Adhikarana 1 (1-2) · Śloka 2
अथातः क्रियाकल्पं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
प्रागुक्ताध्यायेषु चिकित्सितान्यभिहितानि, तेषु चिकित्सितेषु सर्वत्र तर्पणादेः क्रियाया अभिहितत्वात् सङ्क्षेपार्थमेकत्र तर्पणादिकल्पनविस्तराय क्रियाकल्पः प्रतिपाद्यो भवतीत्याह- अथात इत्यादि| क्रियाणां तर्पणपुटपाकादीनां कल्पनं करणं क्रियाकल्पः||१-२||
Adhikarana 2 (3) · Śloka 3
सर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः |
वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः ||३||
क्रियाकल्पविषयेऽपि प्राङ्निर्दिष्टं यत् तर्पणादि तत्पूर्वकर्मप्रधानकर्महीनयोगातियोगोत्तरकर्मभिर्निर्दिदिक्षुराह- सर्वशास्त्रार्थेत्यादि| सर्वशास्त्रार्थतत्त्वज्ञादिगुणयुक्तः काशिपतिर्मुनिर्वैश्वामित्रं शिष्यं शशासेति पिण्डार्थः| तपसा दृष्टिर्दर्शनं विशेषज्ञानोदयो यस्यासौ तपोदृष्टिः| उदारा महती धीर्यस्य स उदारधीः| विश्वामित्रस्यापत्यं वैश्वामित्रः सुश्रुतस्तम्| शशास शिक्षितवानित्यर्थः| अथशब्दो मङ्गलार्थः| काशिपतिर्मुनिरिति राजर्षिः धन्वन्तरिरित्यर्थः||३||
Adhikarana 3 (4) · Śloka 4
तर्पणं पुटपाकश्च सेक आश्च्योतनाञ्जने |
तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे ||४||
कास्ताः क्रिया यासां कल्पनमित्याह- तर्पणमित्यादि| यानि तर्पणपुटपाकादीनि तत्र तत्र वाताभिष्यन्दादावुपदिष्टानि सङ्क्षेपतः कथितानि तेषां विस्तरं मत्सकाशान्निबोध जानीहीति पिण्डार्थः| शिरोबस्तिः सर्वेन्द्रियतर्पणात् तर्पणोक्तेरेवोक्तो मन्तव्यः, पुटपाकसेकाश्च्योतनान्यपि स्नेहयुक्तानि तर्पणरूपत्वात् तर्पण एवान्तर्भवन्ति, यत् पुनरुपादानं पुटपाकादीनां तद्रूक्षाणां पुटपाकादीनां ग्रहणाय कृतमित्यर्थः||४||
Adhikarana 4 (5-11) · Śloka 11
संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने |
पूर्वाह्णे वाऽपराह्णे वा कार्यमक्ष्णोस्तु तर्पणम् ||५||
वातातपरजोहीने वेश्मन्युत्तानशायिनः |
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ ||६||
समौ दृढावसम्बाधौ कर्तव्यौ नेत्रकोशयोः |
पूरयेद्घृतमण्डस्य विलीनस्य सुखोदके ||७||
आपक्ष्माग्रात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु |
स्वस्थे, कफे षट्, पित्तेऽष्टौ, दश वाते तदुत्तमम् ||८||
रोगस्थानविशेषेण केचित् कालं प्रचक्षते |
यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च ||९||
दश दृष्ट्यामथाष्टौ च वाक्शतानि विभावयेत् |
ततश्चापाङ्गतः स्नेहं स्रावयित्वाऽक्षि शोधयेत् ||१०||
स्विन्नेन यवपिष्टेन, स्नेहवीर्येरितं ततः |
यथास्वं धूमपानेन कफमस्य विशोधयेत् ||११||
तर्पणं कथं कार्यमित्याह- संशुद्धेत्यादि| संशुद्धदेहशिरस इति सिरामोक्षणविरेचननिरूहशिरोविरेचनैः सम्यक्शुद्धकायमस्तकस्येत्यर्थः| वेश्मनि गृहे| आधारौ पाली इत्यर्थः| क्लिन्नेन पानीयालोडितेन| परिमण्डलौ वर्तुलौ, द्वावपि नेत्रकोशौ परिवार्य स्थितावित्यर्थः| एतेन तिर्यक्पूरणे घृतस्य मात्रोक्ता| समौ अनिम्नोन्नतौ, दृढौ अच्छिद्रौ, असम्बाधौ असङ्कटौ| नेत्रकोशयोरित्यत्र ‘परितः’ इति शेषः| घृतमण्डो घृतस्योपर्यच्छो भागः| सुखोदके उष्णोदके| आपक्ष्माग्रादित्यत्र पूरयेदिति सम्बन्धनीयम्| आपक्ष्माग्रात् वर्त्मलोमपर्यन्तमित्यर्थः| एतेनोर्ध्वं पूरणे घृतस्य मात्रोक्ता भवति| तर्पणं कियत्कालं स्थाप्यमिति दर्शयन्नाह- तत इत्यादि| तच्च प्रमाणमुत्तमं, दोषबलापेक्षया पुनर्ह्रासोऽपि कर्तव्यः| इदानीं स्वमतं प्रदर्श्य परमतमपि दर्शयन्नाह- रोगेत्यादि| रोगस्थानविशेषेणेति सन्धिवर्त्मशुक्लादिभेदेनेत्यर्थः| कथं रोगस्थानविशेषेण कालं प्रचक्षते इत्याह- यथाक्रमोपदिष्टेष्वित्यादि| यथाक्रमकथितेषु सन्ध्यादिरोगस्थानेष्वित्यर्थः| तत्र त्रीणि वाक्शतानि सन्धौ, वर्त्मन्येकं, शुक्ले पञ्च, कृष्णे सप्त, सर्वत्र दश, दृष्टावपि दश अष्टौ वा| तत इत्यादि| अपाङ्गतः अपाङ्गात्, भ्रूपुच्छान्तप्रदेशादित्यर्थः| स्नेहं स्रावयित्वा शलाकाकृतद्वारेण| स्नेहवीर्येरितमित्यादि| स्नेहवीर्येरितं स्नेहशक्त्या प्रेरितम्| ततः स्नेहापनयनान्तरम्| यथास्वं धूमपानेनेति कफप्रत्यनीकेन शिरोविरेचनधूमपानेनेत्यर्थः||५-११||
Adhikarana 5 (12) · Śloka 12
एकाहं वा त्र्यहं वाऽपि पञ्चाहं चेष्यते परम् |१२|
कति दिनानि तर्पणप्रयोगस्तदाह- एकाहमित्यादि| एकाहं वाते, त्र्यहं पित्ते, पञ्चाहं कफे इति गयी; एकाहं न्यूनदोषे, त्र्यहं मध्यदोषे, पञ्चाहमधिकदोषे इति जेज्जटाचार्यः| परमित्युत्कृष्टप्रमाणं यथा स्यात्; एतेनातः परं तर्पणं न योज्यम्| तच्च तर्पणं विदेहानुमतेन निरन्तरं दिनान्तरं द्व्यन्तरं त्र्यन्तरं वा योज्यम्| तथा च विदेहः,- “स्वस्ववृत्ते विधातव्यं द्व्यन्तरं तर्पणं भवेत्| अहन्यहनि वातोत्थे, रक्तपित्ते दिनान्तरम्|| तर्पणं सन्निपातोत्थे द्व्यन्तरं, त्र्यन्तरं कफे” इति|१२|-
Adhikarana 6 (12-13) · Śloka 13
तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् ||१२||
सुखस्वप्नावबोधत्वं वैशद्यं वर्णपाटवम् |
निर्वृतिर्व्याधिविध्वंसः क्रियालाघवमेव च ||१३||
तर्पणे इत्यादि| वैशद्यं मलाभावः| वर्णपाटवं श्वेतत्वादेर्वर्णस्य यथार्थग्रहणं; अन्ये तु नेत्रगतस्यैव शुक्लकृष्णादेर्वर्णस्य वैमल्यमाहुः| निर्वृतिः तात्कालिकं सुखमुत्पन्नम्| क्रियालाघवमिति क्रियाणां निमेषोन्मेषादीनां शीघ्रता; अन्ये तु क्रिया निमेषोन्मेषणादिकाः, लाघवं नेत्रयोरेव लघुतेत्याहुः||१२-१३||
