śloka 60

मुद्गादिषु च यूषाः स्युर्द्रव्यैरेतैः सुसंस्कृताः |६०|

🔊 Audio coming soon

Adhikarana 30 (60-62) · Śloka 62

मृदुभिर्दीपनैस्तिक्तैर्द्रव्यैः स्यादामपाचनम् ||६०|| हरिद्रातिविषापाठावत्सबीजरसाञ्जनम् | रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च ||६१|| पाठा गुडूची भूनिम्बस्तथैव कटुरोहिणी | एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः ||६२||

🔊 Audio coming soon

Adhikarana 31 (63-65) · Śloka 66

मुस्तं कुटजबीजानि भूनिम्बं सरसाञ्जनम् | दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम् ||६३|| चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम् | मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम् ||६४|| पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम् | फलत्वचं वत्सकस्य शृङ्गवेरं घनं वचा ||६५|| षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः |६६|

🔊 Audio coming soon

Adhikarana 32 (66) · Śloka 66

बिल्वशक्रयवाम्भोदबालकातिविषाकृतः | कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ||६६||

🔊 Audio coming soon

Adhikarana 33 (67) · Śloka 67

मधुकोत्पलबिल्वाब्दह्रीबेरोशीरनागरैः | कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः ||६७||

🔊 Audio coming soon

Adhikarana 34 (68) · Śloka 68

यदा पक्वोऽप्यतीसारः सरत्येव मुहुर्मुहुः | ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम् ||६८||

🔊 Audio coming soon

Adhikarana 35 (69-71) · Śloka 71

समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम् | शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचौ ||६९|| आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः | मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च ||७०|| चत्वार एते योगाः स्युः पक्वातीसारनाशनाः | उक्ता य उपयोज्यास्ते सक्षौद्रास्तण्डुलाम्बुना ||७१||

🔊 Audio coming soon

Adhikarana 36 (72) · Śloka 72

मौस्तं कषायमेकं वा पेयं मधुसमायुतम् | लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् ||७२||

🔊 Audio coming soon

Adhikarana 37 (73) · Śloka 73

पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च | पिबेत्तण्डुलतोयेन सक्षौद्रमगदङ्करम् ||७३||

🔊 Audio coming soon

Adhikarana 38 (74) · Śloka 75

कच्छुरामूलकल्कं वाऽप्युदुम्बरफलोपमम् | पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम् ||७४|| पक्वातिसारं योगोऽयं जयेत्पीतः सशोणितम् |७५|

🔊 Audio coming soon

Adhikarana 39 (75) · Śloka 76

निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ||७५|| नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम् |७६|

🔊 Audio coming soon

Adhikarana 40 (76) · Śloka 77

बलाबृहत्यंशुमतीकच्छुरामूलसाधितम् ||७६|| मधूक्षितं समधुकं पिबेच्छूलैरभिद्रुतः |७७|

🔊 Audio coming soon

Adhikarana 41 (77-78) · Śloka 79

दार्वीबिल्वकणाद्राक्षाकटुकेन्द्रयवैर्घृतम् ||७७|| साधितं हन्त्यतीसारं वातपित्तकफात्मकम् | दध्ना चाम्लेन सम्पक्वं सव्योषाजाजिचित्रकम् ||७८|| सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः |७९|

🔊 Audio coming soon

Adhikarana 42 (79) · Śloka 80

पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः ||७९|| सिताजमोदकट्वङ्गमधुकैरवचूर्णितम् |८०|

🔊 Audio coming soon

Adhikarana 43 (80) · Śloka 81

अवेदनं सुसम्पक्वं दीप्ताग्नेः सुचिरोत्थितम् ||८०|| नानावर्णमतीसारं पुटपाकैरुपाचरेत् |८१|

🔊 Audio coming soon

Adhikarana 44 (81-83) · Śloka 84

त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम् ||८१|| काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण सन्दृढम् | मृदाऽवलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ||८२|| स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः | शीतं मधुयुतं कृत्वा पाययेतोदरामये ||८३|| जीवन्तीमेषशृङ्ग्यादिष्वेवं द्रव्येषु साधयेत् |८४|

🔊 Audio coming soon

Adhikarana 45 (84-85) · Śloka 86

तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत् ||८४|| न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत् | रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ||८५|| शर्करोपहितं शीतं पाययेतोदरामये |८६|

