Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

17. dr̥ṣṭigatarōgapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो दृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

त्रयः साध्यास्त्रयोऽसाध्या याप्याः षट् च भवन्ति हि |३|

🔊 Audio coming soon

Adhikarana 3 (3) · Śloka 3

तत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः ||३||

🔊 Audio coming soon

Adhikarana 4 (4-5) · Śloka 6

दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च | पित्तश्लेष्महरं कुर्याद्विधिं शस्त्रक्षतादृते ||४|| नस्यसेकाञ्जनालेपपुटपाकैः सतर्पणैः | आद्ये तु त्रैफलं पेयं सर्पिस्त्रैवृतमुत्तरे ||५|| तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा |६|

🔊 Audio coming soon

Adhikarana 5 (6-7) · Śloka 8

गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा ||६|| गोमांसं मरिचं बीजं शिरीषस्य मनःशिला | वृन्तं कपित्थान्मधुना स्वयङ्गुप्ताफलानि च ||७|| चत्वार एते योगाः स्युरुभयोरञ्जने हिताः |८|

🔊 Audio coming soon

Adhikarana 6 (8-9) · Śloka 10

कुब्जकाशोकशालाम्रप्रियङ्गुनलिनोत्पलैः ||८|| पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः | सर्पिर्मधुयुतैश्चूर्णैर्वेणुनाड्यामवस्थितैः ||९|| अञ्जयेद् द्वावपि भिषक् पित्तश्लेष्मविभावितौ |१०|

🔊 Audio coming soon

Adhikarana 7 (10-11) · Śloka 12

आम्रजम्बूद्भवं पुष्पं तद्रसेन हरेणुकाम् ||१०|| पिष्ट्वा क्षौद्राज्यसंयुक्तं प्रयोज्यमथवाऽञ्जनम् | नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्रसैः ||११|| गुडिकाञ्जनमेतद्वा दिनरात्र्यन्धयोर्हितम् |१२|

🔊 Audio coming soon

Adhikarana 8 (12) · Śloka 13

रसाञ्जनरसक्षौद्रतालीशस्वर्णगैरिकम् ||१२|| गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये |१३|

🔊 Audio coming soon

Adhikarana 9 (13-14) · Śloka 14

शीतं सौवीरकं वाऽपि पिष्ट्वाऽथ रसभावितम् ||१३|| कूर्मपित्तेन मतिमान् भावयेद्रौहितेन वा | चूर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये ||१४||

🔊 Audio coming soon

Adhikarana 10 (15) · Śloka 15

काशमरीपुष्पमधुकदार्वीरोध्ररसाञ्जनैः | सक्षौद्रमञ्जनं तद्वद्धितमत्रामये सदा ||१५||

🔊 Audio coming soon

Adhikarana 11 (16) · Śloka 16

स्रोतोजं सैन्धवं कृष्णां रेणुकां चापि पेषयेत् | अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः ||१६||

🔊 Audio coming soon

Adhikarana 12 (17) · Śloka 18

कालानुसारिवां कृष्णां नागरं मधुकं तथा | तालीशपत्रं क्षणदे गाङ्गेयं च यकृद्रसे ||१७|| कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः |१८|

🔊 Audio coming soon

Adhikarana 13 (18) · Śloka 19

मनःशिलाभयाव्योषबलाकालानुसारिवाः ||१८|| सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः |१९|

🔊 Audio coming soon

Adhikarana 14 (19-20) · Śloka 21

गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत् ||१९|| क्षुद्राञ्जनं रसेनान्यद्यकृतस्त्रैफलेऽपि वा | गोमूत्राज्यार्णवमलपिप्पलीक्षौद्रकट्फलैः ||२०|| सैन्धवोपहितं युञ्ज्यान्निहितं वेणुगह्वरे |२१|

🔊 Audio coming soon

Adhikarana 15 (21-22) · Śloka 22

मेदो यकृद्धृतं चाजं पिप्पल्यः सैन्धवं मधु ||२१|| रसमामलकाच्चापि पक्वं सम्यङ्निधापयेत् | कोशे खदिरनिर्माणे तद्वत् क्षुद्राञ्जनं हितम् ||२२||

🔊 Audio coming soon

Adhikarana 16 (23) · Śloka 23

हरेणुमगधाजास्थिमज्जैलायकृदन्वितम् | यकृद्रसेनाञ्जनं वा श्लेष्मोपहतदृष्टये ||२३||

🔊 Audio coming soon

Adhikarana 17 (24) · Śloka 24

विपाच्य गोधायकृदर्धपाटितं सुपूरितं मागधिकाभिरग्निना | निषेवितं तद्यकृदञ्जनेन निहन्ति नक्तान्ध्यमसंशयं खलु ||२४||