Adhikarana 7 (14) · Śloka 14
गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत् |
ज्ञेयं दोषसमुत्क्लिष्टं नेत्रमत्यर्थतर्पितम् ||१४||
अतितर्पितस्य नेत्रस्य लक्षणमाह- गुर्वाविलमित्यादि| आविलम् आकुलं, दोषसमुत्क्लिष्टं दोषव्याप्तम्||१४||
Adhikarana 8 (15) · Śloka 15
रूक्षमाविलमस्राढ्यमसहं रूपदर्शने |
व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च ||१५||
हीनतर्पितस्य नयनस्य लक्षणमाह- रूक्षमित्यादि| अस्राढ्यम् अश्रुबहुलम्||१५||
Adhikarana 9 (16) · Śloka 16
अनयोर्दोषबाहुल्यात् प्रयतेत चिकित्सिते |
धूमनस्याञ्जनैः सेकै रूक्षैः स्निग्धैश्च योगवित् ||१६||
इदानीमतितृप्तातृप्तयोश्चिकित्सामुद्दिशन्नाह- अनयोरित्यादि| एतैर्धूमनस्याञ्जनसेकै रूक्षैः पित्तश्लेष्मभूयिष्ठे, वातभूयिष्ठे तु स्निग्धैरिति| योगवित् शास्त्रविद्वैद्यः||१६||
Adhikarana 10 (17) · Śloka 18
ताम्यत्यतिविशुष्कं यद्रूक्षं यच्चातिदारुणम् |
शीर्णपक्ष्माविलं जिह्मं रोगक्लिष्टं च यद्भृशम् ||१७||
तदक्षि तर्पणादेव लभेतोर्जामसंशयम् |१८|
तर्पणविषयं निर्दिशन्नाह- ताम्यतीत्यादि| ताम्यति अन्धकारमिव पश्यति| अतिविशुष्कम् अश्रुरहितम्| रूक्षम् अस्निग्धच्छवि| दारुणं कठिनवर्त्म| जिह्मं रूपक्रियासु जडम्| ऊर्जां बलम्||१७||-
Adhikarana 11 (18) · Śloka 19
दुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च ||१८||
अशान्तोपद्रवे चाक्ष्णि तर्पणं न प्रशस्यते |१९|
तर्पणविषयमाह- दुर्दिनेत्यादि| अशान्तोपद्रवे चेति अशान्ता अस्वल्पीभूता उदीर्णवेदनादय उपद्रवा यत्र तस्मिन्||१८||-
Adhikarana 12 (19) · Śloka 20
पुटपाकस्तथैतेषु, नस्यं येषु च गर्हितम् ||१९||
तर्पणार्हा न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये |२०|
इदानीं पुटपाकस्य विषयाविषयमाह- पुटपाक इत्यादि| पुटपाकस्तथैतेष्विति एतेषु पूर्वोक्तेषु तर्पणार्हेषु पुटपाकस्तथाऽर्हतीत्यर्थः| अयं पुटपाकस्य विषयः, अविषयस्तु नस्यं येषु च गर्हितमित्यादिकः| नस्यं येषु च गर्हितमिति येषु नस्यं गर्हितं तेषु पुटपाकोऽपि गर्हितः| तर्पणार्हा न ये प्रोक्ता इति ये चिन्ताभ्रमगृहीतादयस्तर्पणं नार्हन्ति ते पुटपाकमपि नार्हन्ति| स्नेहपानाक्षमाश्च ये दुर्बलारोचकिप्रभृतयः स्नेहपानं न क्षमन्ते ते पुटपाकमपि न क्षमन्ते इत्यर्थः||१९||-
Adhikarana 13 (20-21) · Śloka 21
ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च ||२०||
पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत् |
स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा ||२१||
इदानीं पुटपाकस्यावस्थिकं कालमुद्दिशन्नाह- तत इत्यादि| एवम्भूतेषु नेत्रेषु भिषजा पुटपाकः प्रयोक्तव्यो भवेदिति पिण्डार्थः| प्रशान्तदोषेष्विति प्रशब्दोऽयमादिकर्मणि, तेन प्रथमकर्मशान्तावस्थदोषेष्वित्यर्थः| पुटपाकक्षमेषु चेति तर्पणनस्यस्नेहपानार्हेष्वित्यर्थः; तर्पणाद्यनर्हाणि पुनः पुटपाकं न क्षमन्ते| स्नेहन इत्यादि||२०-२१||
Adhikarana 14 (22) · Śloka 22
हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः |
दृष्टेर्बलार्थमपरः पित्तासृग्व्रणवातनुत् ||२२||
तेषां त्रिविधानामपि विषयमाह- हित इत्यादि| अपर इति रोपणीयः पुटपाक इत्यर्थः| ‘हितः स्निग्धोऽतिरूक्षस्य’ इत्यत्र ‘त्रिविधः स हितो रूक्षे’ इति केचित् पठन्ति| ‘पित्तासृग्व्रणवातनुत्’ इत्यत्र ‘पित्तासृग्व्रणनाशन’ इति पठन्ति||२२||
Adhikarana 15 (23) · Śloka 23
स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः |
स्नेहनः पुटपाकस्तु धार्यो द्वे वाक्शते तु सः ||२३||
स्नेहनपुटपाकमाह- स्नेहेत्यादि| स्नेहमांसमिति स्नेहप्रधानं मांसम्, आनूपमित्यर्थः, ‘सर्पिर्मांस’ इति केचित् पठन्ति| स्वाद्वौषधैः काकोल्यादिभिः, कृतः संस्कृतः||२३||
Adhikarana 16 (24-25) · Śloka 25
जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसम्भृतैः |
कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः ||२४||
समुद्रफेनकासीसस्रोतोजदधिमस्तुभिः |
लेखनो वाक्शतं तस्य परं धारणमुच्यते ||२५||
लेखनपुटपाकमाह- जाङ्गलानामित्यादि| जाङ्गला एणादयः| यकृत् कालखण्डानि, मांसानि च कालखण्डासन्नान्येव| विद्रुमः प्रवालः, सिन्धुजं सैन्धवम्||२४-२५||
Adhikarana 17 (26) · Śloka 26
स्तन्यजाङ्गलमध्वाज्यतिक्तद्रव्यविपाचितः |
लेखनात्त्रिगुणं धार्यः पुटपाकस्तु रोपणः ||२६||
रोपणपुटपाकमाह- स्तन्यजाङ्गलेत्यादि| स्तन्यं स्त्रीस्तन्यं, जाङ्गलेत्यत्र मांसमिति शेषः; ‘मध्वाज्य’ इत्यत्र ‘मेध्याज्य’ इति केचित् पठन्ति, मेध्याज्यं गव्यं घृतमिति व्याख्यानयन्ति||२६||
Adhikarana 18 (27) · Śloka 27
वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम् |
स्नेहस्वेदौ द्वयोः कार्यौ, कार्यो नैव च रोपणे ||२७||
इदानीं स्नेहनलेखनयोः पूर्वकर्माह- वितरेदित्यादि| रोपणं पुटपाकं परित्यज्य तर्पणोक्तं धूमं द्वयोर्वितरेत् कुर्यात्, तथा स्नेहस्वेदौ द्वयोरेव कार्याविति पिण्डार्थः||२७||
Adhikarana 19 (28) · Śloka 28
एकाहं वा द्व्यहं वाऽपि त्र्यहं वाऽप्यवचारणम् |२८|