🔊 Audio coming soon

Adhikarana 46 (86-87) · Śloka 88

लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान् ||८६|| तण्डुलोदकसम्पिष्टान् दीर्घवृन्तत्वगन्वितान् | पूर्ववत् कूलितात्तस्माद्रसमादाय शीतलम् ||८७|| मध्वाक्तं पाययेच्चैतत् कफपित्तोदरामये |८८|

🔊 Audio coming soon

Adhikarana 47 (88) · Śloka 89

एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ||८८|| पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान् |८९|

🔊 Audio coming soon

Adhikarana 48 (89-90) · Śloka 90

बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् ||८९|| कौटजं फाणितं वाऽपि हन्त्यतीसारमोजसा | अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् ||९०||

🔊 Audio coming soon

Adhikarana 49 (91) · Śloka 91

पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः | सनागरैः पिबेत् पेयां साधितामुदरामयी ||९१||

🔊 Audio coming soon

Adhikarana 50 (92) · Śloka 93

अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान् | आवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्रवाम् ||९२|| एषा सर्वानतीसारान् हन्ति पक्वानसंशयम् |९३|

🔊 Audio coming soon

Adhikarana 51 (93-94) · Śloka 94

रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ||९३|| धातकी नागरं चैव पाययेत्तण्डुलाम्बुना | सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः ||९४||

🔊 Audio coming soon

Adhikarana 52 (95) · Śloka 96

मधुकं बिल्वपेशी च शर्करामधुसंयुता | अतीसारं निहन्युश्च शालिषष्टिकयोः कणाः ||९५|| तद्वल्लीढं मधुयुतं बदरीमूलमेव तु |९६|

🔊 Audio coming soon

Adhikarana 53 (96) · Śloka 97

बदर्यर्जुनजम्ब्वाम्रशल्लकीवेतसत्वचः ||९६|| शर्कराक्षौद्रसंयुक्ताः पीता घ्नन्त्युदरामयम् |९७|

🔊 Audio coming soon

Adhikarana 54 (97) · Śloka 98

एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ||९७|| पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान् |९८|

🔊 Audio coming soon

Adhikarana 55 (98) · Śloka 99

कृतं शाल्मलिवृन्तेषु कषायं हिमसञ्ज्ञितम् ||९८|| निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम् |९९|

🔊 Audio coming soon

Adhikarana 56 (99-102) · Śloka 102

विबद्धवातविट् शूलपरीतः सप्रवाहिकः ||९९|| सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः | यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् ||१००|| चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिः शृतम् | दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् ||१०१|| हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये | पिच्छिलस्वरसे सिद्धं हितं च घृतमुच्यते ||१०२||

🔊 Audio coming soon

Adhikarana 57 (103) · Śloka 104

शकृता यस्तु संसृष्टमतिसार्येत शोणितम् | प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः ||१०३|| क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्रशर्करम् |१०४|

🔊 Audio coming soon

Adhikarana 58 (104-105) · Śloka 105

दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर्घृतम् ||१०४|| संयुक्तं भद्ररोहिण्या पक्वं पेयादिमिश्रितम् | त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् ||१०५||

🔊 Audio coming soon

Adhikarana 59 (106) · Śloka 106

गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः | ज्वरे दाहे सविड्बन्धे मारुताद्रक्तपित्तवत् ||१०६||

🔊 Audio coming soon

Adhikarana 60 (107) · Śloka 107

सम्पक्वे बहुदोषे च विबन्धे मूत्रशोधनैः | कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम् ||१०७||

🔊 Audio coming soon

Adhikarana 61 (108) · Śloka 108

प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे | मधुराम्लैः शृतं तैलं सर्पिर्वाऽप्यनुवासनम् ||१०८||

🔊 Audio coming soon

Adhikarana 62 (109) · Śloka 109

गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः | तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः ||१०९||

🔊 Audio coming soon

Adhikarana 63 (110) · Śloka 110

दधिमण्डसुराबिल्वसिद्धं तैलं समारुते | भोजने च हितं क्षीरं कच्छुरामूलसाधितम् ||११०||