🔊 Audio coming soon

Adhikarana 18 (25) · Śloka 25

तथा यकृच्छागभवं हुताशने विपाच्य सम्यङ्मगधासमन्वितम् | प्रयोजितं पूर्ववदाश्वसंशयं जयेत् क्षपान्ध्यं सकृदञ्जनान्नृणाम् ||२५||

🔊 Audio coming soon

Adhikarana 19 (26) · Śloka 26

प्लीहा यकृच्चाप्युपभक्षिते उभे प्रकल्प्य शूल्ये घृततैलसंयुते | ते सार्षपस्नेहसमायुतेऽञ्जनं नक्तान्ध्यमाश्वेव हतः प्रयोजिते ||२६||

🔊 Audio coming soon

Adhikarana 20 (27) · Śloka 27

नदीजशिम्बीत्रिकटून्यथाञ्जनं मनःशिला द्वे च निशे य(श)कृद्गवाम् | सचन्दनेयं गुटिकाऽथवाऽञ्जनं प्रशस्यते वै दिवसेष्वपश्यताम् ||२७||

🔊 Audio coming soon

Adhikarana 21 (28) · Śloka 28

भवन्ति याप्याः खलु ये षडामया हरेदसृक्तेषु सिराविमोक्षणैः | विरेचयेच्चापि पुराणसर्पिषा विरेचनाङ्गोपहितेन सर्वदा ||२८||

🔊 Audio coming soon

Adhikarana 22 (29) · Śloka 30

पयोविमिश्रं पवनोद्भवे हितं वदन्ति पञ्चाङ्गुलतैलमेव तु | भवेद्धृतं त्रैफलमेव शोधनं विशेषतः शोणितपित्तरोगयोः ||२९|| त्रिवृद्विरेकः कफजे प्रशस्यते त्रिदोषजे तैलमुशन्ति तत्कृतम् |३०|

🔊 Audio coming soon

Adhikarana 23 (30) · Śloka 31

पुराणसर्पिस्तिमिरेषु सर्वशो हितं भवेदायसभाजनस्थितम् ||३०|| हितं च विद्यात्त्रिफलाघृतं सदा कृतं च यन्मेषविषाणनामभिः |३१|

🔊 Audio coming soon

Adhikarana 24 (31) · Śloka 32

सदाऽवलिह्यात्त्रिफलं सुचूर्णितां घृतप्रगाढां तिमिरेऽथ पित्तजे ||३१|| समीरजे तैलयुतां कफात्मके मधुप्रगाढां विदधीत युक्तितः |३२|

🔊 Audio coming soon

Adhikarana 25 (32) · Śloka 32

गवां शकृत्क्वाथविपक्वमुत्तमं हितं तु तैलं तिमिरेषु नावनम् ||३२||

🔊 Audio coming soon

Adhikarana 26 (33) · Śloka 33

हितं घृतं केवल एव पैत्तिके ह्यजाविकं यन्मधुरैर्विपाचितम् |३३|

🔊 Audio coming soon

Adhikarana 27 (33) · Śloka 33

तैलं स्थिरादौ मधुरे च यद्गणे तथाऽणुतैलं पवनासृगुत्थयोः ||३३||

🔊 Audio coming soon

Adhikarana 28 (34) · Śloka 34

सहाश्वगन्धातिबलावरीशृतं हितं च नस्ये त्रिवृतं यदीरितम् | जलोद्भवानूपजमांससंस्कृताद्धृतं विधेयं पयसो यदुत्थितम् ||३४||

🔊 Audio coming soon

Adhikarana 29 (35) · Śloka 35

ससैन्धवः क्रव्यभुगेणमांसयोर्हितः ससर्पिः समधुः पुटाह्वयः |३५|

🔊 Audio coming soon

Adhikarana 30 (35) · Śloka 35

वसाऽथ गृध्रोरगताम्रचूडजा सदा प्रशस्ता मधुकान्विताऽञ्जने ||३५||

🔊 Audio coming soon

Adhikarana 31 (36) · Śloka 36

प्रत्यञ्जनं स्रोतसि यत्समुत्थितं क्रमाद्रसक्षीरघृतेषु भावितम् |३६|

🔊 Audio coming soon

Adhikarana 32 (36-37) · Śloka 37

स्थितं दशाहत्रयमेतदञ्जनं कृष्णोरगास्ये कुशसम्प्रवेष्टिते ||३६|| तन्मालतीकोरकसैन्धवायुतं सदाऽञ्जनं स्यात्तिमिरेऽथ रागिणि | सुभावितं वा पयसा दिनत्रयं काचापहं शास्त्रविदः प्रचक्षते ||३७||