एकाहमित्यादि| एकाहं श्लैष्मिके नेत्ररोगे पुटपाकस्यावचारणं, द्व्यहं पैत्तिके, त्र्यहं वातिके; अन्ये तु एकाहं लेखनीयस्यावचारणं, द्व्यहं स्नेहनस्य, त्र्यहं रोपणीयस्येति|२८|-
Adhikarana 20 (28) · Śloka 28
यन्त्रणा तु क्रियाकालाद्द्विगुणं कालमिष्यते ||२८||
तर्पणपुटपाकयोरेकत्र परिहार्यकालमुद्दिशन्नाह- यन्त्रणा तु क्रियाकालाद्द्विगुणमित्यादि| क्रियाकालात् स्नेहपानादेरारभ्य यः कालस्तस्माद् द्विगुणः कालः; न पुनस्तर्पणकालात्, तस्याल्पत्वात्||२८||
Adhikarana 21 (29) · Śloka 29
तेजांस्यनिलमाकाशमादर्शं भास्वराणि च |
नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा ||२९||
परिहार्याण्याह- तेजांस्यनिलमित्यादि| तेजांसि दीपज्वालाप्रभृतीनि, अनिलं सम्मुखवायुं, भास्वराणि आदित्यादीनि||२९||
Adhikarana 22 (30) · Śloka 30
मिथ्योपचारादनयोर्यो व्याधिरुपजायते |
अञ्जनाश्च्योतनस्वेदैर्यथास्वं तमुपाचरेत् ||३०||
अधुना तयोर्व्यापच्चिकित्साबीजमुद्दिशन्नाह- मिथ्योपचारादित्यादि| अनयोः तर्पणपुटपाकयोः||३०||
Adhikarana 23 (31) · Śloka 31
प्रसन्नवर्णं विशदं वातातपसहं लघु |
सुखस्वप्नावबोध्यक्षि पुटपाकगुणान्वितम् ||३१||
पुटपाकस्य सम्यग्योगमाह- प्रसन्नवर्णमित्यादि||३१||
Adhikarana 24 (32) · Śloka 32
अतियोगाद्रुजः शोफः पिडकास्तिमिरोद्गमः |३२|
पुटपाकस्यातियोगमाह- अतियोगाद्रुज इत्यादि|३२|-
Adhikarana 25 (32) · Śloka 32
पाकोऽश्रु हर्षणं चापि हीने दोषोद्गमस्तथा ||३२||
पुटपाकस्य हीनयोगमाह- पाक इत्यादि| हर्षो वेदनाविशेषोऽन्तःशीतकरः||३२||
Adhikarana 26 (33-38) · Śloka 38
अत ऊर्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम् |
द्वौ बिल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्य पेषितौ ||३३||
द्रव्याणां बिल्वमात्रं तु द्रवाणां कुडवो मतः |
तदैकध्यं समालोड्य पत्रैः सुपरिवेष्टितम् ||३४||
(काश्मरीकुमुदैरण्डपद्मिनीकदलीभवैः ) |
मृदावलिप्तमङ्गारैः खादिरैरवकूलयेत् ||३५||
कतकाश्मन्तकैरण्डपाटलावृषबादरैः |
सक्षीरद्रुमकाष्ठैर्वा गोमयैर्वाऽपि युक्तितः ||३६||
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं नृणाम् |
तर्पणोक्तेन विधिना यथावदवचारयेत् ||३७||
कनीनके निषेच्यः स्यान्नित्यमुत्तानशायिनः |
रक्ते पित्ते च तौ शीतौ कोष्णौ वातकफापहौ ||३८||
अत ऊर्ध्वमित्यादि| श्लक्ष्णस्य मांसस्य द्वौ पिण्डौ बिल्वमात्रौ प्रत्येकं पलप्रमाणौ कार्यवित्यर्थः| द्रव्याणां बिल्वमात्रमिति स्नेहनलेखनरोपणेषु पुटपाकेषु यथाक्रमं मधुरौषधलेखनद्रव्यतिक्तद्रव्याणां पलप्रमाणमित्यर्थः| द्रवाणां कुडव इति अष्टौ पलानि; केचिच्चत्वारि पलानि, कस्मात्? कुडवादूर्ध्वं द्विगुणपरिभाषा| तत्र स्नेहनपुटपाकस्य पेषणालोडनार्थं मांसरसमधुरौषधकषायक्षीराणि, लेखनस्य मधुमस्तुत्रिफलोदकानि, रोपणस्य तिक्तकषाय इति| अवकूलयेत् विपचेत्| क्षीरद्रुमा वटादयः| युक्तित इति पदमवकूलयेदित्यत्र सम्बन्धनीयम्| युक्तिस्तु ‘पुटपाकस्य पाकोऽयं बहिरारक्तवर्णता’ इति| इदानीं तर्पणपुटपाकयोर्दोषोपयोगिधर्मन्तरं निर्दिशन्नाह- रक्ते इत्यादि||३३-३८||
Adhikarana 27 (39-40) · Śloka 40
अत्युष्णतीक्ष्णौ सततं दाहपाककरौ स्मृतौ |
अप्लुतौ शीतलौ चाश्रुस्तम्भरुग्घर्षकारकौ ||३९||
अतिमात्रौ कषायत्वसङ्कोचस्फुरणावहौ |
हीनप्रमाणौ दोषाणामुत्क्लेशजननौ भृशम् ||४०||
तर्पणपुटपाकयोर्विरुद्धगुणमात्रयोर्व्यापदो निर्दिशन्नाह- अत्युष्णेत्यादि| अप्लुतौ मन्दप्लतौ||३९-४०||
Adhikarana 28 (41) · Śloka 42
युक्तौ कृतौ दाहशोफरुग्धर्षस्रावनाशनौ |
कण्डूपदेहदूषीकारक्तराजिविनाशनौ ||४१||
तस्मात् परिहरन् दोषान् विदध्यात्तौ सुखावहौ |४२|
युक्तौ कृतावित्यादि| दूषीका नेत्रमलः, दोषान् अत्युष्णतीक्ष्णादिकान्||४१||-
Adhikarana 29 (42) · Śloka 42
व्यापदश्च यथादोषं नस्यधूमाञ्जनैर्जयेत् ||४२||
इदानीं व्यापच्चिकित्सामाह- व्यापदश्च यथादोषमित्यादि| व्यापदो दाहपाकादिकाः, यथादोषं दोषानतिक्रमेण||४२||
Adhikarana 30 (43) · Śloka 43
आद्यन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुचैलिकः |
तथा हितोऽवसाने च धूमः श्लेष्मसमुच्छ्रितौ ||४३||
इदानीं तर्पणपुटपाकयोः पूर्वकर्म पश्चात्कर्म चाह- आद्यन्तयोश्चाप्यनयोरित्यादि| अनयोः तर्पणपुटपाकयोः| स्वेद उष्णाम्बुचैलिक इति उष्णाम्बुसिक्तेन कर्पटेन स्वेद इत्यर्थः| ‘तथा हितोऽवसाने च धूमः श्लेष्मसमुत्थितौ’ इति केचित् पठन्ति||४३||
Adhikarana 31 (44) · Śloka 44
यथादोषोपयुक्तं तु नातिप्रबलमोजसा |
रोगमाश्च्योतनं हन्ति सेकस्तु बलवत्तरम् ||४४||
इदानीमाश्च्योतनसेकावाह- यथादोषोपयुक्तमित्यादि| यथादोषोपयुक्तमिति वातादिजे नेत्ररोगे वातादिहरद्रव्यसिद्धमाश्च्योतनमित्यर्थः| नातिप्रबलं नात्युत्कटं रोगम्| ओजसा शक्त्या| सेकस्तु बलवत्तरमिति यथादोषोपयुक्तः परिषेकः पुनर्बलवत्तरमिति प्रबलं रोगं हन्ति| तौ चाश्च्योतनसेकौ चतुर्थेऽहन्यागतरोगलक्षणे प्रयोक्तव्यौ| तथा च विदेहः- “प्रागेवाक्ष्यामये कार्यं त्रिरात्रं लघुभोजनम्| उपवासस्त्र्यहं वा स्यान्नक्तं वाऽप्यशनं त्र्यहम्|| ततश्चतुर्थे दिवसे व्याधिं सञ्जातलक्षणम्| समीक्ष्याश्च्योतनैः सेकैर्यथास्वमुपपादयेत्”- इति||४४||
Adhikarana 32 (45) · Śloka 45
तौ त्रिधैवोपयुज्येते रोगेषु पुटपाकवत् |४५|