🔊 Audio coming soon

Adhikarana 64 (111) · Śloka 111

अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते | यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः ||१११||

🔊 Audio coming soon

Adhikarana 65 (112) · Śloka 112

प्रायेण गुददौर्बल्यं दीर्घकालातिसारिणाम् | भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम् ||११२||

🔊 Audio coming soon

Adhikarana 66 (113) · Śloka 113

कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः | यूथिका कच्छुरा शेलुः शणश्चुच्चूश्च दाधिकाः ||११३||

🔊 Audio coming soon

Adhikarana 67 (114) · Śloka 115

शालपर्णी पृश्निपर्णी बृहती कण्टकारिका | बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम् ||११४|| एष आहारसंयोगे हितः सर्वातिसारिणाम् |११५|

🔊 Audio coming soon

Adhikarana 68 (115) · Śloka 115

तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा ||११५||

🔊 Audio coming soon

Adhikarana 69 (116) · Śloka 117

पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते | पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् ||११६|| ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम् |११७|

🔊 Audio coming soon

Adhikarana 70 (117-118) · Śloka 119

यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ||११७|| स पल्लवैर्वटादीनां ससर्पिः साधितं पयः | पिबेत् सशर्कराक्षौद्रमथवाऽप्यभिमथ्य तत् ||११८|| नवनीतमथो लिह्यात्तक्रं चानुपिबेत्ततः |११९|

🔊 Audio coming soon

Adhikarana 71 (119) · Śloka 120

प्रियालशाल्मलीप्लक्षशल्लकीतिनिशत्वचः ||११९|| क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः |१२०|

🔊 Audio coming soon

Adhikarana 72 (120) · Śloka 121

मधुकं शर्करां लोध्रं पयस्यामथ सारिवाम् ||१२०|| पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम् |१२१|

🔊 Audio coming soon

Adhikarana 73 (121) · Śloka 122

मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् ||१२१|| पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये |१२२|

🔊 Audio coming soon

Adhikarana 74 (122-124) · Śloka 124

शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः ||१२२|| तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च | तिला मोचरसो लोध्रं तथैव मधुकोत्पलम् ||१२३|| कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च | आजेन पयसा पेयाः सरक्ते मधुसंयुताः ||१२४||

🔊 Audio coming soon

Adhikarana 75 (125) · Śloka 125

द्रवे सरक्ते स्रवति बालबिल्वं सफाणितम् | सक्षौद्रतैलं प्रागेव लिह्यादाशु हितं हि तत् ||१२५||

🔊 Audio coming soon

Adhikarana 76 (126) · Śloka 126

कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु | सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् ||१२६||

🔊 Audio coming soon

Adhikarana 77 (127) · Śloka 127

बिल्वमध्यं समधुकं शर्कराक्षौद्रसंयुतम् | तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् ||१२७||

🔊 Audio coming soon

Adhikarana 78 (128) · Śloka 128

योगान् साङ्ग्राहिकांश्चान्यान् पिबेत्सक्षौद्रशर्करान् | न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् ||१२८||

🔊 Audio coming soon

Adhikarana 79 (129) · Śloka 129

गुदपाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः |१२९|

🔊 Audio coming soon

Adhikarana 80 (129) · Śloka 129

रुजायां चाप्रशाम्यन्त्यां पिच्छाबस्तिर्हितो भवेत् ||१२९||

🔊 Audio coming soon

Adhikarana 81 (130-131) · Śloka 131

सक्तविड् दोषबहुलं दीप्ताग्निर्योऽतिसार्यते | विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत् ||१३०|| अथवैरण्डसिद्धेन पयसा केवलेन वा | यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः ||१३१||

🔊 Audio coming soon

Adhikarana 82 (132) · Śloka 132

दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत् | स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् ||१३२||

🔊 Audio coming soon

Adhikarana 83 (133) · Śloka 133

स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च |१३३|

🔊 Audio coming soon

Adhikarana 84 (133) · Śloka 133

स्विन्नानि पिष्टवद्वाऽपि समं बिल्वशलाटुभिः ||१३३||

🔊 Audio coming soon

Adhikarana 85 (134) · Śloka 134

दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम् |१३४|

🔊 Audio coming soon

Adhikarana 86 (134) · Śloka 135

शशमांसं सरुधिरं समङ्गां सघृतं दधि ||१३४|| खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षये |१३५|