🔊 Audio coming soon

Adhikarana 33 (38) · Śloka 38

हविर्हितं क्षीरभवं तु पैत्तिके वदन्ति नस्ये मधुरौषधैः कृतम् | तत्तर्पणे चैव हितं प्रयोजितं सजाङ्गलस्तेषु च यः पुटाह्वयः ||३८||

🔊 Audio coming soon

Adhikarana 34 (39) · Śloka 39

रसाञ्जनक्षौद्रसितामनःशिलाः क्षुद्राञ्जनं तन्मधुकेन संयुतम् |३९|

🔊 Audio coming soon

Adhikarana 35 (39) · Śloka 39

समाञ्जनं वा कनकारोद्भवं सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः ||३९||

🔊 Audio coming soon

Adhikarana 36 (40) · Śloka 40

भिल्लोटगन्धोदकसेकसेचितं प्रत्यञ्जने चात्र हितं तु तुत्थकम् |४०|

🔊 Audio coming soon

Adhikarana 37 (40) · Śloka 40

समेषशृङ्गाञ्जनभागसम्मितं जलोद्भवं काचमलं व्यपोहति ||४०||

🔊 Audio coming soon

Adhikarana 38 (41) · Śloka 41

पलाशरोहीतमधूकजा रसाः क्षौद्रेण युक्ता मदिराग्रमिश्रिताः |४१|

🔊 Audio coming soon

Adhikarana 39 (41) · Śloka 41

उशीरलोध्रत्रिफलाप्रियङ्गुभिः पचेत्तु नस्यं कफरोगशान्तये ||४१||

🔊 Audio coming soon

Adhikarana 40 (42) · Śloka 42

विडङ्गपाठाकिणिहीङ्गुदीत्वचः प्रयोजयेद्धूममुशीरसंयुताः |४२|

🔊 Audio coming soon

Adhikarana 41 (42) · Śloka 42

वनस्पतिक्वाथविपाचितं घृतं हितं हरिद्रानलदे च तर्पणम् ||४२||

🔊 Audio coming soon

Adhikarana 42 (43) · Śloka 43

समागधो माक्षिकसैन्धवाढ्यः सजाङ्गलः स्यात् पुटपाक एव च |४३|

🔊 Audio coming soon

Adhikarana 43 (43) · Śloka 43

मनःशिलात्र्यूषणशङ्खमाक्षिकैः ससिन्धुकासीसरसाञ्जनैः क्रियाः ||४३||

🔊 Audio coming soon

Adhikarana 44 (44) · Śloka 44

हिते च कासीसरसाञ्जने तथा वदन्ति पथ्ये गुडनागरैर्युते |४४|

🔊 Audio coming soon

Adhikarana 45 (44-45) · Śloka 45

यदञ्जनं वा बहुशो निषेचितं समूत्रवर्गे त्रिफलोदके शृते ||४४|| निशाचरास्थिस्थितमेतदञ्जनं क्षिपेच्च मासं सलिलेऽस्थिरे पुनः | मेषस्य पुष्पैर्मधुकेन संयुतं तदञ्जनं सर्वकृते प्रयोजयेत् ||४५||

🔊 Audio coming soon

Adhikarana 46 (46) · Śloka 46

क्रियाश्च सर्वाः, क्षतजोद्भवे हितः क्रमः परिम्लायिनि चापि पित्तहृत् |४६|

🔊 Audio coming soon

Adhikarana 47 (46) · Śloka 46

क्रमो हितः स्यन्दहरः प्रयोजितः समीक्ष्य दोषेषु यथास्वमेव च ||४६||

🔊 Audio coming soon

Adhikarana 48 (47) · Śloka 47

दोषोदये नैव च विप्लतिङ्गते द्रव्याणि नस्यादिषु योजयेद्बुधः |४७|

🔊 Audio coming soon

Adhikarana 49 (47) · Śloka 47

पुनश्च कल्पेऽञ्जनविस्तरः शुभः प्रवक्ष्यतेऽन्यस्तमपीह योजयेत् ||४७||

🔊 Audio coming soon

Adhikarana 50 (48) · Śloka 48

घृतं पुराणं त्रिफलां शतावरीं पटोलमुद्गामलकं यवानपि | निषेवमाणस्य नरस्य यत्नतो भयं सुघोरात्तिमिरान्न विद्यते ||४८||