तावित्यादि| तौ आश्च्योतनसेकौ| त्रिधैवेति स्नेहनलेखनरोपणभेदेन पुटपाकवत्त्रिप्रकारावित्यर्थः| तयोश्च पेषणालोडनार्थं द्रवाणि पुटपाकोक्तान्येव| तयोरेव सम्यग्योगो हीनयोगो मिथ्यायोगश्च पुटपाकवत्| आश्च्योतनस्य धारणकालः पुटपाकवत्| परिषेकस्य पुनरिहैवाग्रे धारणकालं कथयिष्यामः| केचिदाश्च्योतनसेकयोः पुटपाकाद् द्विगुणं कालं मन्यन्ते| तन्न, ‘सेकस्य द्विगुणः कालः पुटपाकात् परो मत’ इत्यत्रोक्तेन सह विरोधापत्तेः|४५|-
Adhikarana 33 (45) · Śloka 46
लेखने सप्त चाष्टौ वा बिन्दवः स्नैहिके दश ||४५||
आश्च्योतने प्रयोक्तव्या द्वादशैव तु रोपणे |४६|
लेखनादीनामाश्च्योतनानां बिन्दुसङ्ख्यामाह- लेखने सप्त चाष्टौ वेत्यादि| लेखने लेखनाश्च्योतने सप्ताष्टौ वा बिन्दवः||४५||-
Adhikarana 34 (46) · Śloka 46
सेकस्य द्विगुणः कालः पुटपाकात् परो मतः ||४६||
इदानीं परिषेकस्य धारणकालमाह- सेकस्येत्यादि| तत्र लेखनपरिषेकस्य वाक्शतद्वयं धारणकालः, स्नेहनस्य वाक्शतचतुष्टयं, रोपणस्य षड्वाक्शतानि||४६||
Adhikarana 35 (47) · Śloka 47
अथवा कार्यनिर्वृत्तेरुपयोगो यथाक्रमम् |४७|
पक्षान्तरमाह- अथवेत्यादि| कार्यनिर्वृत्तिः व्याधेरुपशमः प्रकृतिवर्णोपपत्तिः क्रियापाटवं वेदनोपशमश्च कार्यं, तस्य निष्पत्तिः कार्यनिर्वृत्तिः| यथाक्रमं शनैः शनैरित्यर्थः| अयं कार्यनिर्वृत्तिलक्षणो धारणकाल आश्च्योतनसेकयोः| अन्ये तु सर्वेषां तर्पणादीनामयं धारणकाल इति वदन्ति| अपरे तु पुटपाकसेकयोरयं कालः; तत्र पुटपाकसेकयोर्द्रव्यभेदतो भेदः|४७|-
Adhikarana 36 (47) · Śloka 47
पूर्वापराह्णे मध्याह्ने रुजाकालेषु चोभयोः ||४७||
इदानीमाश्च्योतनसेकयोर्यथादोषं प्रयोगकालमाह- पूर्वापराह्ण इत्यादि| कफजे व्याधौ पूर्वाह्णे लेखनावाश्च्योतनसेकौ प्रयोज्यौ, वातजेऽपराह्णे स्नेहनौ, रक्तपित्तजे मध्याह्ने रोपणौ| रुजाकालेषु चेत्यावस्थिकः कालः, तेन यदैव रुगुत्पद्यते तदैव सेकाश्च्योतनौ प्रयोज्यौ| उभयोः आश्च्योतनसेकयोः| केचित् परिषेकस्यैवायं प्रयोगकाल इति कथयन्ति||४७||
Adhikarana 37 (48) · Śloka 48
योगायोगात् स्नेहसेके तर्पणोक्तान् प्रचक्षते |४८|
इदानीं परिषेकस्य द्रव्यविशेषकृतस्य सङ्क्षेपार्थं योगायोगलक्षणमाह- योगायोगानित्यादि| योगः सम्यग्योगः, अयोगः सम्यग्योगाभावः| तेनायोगशब्देन हीनमिथ्यातियोगाः प्राप्यन्ते, अतः पृथङ्नेहोक्ताः| अन्ये तु, अयोगे इत्यत्र नशब्देनैव हीनयोगमिथ्यायोगावाक्षिप्तौ, अतियोगस्य तु मात्राकालाभ्यामेव पर्युदासः कृत इति| स्नैहिके केवलघृतपरिषेके| तर्पणोक्तान् सुखस्वप्नावबोधित्वमित्यादीन्| इदं योगायोगलक्षणं केवलं स्नेहपरिषेकस्यैव बोद्धव्यं, क्षीरेक्षुरसादिकृतस्य स्नेहनीयाख्यपरिषेकस्य योगायोगलक्षणं पुटपाकवत् कथितम्|४८|-
Adhikarana 38 (47-50) · Śloka 51
रोगाञ्छिरसि सम्भूतान् हत्वाऽतिप्रबलान् गुणान् ||४८||
करोति शिरसो बस्तिरुक्ता ये मूर्धतैलिकाः |
शुद्धदेहस्य सायाह्ने यथाव्याध्यशितस्य तु ||४९||
ऋज्वासीनस्य बध्नीयाद्वस्तिकोशं ततो दृढम् |
यथाव्याधिशृतस्नेहपूर्णं संयम्य धारयेत् ||५०||
तर्पणोक्तं दशगुणं यथादोषं विधानवित् |५१|
शिरोबस्तिमाह- रोगानित्यादि| अतिप्रबलान् शिरसि सम्भूतान् रोगान् शिरोभितापादीन् हत्वा शिरोबस्तिर्ये मूर्धतैलिका गुणा उक्तास्तान् करोतीति सम्बन्धः| शिरोऽत्र ग्रीवापर्यन्तं ग्राह्यं, नतु षडङ्गुलोत्सेधम्| मूर्धतैलिका गुणा शिरोगतांस्तथा रोगानित्यादयः शिरसः प्रतिपूरणपर्यन्ता अनागताबाधप्रतिषेधोक्ताः| शुद्धदेहस्य वमनादिभिर्निर्मलशरीरस्य; अथवा शुद्धदेहस्य नस्यादिभिर्विशुद्धमस्तकस्य, देहावयवेऽपि देहोपचारात्; अथवा शिरःशुद्धावपि देहस्य शुद्धिरिति| सायाह्ने दिनावसाने| यथाव्याध्यशितस्येति व्याधिप्रत्यनीकं भुक्तवत इत्यर्थः| ऋज्विति ऋजु यथा स्यादेवं बस्तिकोशं बध्नीयात्, ‘केशान्त’ इति शेषः| अथवा ऋज्विति आसीनस्य विशेषणम्| बस्तिकोशमित्युक्तेनैव पट्टचेलिकामाषचूर्णादिकमाक्षिप्तम्| यथाव्याधिशृतस्नेहपूर्णं यथाव्याधिदोषदूष्यहितद्रव्यसिद्धस्नेहपूर्णम्| संयम्य धारयेत् यावत् केशभूमेरुपरि द्व्यङ्गुलं बद्ध्वा धारयेत्| कियत्कालं शिरोबस्तिं धारयेदित्याह- तर्पणोक्तमित्यादि| तर्पणोक्तमक्षितर्पणकथितकालं दशगुणं शिरोबस्तिरवचार्यः| यथादोषमिति तत्र षण्मात्रासहस्राणि श्लेष्मणि, अष्टौ सहस्राणि पित्ते, दशसहस्राणि वाते इति; अपरं च वातरोगचिकित्सिते शिरोगतवातप्रस्तावे व्याख्यातम्| केचिदमुं पाठमन्यथा पठन्ति, स चाभावान्न लिखितः||४७-५०||
Adhikarana 39 (51-52) · Śloka 52
व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले ||५१||
नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत् |
लेखनं रोपणं चापि प्रसादनमथापि वा ||५२||
इदानीमञ्जनस्यावस्थिकं कालमुद्दिशन्नाह- व्यक्तरूपेष्वित्यादि| व्यक्तरूपेषु सामतापगमेन व्यक्तात्मरूपप्राप्तेषु| शुद्धकायस्य सिराव्यधिविरेचननिरूहशिरोविरेचनैर्हृतमलदेहस्य| केवले अन्यदोषासंसृष्टे| नेत्रे एव स्थिते अक्षिगोलकत्वङ्मात्रस्थिते, न पुनः पक्ष्माद्याश्रिते| प्राप्तं युक्तम्| केचित् ‘दोषेषु’ इत्यत्र ‘रोगेषु’ इति पठन्ति, रोगशब्दो दोषेष्वपि वर्तते इति व्याख्यानयन्ति| इदानीमञ्जनभेदं निर्दिशन्नाह- लेखनमित्यादि||५१-५२||
Adhikarana 40 (53) · Śloka 53
तत्र पञ्च रसान् व्यस्तानाद्यैकरसवर्जितान् |