🔊 Audio coming soon

Adhikarana 87 (135) · Śloka 136

संस्कृतो यमके माषयवकोलरसः शुभः ||१३५|| भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः |१३६|

🔊 Audio coming soon

Adhikarana 88 (136) · Śloka 137

विडं बिल्वशलाटूनि नागरं चाम्लपेषितम् ||१३६|| दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः |१३७|

🔊 Audio coming soon

Adhikarana 89 (137) · Śloka 137

सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते | स पिबेद्दीपनैर्युक्तं सर्पिः सङ्ग्राहकैः सह ||१३७||

🔊 Audio coming soon

Adhikarana 90 (138) · Śloka 138

वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य | प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः ||१३८||

🔊 Audio coming soon

Adhikarana 91 (139) · Śloka 140

प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च | सशोणिता शोणितसम्भवा तु ताः स्नेहरूक्षप्रभवा मतास्तु ||१३९|| तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च |१४०|

🔊 Audio coming soon

Adhikarana 92 (140) · Śloka 141

न शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा ||१४०|| तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च |१४१|

🔊 Audio coming soon

Adhikarana 93 (141-142) · Śloka 143

आर्द्रैः कुशैः सम्परिवेष्टितानि वृन्तान्यथार्द्राणि हि शाल्मलीनाम् ||१४१|| पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत | क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वाऽपि ||१४२|| बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे |१४३|

🔊 Audio coming soon

Adhikarana 94 (143) · Śloka 144

द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण ||१४३|| क्षीरेण चास्थापनमग्र्यमुक्तं... |१४४|

🔊 Audio coming soon

Adhikarana 95 (144) · Śloka 144

...तैलेन युञ्ज्यादनुवासनं च |१४४|

🔊 Audio coming soon

Adhikarana 96 (144) · Śloka 144

वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने ||१४४||

🔊 Audio coming soon

Adhikarana 97 (145) · Śloka 145

लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम् |१४५|

🔊 Audio coming soon

Adhikarana 98 (145-149) · Śloka 149

दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चा(स्सा)रकपीडितस्तु ||१४५|| सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन | शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः ||१४६|| वातघ्नसाङ्ग्राहिकदीपनीयैः कृतान् षडांश्चाप्युपभोजयेच्च | खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् ||१४७|| एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत् | मेध्य(द्य)स्य सिद्धं त्वथ वाऽपि रक्तं बस्तस्य दध्ना घृततैलयुक्तम् ||१४८|| खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः | माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान् ||१४९||

🔊 Audio coming soon

Adhikarana 99 (150) · Śloka 151

महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत् | पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् ||१५०|| स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम् |१५१|

🔊 Audio coming soon

Adhikarana 100 (151) · Śloka 152

मधुरौषधसिद्धं च हितं तस्यानुवासनम् ||१५१|| रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः |१५२|

🔊 Audio coming soon

Adhikarana 101 (152-153) · Śloka 153

यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा ||१५२|| प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका | तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् ||१५३||

🔊 Audio coming soon

Adhikarana 102 (154) · Śloka 154

पाठाजमोदाकुटजोत्पलं च शुण्ठी समा मागधिकाश्च पिष्टाः | सुखाम्बुपीताः शमयन्ति रोगं... |१५४|

🔊 Audio coming soon

Adhikarana 103 (154) · Śloka 154

... मेध्याण्डसिद्धं सघृतं पयो वा ||१५४||

🔊 Audio coming soon

Adhikarana 104 (155) · Śloka 155

शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वाऽऽमयमाशु हन्यात् |१५५|

🔊 Audio coming soon

Adhikarana 105 (155) · Śloka 156

गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि ||१५५|| बिल्वान्विता पथ्यतमा यवागू... |१५६|

🔊 Audio coming soon

Adhikarana 106 (156) · Śloka 156

...र्धारोष्णदुग्धस्य तथा च पानम् |१५६|

🔊 Audio coming soon

Adhikarana 107 (156-157) · Śloka 157

लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु ||१५६|| हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः ||१५७||