🔊 Audio coming soon

Adhikarana 51 (49) · Śloka 49

शतावरीपायस एव केवलस्तथा कृतो वाऽऽमलकेषु पायसः | प्रभूतसर्पिस्त्रिफलोदकोत्तरो यवौदनो वा तिमिरं व्यपोहति ||४९||

🔊 Audio coming soon

Adhikarana 52 (50-51) · Śloka 51

जीवन्तिशाकं सुनिषण्णकं च सतण्डुलीयं वरवास्तुकं च | चिल्ली तथा मूलकपोतिका च दृष्टेर्हितं शाकुनजाङ्गलं च ||५०|| पटोलकर्कोटककारवेल्लवार्ताकुतर्कारिकरीरजानि | शाकानि शिग्र्वार्तगलानि चैव हितानी दृष्टेर्घृतसाधितानि ||५१||

🔊 Audio coming soon

Adhikarana 53 (52) · Śloka 52

विवर्जयेत्सिरामोक्षं तिमिरे रागमागते | यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम् ||५२||

🔊 Audio coming soon

Adhikarana 54 (53) · Śloka 53

अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम् | कृच्छ्रं द्वितीये रागि स्यात्तृतीये याप्यमुच्यते ||५३||

🔊 Audio coming soon

Adhikarana 55 (54) · Śloka 54

रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः | यापनार्थं यथोद्दिष्टाः सेव्याश्चापि जलौकसः ||५४||

🔊 Audio coming soon

Adhikarana 56 (55-56) · Śloka 56

श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये | न चेदर्धेन्दुघर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः ||५५|| विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः | दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः ||५६||

🔊 Audio coming soon

Adhikarana 57 (57-60) · Śloka 61

स्निग्धस्विन्नस्य तस्याथ काले नात्युष्णशीतले | यन्त्रितस्योपविष्टस्य स्वां नासां पश्यतः समम् ||५७|| मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः | उन्मील्य नयने सम्यक् सिराजालविवर्जिते ||५८|| नाधो नोर्ध्वं न पार्श्वाभ्यां छिद्रे दैवकृते ततः | शलाकया प्रयत्नेन विश्वस्तं यववक्रया ||५९|| मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया | दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत् ||६०|| वारिबिन्द्वागमः सम्यग् भवेच्छब्दस्तथा व्यधे |६१|

🔊 Audio coming soon

Adhikarana 58 (61-63) · Śloka 64

संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः ||६१|| स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः | सम्यक् शलाकां संस्थाप्य भङ्गैरनिलनाशनैः ||६२|| शलाकाग्रेण तु ततो निर्लिखेद्दृष्टिमण्डलम् | विध्यतो योऽन्यपार्श्वेऽक्ष्णस्तं रुद्ध्वा नासिकापुटम् ||६३|| उच्छिङ्घनेन हर्तव्यो दृष्टिमण्डलगः कफः |६४|

🔊 Audio coming soon

Adhikarana 59 (64-68) · Śloka 68

निरभ्र इव घर्मांशुर्यदा दृष्टिः प्रकाशते ||६४|| तदाऽसौ लिखिता सम्यग् ज्ञेया या चापि निर्व्यथा | (एवं त्वशक्ये निर्हर्तुं दोषे प्रत्यागतेऽपि वा ||६५|| स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते) | ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः ||६६|| घृतेनाभ्यज्य नयनं वस्त्रपट्टेन वेष्टयेत् | ततो गृहे निराबाधे शयीतोत्तान एव च ||६७|| उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च | तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् ||६८||

🔊 Audio coming soon

Adhikarana 60 (69) · Śloka 69

त्र्यहात् त्र्यहाच्च धावेत कषायैरनिलापहैः | वायोर्भयात् त्र्यहादूर्ध्वं स्वेदयेदक्षि पूर्ववत् ||६९||

🔊 Audio coming soon

Adhikarana 61 (70) · Śloka 70

दशाहमेवं संयम्य हितं दृष्टिप्रसादनम् | पश्चात्कर्म च सेवेत लघ्वन्नं चापि मात्रया ||७०||

🔊 Audio coming soon

Adhikarana 62 (71) · Śloka 71

सिराव्यधविधौ पूर्वं नरा ये च विवार्जिताः | न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् ||७१||

🔊 Audio coming soon

Adhikarana 63 (72) · Śloka 72

पूर्यते शोणितेनाक्षि सिरावेधाद्विसर्पता | तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् ||७२||