पञ्चधा लेखनं युञ्ज्याद्यथादोषमतन्द्रितः ||५३||
लेखनमाह- तत्रेत्यादि| पञ्चरसान् पञ्चरसद्रव्याणीत्यर्थः| आद्यैकरसवर्जितान् मधुररसवर्जितान्| पञ्चधेति वातपित्तश्लेष्मरक्तसन्निपातभेदेन| यथादोषं दोषानतिक्रमेण| तत्र वाते अम्ललवणौ, पित्ते तिक्तकषायौ, श्लेष्मणि कटुतिक्तकषायाः, रक्ते पित्तवत्, सन्निपाते रसद्वयं त्रयं वा| सन्निपातेनैव संसर्गोऽवरुद्धः, अतोऽत्र पृथङ्नोक्तः| लेखनं दोषस्रावणान्नयनस्य रिक्तीकरणम्||५३||
Adhikarana 41 (54) · Śloka 54
नेत्रवर्त्मसिराकोशस्रोतःशृङ्गाटकाश्रितम् |
मुखनासाक्षिभिर्दोषमोजसा स्रावयेत्तु तत् ||५४||
लेखनं यथा दोषस्य स्रावणं कुरुते तथा दर्शयन्नाह- नेत्रेत्यादि| नेत्रवर्त्मनोर्याः सिरा यश्च कोशो यानि च स्रोतांसि तत्र स्थितं दोषं, तथा शृङ्गाटकमर्माश्रितं च दोषं तल्लेखनाञ्जनं मुखादिभिरोजसा प्रभावेण स्रावयेदिति पिण्डार्थः||५४||
Adhikarana 42 (55) · Śloka 55
कषायं तिक्तकं वाऽपि सस्नेहं रोपणं मतम् |
तत्स्नेहशैत्याद्वर्ण्यं स्याद्दृष्टेश्च बलवर्धनम् ||५५||
रोपणमाह- कषायेत्यादि| सस्नेहम् ईषद्घृतयुक्तम्||५५||
Adhikarana 43 (56) · Śloka 56
मधुरं स्नेहसम्पन्नमञ्जनं तु प्रसादनम् |
दृष्टिदोषप्रसादार्थं स्नेहनार्थं च तद्धितम् ||५६||
प्रसादनमाह- मधुरमित्यादि| दृष्टिदोषप्रसादार्थं दृष्टिस्थदोषप्रसादार्थमित्यर्थः||५६||
Adhikarana 44 (57) · Śloka 57
यथादोषं प्रयोज्यानि तानि रोगविशारदैः |
अञ्जनानि यथोक्तानि प्राह्णसायाह्नरात्रिषु ||५७||
यथेत्यादि| तानि यथोक्तानि लेखनादीन्यञ्जनानि रोगविशारदैर्वैद्यैर्यथादोषं प्राह्णसायाह्नरात्रिषु प्रयोज्यानीति पिण्डार्थः| तत्र पूर्वाह्णे श्लेष्मरोगे लेखनाञ्जनं, सायाह्ने वातजे, रात्रौ पित्तजे| अन्ये तु आदौ शोधनाञ्जनं, ततो रोपणं; अपरे तु प्रसादनमिति वदन्ति| अपरमपि ऋतुभेदादर्थान्तरमस्ति, तच्च विस्तरभयान्न लिखितम्||५७||
Adhikarana 45 (58) · Śloka 58
गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु |
यथापूर्वं बलं तेषां श्रेष्ठमाहुर्मनीषिणः ||५८||
इदानीमप्येकैकमञ्जनं गुटिकादिभेदात्त्रिप्रकारमिति दर्शयन्नाह- गुटिकारसेत्यादि| रसोऽत्र घनरसो रसक्रियेत्यर्थः| यथापूर्वं बलं तेषामिति एतेनैतदुक्तं भवति- महाबलानां रोगाणां गुटिकाञ्जनं, मध्यानां रसक्रियाञ्जनं, हीनानां चूर्णाञ्जनम्||५८||
Adhikarana 46 (59) · Śloka 59
हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः |
प्रसादनस्य चाध्यर्धा द्विगुणा रोपणस्य च ||५९||
इदानीं प्रमाणावसरः- हरेणुमात्रा वर्तिरित्यादि| हरेणुः वर्तुलकलायः, अध्यर्धा सार्धकलायप्रमाणेत्यर्थः, द्विगुणा द्विकलायप्रमाणेत्यर्थः||५९||
Adhikarana 47 (60) · Śloka 60
रसाञ्जनस्य मात्रा तु यथावर्तिमिता मता |६०|
गुटिकाञ्जनप्रमाणमभिधाय रसक्रियाञ्जनप्रमाणमाह- रसाञ्जनस्येत्यादि| रसाञ्जनस्य रसक्रियाञ्जनस्य, ‘रसाञ्जनद्रव्यस्य’ इत्येके, तन्मते रसक्रियाञ्जनप्रमाणमन्यत्रान्वेषणीयम्| यथावर्तिमिता मता इति यथास्ववर्तिप्रमाणमात्रेत्यर्थः| तत्र लेखनरसक्रियाञ्जनस्य लेखनवर्तिवत् प्रमाणं, रोपणस्य रोपणवर्तिवत्, प्रसादनस्य प्रसादनवर्तिवत्|६०|-
Adhikarana 48 (60) · Śloka 60
द्वित्रिचतुःशलाकाश्च चूर्णस्याप्यनुपूर्वशः ||६०||
चूर्णाञ्जनप्रमाणमाह- द्वित्रिचतुरित्यादि| अनुपूर्वशो लेखनादीनामञ्जनानामानुपूर्व्येणेत्यर्थः| तत्र शलाकाद्वयं लेखनचूर्णस्य, तिस्रो रोपणस्य, चतस्रः प्रसादनस्य||६०||
Adhikarana 49 (61) · Śloka 62
तेषां तुल्यगुणान्येव विदध्याद्भाजनान्यपि |
सौवर्णं राजतं शार्ङ्गं ताम्रं वैदूर्यकांस्यजम् ||६१||
आयसानि च योज्यानि शलाकाश्च यथाक्रमम् |६२|
इदानीमञ्जनानि किङ्गुणे किम्मये पात्रे स्थापयितव्यानि, तथा किङ्गुणानि किम्मयशलाकानीत्याह- तेषामित्यादि| तुल्यगुणानीति सौवर्णे मधुरं, राजते अम्लं, शार्ङ्गे मेषशृङ्गमये लवणं, ताम्रे लोहमये वा कषायं, वैदूर्ये कटुकं, कांस्ये तिक्तं, शीताञ्जनं तु नलादिमये, एवं समानगुणानि भाजनानि विदध्यात् कुर्यात्| शलाकाश्चैषां भाजनद्रव्यगुणेन यथाक्रममेव व्याख्याताः||६१||-
Adhikarana 50 (62) · Śloka 63
वक्त्रयोर्मुकुलाकारा कलायपरिमण्डला ||६२||
अष्टाङ्गुला तनुर्मध्ये सुकृता साधुनिग्रहा |६३|
तासां शलाकानामाकारमुद्दिशन्नाह- वक्त्रयोर्मुकुलाकारेत्यादि| मुकुलाकारा मल्लिकादिमुकुलस्येव निर्गच्छतो यद्वन्मुखं तदाकारा; कलायपरिमण्डलत्वेन तीक्ष्णाग्रत्वनिषेधः; सुकृता कर्कशादिदोषरहिता; साधुनिग्रहा सुखग्रहेत्यर्थः||६२||-
Adhikarana 51 (63) · Śloka 63
औदुम्बर्यश्मजा वाऽपि शारीरी वा हिता भवेत् ||६३||
इदानीं ताम्रादिजानां शलाकानां हितत्वं प्रतिपादयन्नाह- औदुम्बरीत्यादि| औदुम्बरी ताम्रमयी, अश्मजा वैदूर्यादिपाषाणजा, शारीरी शृङ्गादिजा, अपिशब्दात् सुवर्णादिजाऽपि हितेत्यर्थः| तथा च तन्त्रान्तरे,- “आयसी रोपणे, ताम्रा लेख्ये, हैमी प्रसादने| शेषा अपि यथादोषं प्रयोज्या रसकोविदैः”- इति| केचित् शारीरीशब्देन अङ्गुलिमाचक्षते, तन्नेच्छति गयी||६३||
Adhikarana 52 (64-65) · Śloka 65
वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः |
शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम् ||६४||
आपाङ्ग्यं वा यथायोगं कुर्याच्चापि गतागतम् |