🔊 Audio coming soon

Adhikarana 108 (158) · Śloka 158

तृष्णापनयनी लघ्वी दीपनी बस्तिशोधनी | ज्वरे चैवातिसारे च यवागूः सर्वदा हिता ||१५८||

🔊 Audio coming soon

Adhikarana 109 (159) · Śloka 160

रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे | भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी ||१५९|| विषार्शःकृमिसम्भूते हिता चोभयशर्मदा |१६०|

🔊 Audio coming soon

Adhikarana 110 (160) · Śloka 160

छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः ||१६०||

🔊 Audio coming soon

Adhikarana 111 (161) · Śloka 161

समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत् | ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् ||१६१||

🔊 Audio coming soon

Adhikarana 112 (162) · Śloka 162

यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति | दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः ||१६२||

🔊 Audio coming soon

Adhikarana 113 (163) · Śloka 163

कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे | कर्मदोषोद्भवाश्चान्ये... |१६३|

🔊 Audio coming soon

Adhikarana 114 (163) · Śloka 164

... कर्मजास्तेष्वहेतुकाः ||१६३|| नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसङ्क्षये |१६४|

🔊 Audio coming soon

Adhikarana 115 (164) · Śloka 164

शाम्यन्ति दोषसम्भूता दोषसङ्क्षयहेतुभिः ||१६४||

🔊 Audio coming soon

Adhikarana 116 (165) · Śloka 165

तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च | मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते ||१६५||

🔊 Audio coming soon

Adhikarana 117 (166) · Śloka 166

कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते |१६६|

🔊 Audio coming soon

Adhikarana 118 (166) · Śloka 166

दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः ||१६६||

🔊 Audio coming soon

Adhikarana 119 (167-168) · Śloka 168

अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः | भूयः सन्दूषितो वह्निर्ग्रहणीमभिदूषयेत् ||१६७|| तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत् | यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||१६८||

🔊 Audio coming soon

Adhikarana 120 (169) · Śloka 169

षष्ठी पित्तधरा नाम या कला परिकीर्तिता | पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता ||१६९||

🔊 Audio coming soon

Adhikarana 121 (170) · Śloka 170

ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः | तस्मात् सन्दूषिते वह्नौ ग्रहणी सम्प्रदुष्यति ||१७०||

🔊 Audio coming soon

Adhikarana 122 (171-172) · Śloka 172

एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः | सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति ||१७१|| पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्रवम् | ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः ||१७२||

🔊 Audio coming soon

Adhikarana 123 (173) · Śloka 173

तस्योत्पत्तौ विदाहोऽन्ने सदनालस्यतृट्क्लमाः | बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् ||१७३||

🔊 Audio coming soon

Adhikarana 124 (174-175) · Śloka 175

अथ जाते भवेज्जन्तुः शूनपादकरः कृशः | पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवान् ||१७४|| उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् | प्रसेकमुखवैरस्यतमकारुचिपीडितः ||१७५||

🔊 Audio coming soon

Adhikarana 125 (176) · Śloka 176

वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः | पित्तात् सदाहैर्गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः ||१७६||

🔊 Audio coming soon

Adhikarana 126 (177) · Śloka 177

दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः | हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः ||१७७||

🔊 Audio coming soon

Adhikarana 127 (178-180) · Śloka 181

यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम् | पेयादिं वितरेत् सम्यग्दीपनीयोपसम्भृतम् ||१७८|| ततः पाचनसङ्ग्राहिदीपनीयगणत्रयम् | पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः ||१७९|| तक्रेण वाऽथ तक्रं वा केवलं हितमुच्यते | कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् ||१८०|| चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम् |१८१|

🔊 Audio coming soon

Adhikarana 128 (181) · Śloka 182

कल्केन मगधादेश्च चाङ्गेरीस्वरसेन च ||१८१|| चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत् |१८२|

🔊 Audio coming soon

Adhikarana 129 (182) · Śloka 182

सर्वथा दीपनं सर्वं ग्रहणीरोगिणां हितम् ||१८२||

🔊 Audio coming soon

Adhikarana 130 (183) · Śloka 183

ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः ||१८३||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 40

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽतिसारप्रतिषेधो नाम (द्वितीयोऽध्यायः, आदितः) चत्वारिंशोऽध्यायः ||४०||

🔊 Audio coming soon