🔊 Audio coming soon

Adhikarana 64 (73-79) · Śloka 79

अपाङ्गासन्नविद्धे तु शोफशूलाश्रुरक्तताः | तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् ||७३|| व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते | तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् ||७४|| अथाप्युपरि विद्धे तु कष्टा रुक् सम्प्रवर्तते | तत्र कोष्णेन हविषा परिषेकः प्रशस्यते ||७५|| शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः | शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् ||७६|| रागाश्रुवेदनास्तम्भहर्षाश्चातिविघट्टिते | स्नेहस्वेदौ हितौ तत्र हितं चाप्यनुवासनम् ||७७|| दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूर्ध्वगः | कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्नष्टदर्शनम् ||७८|| मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम् | शिरोबस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् ||७९||

🔊 Audio coming soon

Adhikarana 65 (80) · Śloka 80

दोषस्तु सञ्जातबलो घनः सम्पूर्णमण्डलः | प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम् ||८०||

🔊 Audio coming soon

Adhikarana 66 (81) · Śloka 81

मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः | दोषः प्रत्येति कोपाच्च विद्धोऽतितरुणश्च यः ||८१||

🔊 Audio coming soon

Adhikarana 67 (82) · Śloka 83

शलाका कर्कशा शूलं, खरा दोषपरिप्लुतिम् | व्रणं विशालं स्थूलाग्रा, तीक्ष्णा हिंस्यादनेकधा ||८२|| जलास्रावं तु विषमा, क्रियासङ्गमथास्थिरा | करोति ... |८३|

🔊 Audio coming soon

Adhikarana 68 (83-84) · Śloka 85

... वर्जिता दोषैस्तस्मादेभिर्हिता भवेत् ||८३|| अष्टाङ्गुलायता मध्ये सूत्रेण परिवेष्टिता | अङ्गुष्ठपर्वसमिता वक्त्रयोर्मुकुलाकृतिः ||८४|| ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता |८५|

🔊 Audio coming soon

Adhikarana 69 (85-86) · Śloka 86

रागः शोफोऽर्बुदं चोषो बुद्बुदं शूकराक्षिता ||८५|| अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः | अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् ||८६||

🔊 Audio coming soon

Adhikarana 70 (87-94) · Śloka 94

रुजायामक्षिरागे वा योगान् भूयो निबोध मे | गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः ||८७|| सुखालेपः प्रयोज्योऽयं वेदनारागशान्तये | मृदुभृष्टैस्तिलैर्वाऽपि सिद्धार्थकसमायुतैः ||८८|| मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत् | पयस्यासारिवापत्रमञ्जिष्ठामधुकैरपि ||८९|| अजाक्षीरान्वितैर्लेपः सुखोष्णः पथ्य उच्यते | दारुपद्मकशुण्ठीभिरेवमेव कृतोऽपि वा ||९०|| द्राक्षामधुककुष्ठैर्वा तद्वत् सैन्धवसंयुतैः | रोध्रसैन्धवमृद्वीकामधुकैर्वाऽप्यजापयः ||९१|| शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम् | मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितायुतैः | ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् ||९२|| शतावरीपृथक्पर्णीमुस्तामलकपद्मकैः | साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् ||९३|| वातघ्नसिद्धे पयसि सिद्धं सर्पिश्चतुर्गुणे | काकोल्यादिप्रतीवापं तद्युञ्ज्यात् सर्वकर्मसु ||९४||

🔊 Audio coming soon

Adhikarana 71 (95) · Śloka 95

शाम्यत्येवं न चेच्छूलं स्निग्धस्विन्नस्य मोक्षयेत् | ततः सिरां दहेद्वाऽपि मतिमान् कीर्तितं यथा ||९५||

🔊 Audio coming soon

Adhikarana 72 (96-99) · Śloka 99

दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे | मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि ||९६|| सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च | अजाक्षीरेण सम्पिष्य ताम्रे सप्ताहमावपेत् ||९७|| प्रविधाय च तद्वर्तीर्योजयेच्चाञ्जने भिषक् | स्रोतोजं विद्रुमं फेनं सागरस्य मनःशिलाम् ||९८|| मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत् | दृष्टिस्थैर्यार्थमेतत्तु विदध्यादञ्जने हितम् ||९९||

🔊 Audio coming soon

Adhikarana 73 (100) · Śloka 100

भूयो वक्ष्यामि मुख्यानि विस्तरेणाञ्जनानि च | कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् ||१००||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 17

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे दृष्टिगतरोगविज्ञानीयो नाम सप्तदशोऽध्यायः ||१७||

🔊 Audio coming soon