वर्त्मोपलेपि वा यत्तदङ्गुल्यैव प्रयोजयेत् ||६५||
वामेनेत्यादि| निर्भुज्य वक्रीकृत्य| कनीन्यां नासासमीपे नेत्रावयवे अञ्जनं कानीनं, तच्चाञ्जनं कनीनकप्रदेशादपाङ्गं नयेत्, आपाङ्ग्यं चेति अपाङ्गे नेत्रान्ते भवम् आपाङ्ग्यं, तच्चापाङ्गप्रदेशात् कनीनकप्रदेशं नयेत्| परं यथायोगं यथाऽतियोगहीनयोगौ न भवत इत्यर्थः| एवं गतागतमपि कुर्यात्| एतच्छलाकया अन्तर्नयनमञ्जनप्रणिधानं बोद्धव्यम्| अन्तर्नयनप्रणिधानमभिधाय बहिरञ्जनप्रणिधानमाह- वर्त्मेत्यादि| वर्त्मोपलेपि वर्त्मोपलेपनयोग्यम्||६४-६५||
Adhikarana 53 (66) · Śloka 66
अक्षि नात्यन्तयोरञ्ज्याद्बाधमानोऽपि वा भिषक् |६६|
अक्षीत्यादि| अन्तयोः कनीनकापाङ्गयोः| नात्यञ्ज्यात् ईषदञ्ज्यात्, क्षतभयात्| बाधमानोऽपि वेति बाधां कुर्वन् वैद्यो वा नाञ्ज्यादित्यर्थः| ‘अक्षि नात्यन्तयोरञ्ज्यात्’ इत्यत्र ‘नात्यन्तमञ्जयेदक्षि’ इति केचित् पठन्ति; तत्र च पाठे सर्वत्राप्यत्यन्ताञ्जननिषेधः कृतो भवति|६६|-
Adhikarana 54 (66) · Śloka 67
न चानिर्वान्तदोषेऽक्ष्णि धावनं सम्प्रयोजयेत् ||६६||
दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलं तथा |६७|
इदानीमकाले प्रक्षालननिषेधमाह- न चेत्यादि| न चानिर्वान्तदोषे इति निश्चयेन सम्यग्योगेन न वान्तोऽश्रुदूषिकादिरूपो दोषो येन तस्मिन्नित्यर्थः| धावनं न सम्प्रयोजयेत् प्रक्षालनं न प्रयोजयेत्, दोषप्रत्यावृत्तिहेतुत्वात्| अकालप्रक्षालनात् किं स्यादित्याह- दोष इत्यादि| प्रतिनिवृत्तः पुनरावृत्तः| तथेत्यकालप्रक्षालनप्रकारेणेत्यर्थः||६६||-
Adhikarana 55 (67) · Śloka 68
गतदोषमपेताश्रु पश्येद्यत् सम्यगम्भसा ||६७||
प्रक्षाल्याक्षि यथादोषं कार्यं प्रत्यञ्जनं ततः |६८|
कीदृशं पुनश्चक्षुः प्रक्षाल्यमित्याह- गतदोषमित्यादि| प्रत्यञ्जनं तीक्ष्णाञ्जनेन कटुभूतनयनस्य यदञ्जनं शीतं, तथा शीतेन जडीभूतनयनस्य यत्तीक्ष्णमञ्जनमित्यर्थः| केचिदमुं पाठं न पठन्ति, तन्नेच्छति गयी||६७||-
Adhikarana 56 (68-69) · Śloka 69
श्रमोदावर्तरुदितमद्यक्रोधभयज्वरैः ||६८||
वेगाघातशिरोदोषैश्चार्तानां नेष्यतेऽञ्जनम् |
रागरुक्तिमिरास्रावशूलसंरम्भसम्भवात् ||६९||
इदानीमञ्जनस्य पूर्वाह्णादिकान् कालान् सामान्येन स्वस्थातुरयोः प्रतिपाद्य, आवस्थिकेषु कालेष्वञ्जननिषेधमाह- श्रमोदावर्तेत्यादि| श्रमादिभिरार्तानां पुरुषाणामञ्जनं नेष्यत इति सम्बन्धः| केचिदत्र ‘शान्ते भीते प्ररुदिते मद्यपीते नवज्वरे| उष्णे वेगाभिघाते च नाञ्जनं सम्प्रशस्यते’ इति पठन्ति, तत्रापि स एवार्थः| कस्माच्छ्रमादिभिरार्तानामञ्जनं नेष्यत इत्याह- रागरुगित्यादि| संरम्भः श्वयथुः||६८-६९||
Adhikarana 57 (70-73) · Śloka 73
निद्राक्षये क्रियाशक्तिं, प्रवाते दृग्बलक्षयम् |
रजोधूमहते रागस्रावाधीमन्थसम्भवम् ||७०||
संरम्भशूलौ नस्यान्ते, शिरोरुजि शिरोरुजम् |
शिरःस्नातेऽतिशीते च रवावनुदितेऽपि च ||७१||
दोषस्थैर्यादपार्थं स्याद्दोषोत्क्लेशं करोति च |
अजीर्णेऽप्येवमेव स्यात् स्रोतोमार्गावरोधनात् ||७२||
दोषवेगोदये दत्तं कुर्यात्तांस्तानुपद्रवान् |
तस्मात् परिहरन् दोषानञ्जनं साधु योजयेत् ||७३||
इदानीं सामान्येनाञ्जनवैगुण्येन व्यापदः प्रदर्श्य प्रतिवैगुण्यं व्यापद आह- निद्राक्षये इत्यादि| क्रियाशक्तिं निमेषोन्मेषणादीनामशक्तिम् ‘अञ्जनं करोति’ इत्यध्याहार्यम्| केचित् क्रियासङ्गमिति पठन्ति| प्रवाते इत्यादि| दृग्बलं दृष्टेर्बलमित्यर्थः| संरम्भः श्वयथुः| अपार्थम् अकिञ्चित्करम्| एतदुक्तं भवति- एतैः स्नानादिभिः स्थिरीकृतस्य दोषस्य निर्हरणं कर्तुमञ्जनं न शन्कोतीत्यर्थः| एवमेवेत्यपार्थकमञ्जनं स्यात् दोषोत्क्लेशं च करोतीत्यर्थः| उपद्रवान् रागशोफादिकान्| साधु योजयेदिति देशकालावस्थापेक्षमित्यर्थः||७०-७३||
Adhikarana 58 (74) · Śloka 74
लेखनस्य विशेषेण काल एष प्रकीर्तितः |७४|
लेखनस्येत्यादि| लेखनस्य लेखनाञ्जनस्यैष पूर्वोक्तः प्रतिषेधकालः|७४|-
Adhikarana 59 (74) · Śloka 75
व्यापदश्च जयेदेताः सेकाश्च्योतनलेपनैः ||७४||
यथास्वं धूमकवलैर्नस्यैश्चापि समुत्थिताः |७५|
अकालाञ्जनकृतानां व्यापदां चिकित्सितमाह- व्यापद इत्यादि| एता रागरुजाद्याः समुत्थिता व्यापदो यथास्वं सेकादिभिर्जयेदिति सम्बन्धः||७४||-
Adhikarana 60 (75) · Śloka 76
विशदं लघ्वनास्रावि क्रियापटु सुनिर्मलम् ||७५||
संशान्तोपद्रवं नेत्रं विरिक्तं सम्यगादिशेत् |७६|
इदानीं लेखनाञ्जनस्य सम्यग्योगलक्षणमाह- विशदमित्यादि||७५||-
Adhikarana 61 (76) · Śloka 77
जिह्मं दारुणदुर्वर्णं स्रस्तं रूक्षमतीव च ||७६||
नेत्रं विरेकातियोगे स्यन्दते चातिमात्रशः |७७|
लेखनाञ्जनस्यातियोगलक्षणमाह- जिह्ममित्यादि| जिह्मं वक्रं, दारुणं कठिनं, स्यन्दते स्रवति||७६||-
Adhikarana 62 (77) · Śloka 77
तत्र सन्तर्पणं कार्यं विधानं चानिलापहम् ||७७||
लेखनाञ्जनातियोगप्रतीकारमाह- तत्रेत्यादि| तत्रेति लेखनाञ्जनातियोगे इत्यर्थः||७७||
Adhikarana 63 (78) · Śloka 78
अक्षि मन्दविरिक्तं स्यादुदग्रतरदोषवत् |७८|
लेखनाञ्जनस्य हीनयोगमाह- अक्षि मन्दविरिक्तमित्यादि| उदग्रतरदोषवत् उत्कटतरदोषयुक्तम्|७८|-
Adhikarana 64 (78) · Śloka 78
धूमनस्याञ्जनैस्तत्र हितं दोषावसेचनम् ||७८||
हीनयोगप्रतीकारमाह- धूमनस्याञ्जनैरित्यादि| केचिदत्र ‘नस्यधूमाञ्जनालेपैर्जयेच्छ्लेष्माणमीरितम्’ इति पाठं पठन्ति; तत्रापि स एवार्थः||७८||
Adhikarana 65 (79) · Śloka 79
स्नेहवर्णबलोपेतं प्रसन्नं दोषवर्जितम् |
ज्ञेयं प्रसादने सम्यगुपयुक्तेऽक्षि निर्वृतम् ||७९||
प्रसादनाञ्जनस्य सम्यग्योगमाह- स्नेहेत्यादि| निर्वृतं सर्वक्रियाक्षमम्, उपशान्तोपद्रवमिति यावत्||७९||
Adhikarana 66 (80) · Śloka 80
किञ्जिद्धीनविकारं स्यात्तर्पणाद्धि कृतादति |८०|
प्रसादनाञ्जनातियोगमाह- किञ्चिदित्यादि| तर्पणादतिकृतात् सकृदतिकृते प्रसादनाञ्जने किञ्चिद्धीनविकारं चक्षुः स्यादिति तात्पर्यार्थः|८०|-
Adhikarana 67 (80) · Śloka 80
तत्र दोषहरं रूक्षं भेषजं शस्यते मृदु ||८०||
प्रसादनाञ्जनातियोगचिकित्सामाह- तत्रेत्यादि| दोषहरं कफहरमित्यर्थः| मृदु मृदुवीर्यं शीतवीर्यमित्यर्थः; उष्णेन हि नयनं दुष्यति न तु प्रसाद्यते||८०||
Adhikarana 68 (81) · Śloka 81
साधारणमपि ज्ञेयमेवं रोपणलक्षणम् |
प्रसादनवदाचष्टे तस्मिन् युक्तेऽतिभेषजम् ||८१||
इदानीं रोपणाञ्जनस्य सम्यग्योगमतियोगं चातिदेशेनाह- साधारणमित्यादि| एवं रोपणलक्षणमिति प्रसादनाञ्जनस्य सम्यग्योगातियोगप्रकारेण रोपणाञ्जनस्य सम्यग्योगातियोगलक्षणं ज्ञेयम्| परं साधारणं नातिस्निग्धरूक्षमिति यावत्| अन्ये तु रोपणलक्षणमेवं प्रसादनाञ्जनव्यञ्जनेन साधारणं समानं ज्ञेयमिति व्याख्यानयन्ति| रोपणाञ्जनातियोगे चिकित्सामाह- प्रसादनवदित्यादि| तस्मिन् रोपणाञ्जनेऽतिप्रयुक्ते प्रसादनवत् प्रसादनाञ्जनातियोगवद्भेषजमाचष्टे ब्रूयादिति पिण्डार्थः||८१||
Adhikarana 69 (82) · Śloka 82
स्नेहनं रोपणं वाऽपि हीनयुक्तमपार्थकम् |८२|
इदानीं प्रसादनरोपणयोर्हीनयोगमाह- स्नेहनमित्यादि| स्नेहनं प्रसादनाञ्जनम्| अपार्थकम् अकिञ्चित्करम्|८२|-
Adhikarana 70 (82) · Śloka 82
कर्तव्यं मात्रया तस्मादञ्जनं सिद्धिमिच्छता ||८२||
कर्तव्यमित्यादि| मात्रयेति यथा हीनातियोगौ न भवतः| सिद्धिं विकारनिवृत्तिम्| अस्याग्रे विद्यमानपुस्तकेषु ‘धूमैर्नस्याञ्जनैर्वाऽपि दोषशेषं शमं नयेत्’ इति पाठो विद्यते, स जेज्जटादिभिर्न पठितः, तस्मान्न पठितव्यः||८२||
Adhikarana 71 (83) · Śloka 83
पुटपाकक्रियद्यासु क्रियास्वेषै(कै)व कल्पना |
सहस्रशश्चाञ्जनेषु बीजेनोक्तेन पूजिताः ||८३||
इदानीमञ्जनोक्तेन मधुररसवर्जपञ्चरसेन लेखनाञ्जनकल्पनाबीजेन, तथा तिक्तकषायेण सस्नेहेन रोपणाञ्जनकल्पनाबीजेन, तथा मधुररसेन स्नेहसम्पन्नेन प्रसादनाञ्जनकल्पनाबीजेन, पुटपाकाद्यासु क्रियास्वञ्जनेष्वपि लेखनरोपणप्रसादनकल्पनाः सहस्रप्रकाराः कल्पनीया इत्याह- पुटपाकेत्यादि| अञ्जनेषूक्तेन लेखनरोपणप्रसादनाख्येन बीजेन पुटपाकक्रियाद्यासु क्रियासु तथाऽनुक्तेष्वञ्जनेष्वप्यौषधकल्पनाः लेखनरोपणप्रसादनाख्याः सहस्रशः पूजिता इति पिण्डार्थः| पुटपाकक्रियाद्यास्वित्यत्र आदिशब्दात् सेकाश्च्योतनादयो गृह्यन्ते| अन्ये त्वञ्जनोक्तेन हीनयोगातियोगचिकित्साबीजेन पुटपाकादिहीनातियोगचिकित्सितं व्याचक्षते, तन्नेच्छति गयी||८३||
Adhikarana 72 (84) · Śloka 84
दृष्टेर्बलविवृद्ध्यर्थं याप्यरोगक्षयाय च |
राजार्हान्यञ्जनाग्र्याणि निबोधेमान्यतः परम् ||८४||
इदानीं रोगापहरणप्रयोगाण्यञ्जनान्यभिधाय स्वस्थातुरहितान्यञ्जनान्याह- दृष्टेर्बलविवृद्ध्यर्थमित्यादि| दृष्टिर्मसुरदलमात्रा तच्छक्तिबलाधानार्थं स्वस्थेन प्रसादाञ्जनं कार्यम्, आतुरेण याप्यरोगप्रसादनाञ्जनं कार्यं; याप्यरोगाश्च ‘सम्पश्यतः षडपि येऽभिहितास्तु काचा’ इत्यादिप्रोक्ताः| केचित्पाप्मरोगक्षयाय चेति पठन्ति, पाप्मशब्देन च स्रावणं कथयन्ति||८४||
Adhikarana 73 (85-93) · Śloka 93
अष्टौ भागानञ्जनस्य नीलोत्पलसमत्विषः |
औदुम्बरं शातकुम्भं राजतं च समासतः ||८५||
एकादशैतान् भागांस्तु योजयेत् कुशलो भिषक् |
मूषाक्षिप्तं तदाध्मातमावृतं जातवेदसि ||८६||
खदिराश्मन्तकाङ्गारैर्गोशकृद्भिरथापि वा |
गवां शकृद्रसे मूत्रे दध्नि सर्पिषि माक्षिके ||८७||
तैलमद्यवसामज्जसर्वगन्धोदकेषु च |
द्राक्षारसेक्षुत्रिफलारसेषु सुहिमेषु च ||८८||
सारिवादिकषाये च कषाये चोत्पलादिके |
निषेचयेत् पृथक् चैनं ध्मातं ध्मातं पुनः पुनः ||८९||
ततोऽन्तरीक्षे सप्ताहं प्लोतबद्धं स्थितं जले |
विशोष्य चूर्णयेन्मुक्तां स्फटिकं विद्रुमं तथा ||९०||
कालानुसारिवां चापि शुचिरावाप्य योगतः |
एतच्चूर्णाञ्जनं श्रेष्ठं निहितं भाजने शुभे ||९१||
दन्तस्फटिकवैदूर्यशङ्खशैलासनोद्भवे |
शातकुम्भेऽथ शार्ङ्गे वा राजते वा सुसंस्कृते |
सहस्रपाकवत् पूजां कृत्वा राज्ञः प्रयोजयेत् ||९२||
तेनाञ्जिताक्षो नृपतिर्भवेत् सर्वजनप्रियः |
अधृष्यः सर्वभूतानां दृष्टिरोगविवर्जितः ||९३||
तान्यञ्जनानि दर्शयन्नाह- अष्टावित्यादि| अञ्जनस्य सौवीराञ्जनस्य, स्रोतोजरसाञ्जनस्येत्यन्ये; नीलोत्पलसमत्विषः नीलोत्पलवर्णस्येत्यर्थः; ‘नीलोत्पलसुगन्धिनः’ इति केचित् पठन्ति| औदुम्बरं ताम्रभागं, शातकुम्भं सुवर्णभागं, राजतं रूप्यभागम्, एतेन ताम्रादीनां प्रत्येकमेकैकं भागं, एवमेकादश भागाः पूर्यन्ते| मूषा मृत्कल्पिता; सा तु धातुवादिनां गृहे प्रसिद्धा| आवृतं विलीनं, जातवेदसि अग्नौ, अङ्गारैः दग्धनिर्वापितकृष्णवर्णकाष्ठखण्डैः, गोशकृद्भिः शुष्कैर्गोपुरीषैः, गवामिति पदं शकृद्रसादिषु सर्पिःपर्यन्तेषु सम्बध्यते| माक्षिके मधुनि, वसा शुद्धमांसस्नेहः| अन्तरीक्षे तथा जले पानीये| प्लोतबद्धं कर्पटबद्धम्| केचिच्छिक्यारोपितं पानीयमान्तरीक्षं कथयन्ति| विशोष्य सप्तरात्रादनन्तरं तदञ्जनं शोषयित्वेत्यर्थः| मुक्ता मौक्तिकं, विद्रुमं प्रवालं, कालानुसारिवा तगरमूलं, जेज्जटस्तु द्वितीयसारिवामाह| शुचिरिति वैद्यविशेषणम्| आवाप्य प्रक्षिप्य, योगतः अल्पमात्रया| अन्ये तु सौवीराञ्जनादीनां चतुर्थांशेन मुक्तादिचूर्णं प्रक्षिप्येति व्याख्यानयन्ति| निहितं निक्षिप्तम्| असनो बीजकः, शातकुम्भे सुवर्णमये, शार्ङ्गे मेषशृङ्गमये| केचिदत्र स्फटिकवैदूर्यादिभाजनपाठं न पठन्ति; ते चात्र पात्राणां ताम्ररजतसुवर्णानां शुभभाजनं गृह्णन्ति| सहस्रपाकवत् शङ्खदुन्दुभिनिर्घोषादिना, पूज्यं पूजनीयम्| कृत्वेति पदं निहितमित्यत्र सम्बन्धनीयम्| केचित् सहस्रपाकवत् पूजां कृत्वेति पठन्ति| अधृष्यः अगम्यः| सर्वभूतानां देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागानामष्टानाम्| ‘दृष्टिरागविवर्जितं’ इति केचित् पठन्ति, रागशब्देन ‘सम्पश्यतः षडपि येऽभिहितास्तु काचा’ इति व्याख्यानयन्ति||८५-९३||
Adhikarana 74 (94-97) · Śloka 97
कुष्ठं चन्दनमेलाश्च पत्रं मधुकमञ्जनम् |
मेषशृङ्गस्य पुष्पाणि वक्रं रत्नानि सप्त च ||९४||
उत्पलस्य बृहत्योश्च पद्मस्यापि च केशरम् |
नागपुष्पमुशीराणि पिप्पली तुत्थमुत्तमम् ||९५||
कुक्कुटाण्डकपालानि दार्वीं पथ्यां सरोचनाम् |
मरिचान्यक्षमज्जानं तुल्यां च गृहगोपिकाम् ||९६||
कृत्वा सूक्ष्मं ततश्चूर्णं न्यसेदभ्यर्च्य पूर्ववत् |
एतद्भद्रोदयं नाम सदैवार्हति भूमिपः ||९७||
कुष्ठमित्यादि| वक्रं तगरं, रत्नानि सप्त पद्मरागमरकतनीलववैदूर्यमुक्ताप्रवालहेमानि| उत्पलस्य नीलोत्पलस्य, पुष्पाणि कुसुमानि, बृहत्योः कण्टकारीद्वयस्यापि कुसुमानि, तुत्थमुत्तमं मयूरग्रीवाख्यं, केचित् तुत्थं खर्परिकातुत्थं, उत्तमं मयूरग्रीवाख्यतुत्थमिति व्याख्यानयन्ति, गृहगोपिका गृहगोधिका, गृहकारिकेत्यन्ये| न्यसेत् शुभे भाजने प्रक्षिपेत्| अभ्यर्च्य शङ्खदुन्दुभिनिर्घोषादिना पूजां कृत्वा| पूर्ववत् यादृग्गुणं पूर्वाञ्जनं तादृग्गुणमेतदपि स्यादित्यर्थः| अन्ये तु पूर्ववत् शङ्खदुन्दुभिनिर्घोषादिनाऽभ्यर्च्येत्याहुः| भद्रोदयं भद्रस्य कल्याणस्य उदयो लाभो यस्मात्तत्तथा; अन्ये तु भद्र उदयो यस्येत्याहुः||९४-९७||
Adhikarana 75 (98-99) · Śloka 99
वक्रं समरिचं चैव मांसीं शैलेयमेव च |
तुल्यांशानि समानैस्तैः समग्रैश्च मनःशिला ||९८||
पत्रस्य भागाश्चत्वारो द्विगुणं सर्वतोऽञ्जनम् |
तावच्च यष्टीमधुकं पूर्ववच्चैतदञ्जनम् ||९९||
वक्रमित्यादि| समानैस्तैः समग्रैश्च मनःशिलेति समभागैः सर्वद्रव्यैः समा मनःशिलेत्यर्थः| पत्रस्य भागाश्चत्वार इति आद्यद्रव्यात् पत्रकस्य चत्वारो भागाः| द्विगुणं सर्वतोऽञ्जनं सर्वस्मादेव समुदिताञ्जनचूर्णाद्द्विगुणं सौवीराञ्जनम्; अन्ये तु अञ्जनशब्देन स्रोतोजरसाञ्जनमाहुः| तावच्च यष्टीमधुकं सौवीराञ्जनप्रमाणं यष्टीमधुकमित्यर्थः| अन्ये तु सर्वद्रव्यसमं यष्टीमधुकमिच्छन्ति| पूर्ववत् पूर्वमष्टौ भागानञ्जनस्येति यदुक्तमञ्जनं तत्तुल्यमेतदप्यञ्जनं फलश्रुत्या शङ्खादिध्वनिपूजनेन भाजनस्थापनेन च| अस्याग्रे केचिदुशीराद्यञ्जनं पठन्ति, तच्चाभावान्न लिखितम्||९८-९९||
Adhikarana 76 (100-102) · Śloka 102
मनःशिलां देवकाष्ठं रजन्यौ त्रिफलोषणम् |
लाक्षालशुनमञ्जिष्ठासैन्धवैलाः समाक्षिकाः ||१००||
रोध्रं सावरकं चूर्णमायसं ताम्रमेव च |
कालानुसारिवां चैव कुक्कुटाण्डदलानि च ||१०१||
तुल्यानि पयसा पिष्ट्वा गुटिकां कारयेद्बुधः |
कण्डूतिमिरशुक्लार्मरक्तराज्युपशान्तये ||१०२||
मनःशिलेत्यादि| ऊषणं मरिचम्||१००-१०२||
Adhikarana 77 (103-104) · Śloka 104
कांस्यापमार्जनमसी मधुकं सैन्धवं तथा |
एरण्डमूलं च समं बृहत्यंशद्वयान्वितम् ||१०३||
आजेन पयसा पिष्ट्वा ताम्रपात्रं प्रलेपयेत् |
सप्तकृत्वस्तु ता वर्त्यश्छायाशुष्का रुजापहाः ||१०४||
कांस्यापमार्जनमसीत्यादि| कांस्यापमार्जनमसी कांस्यापमार्जनस्योल्लेखननीलिका, नतं तगरमूलं, बृहत्यंशद्वयान्वितं बृहतीफलयोर्बृहतीमूलयोर्वा आद्यद्रव्याद्यदंशद्वयं तेन समन्वितम्||१०३-१०४||
Adhikarana 78 (105) · Śloka 105
पथ्यातुत्थकयष्ट्याह्वैस्तुल्यैर्मरिचषोडशा |
पथ्या सर्वविकारेषु वर्तिः शीताम्बुपेषिता ||१०५||
पथ्यातुत्थकेत्यादि| मरिचस्य षोडशभागो यस्याः सा मरिचषोडशा वर्तिः| पथ्या हिता||१०५||
Adhikarana 79 (106) · Śloka 106
रसक्रियाविधानेन यथोक्तविधिकोविदः |
पिण्डाञ्जनानि कुर्वीत यथायोगमतन्द्रितः ||१०६||
सा पुनः शुष्का वर्तिरञ्जनेऽवचार्यमाणा नयने क्षतादिजननीत्याशङ्क्य तस्याः प्रयोगमाह- रसक्रियाविधानेनेत्यादि| रसक्रियाविधानेन रसक्रियाया यद्विधानं नातितनु नातिघनं शलाकोपलेपक्षममङ्गुल्युपलेपक्षमं वा तेनेत्यर्थः| पिण्डाञ्जनानि वर्त्यञ्जनानि शिलापट्टकघृष्टानि पिष्टानि वा| एतेनैतदुक्तं- न कदाचिदपि शुष्कवर्त्या नयनमञ्ज्यादिति तात्पर्यार्थः| यथायोगमिति यथा नयने क्षतादयो न भवेयुरित्यर्थः| अतन्द्रितः अनलसः| केचिदमुं श्लोकमन्यथा व्याख्यानयन्ति, तच्च विस्तरभयान्न लिखितम्||१०६||
Adhikarana puShpikA · Śloka 18
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे क्रियाकल्पो नामाष्टादशोऽध्यायः ||१८||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालक्यतन्त्रेऽष्टादशोऽध्यायः||१८||