Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

39. jvarapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो ज्वरप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3-4) · Śloka 5

येनामृतमपां मध्यादुद्धृतं पूर्वजन्मनि | यतोऽमरत्वं सम्प्राप्तास्त्रिदशास्त्रिदिवेश्वरात् ||३|| शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः | व्रणस्योपद्रवाः प्रोक्ता व्रणिनामप्यतः परम् ||४|| समासाद् व्यासतश्चैव ब्रूहि नो भिषजांवर |५|

🔊 Audio coming soon

Adhikarana 3 (5-7) · Śloka 7

उपद्रवेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति ||५|| उपद्रवास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्तिताः | प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात् ||६|| तस्मादुपद्रवान् कृत्स्नान् ब्रूहि नः सचिकित्सितान् | सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा ||७||

🔊 Audio coming soon

Adhikarana 4 (8-9) · Śloka 9

तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजांवरः | ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः ||८|| रुद्रकोपाग्निसम्भूतः सर्वभूतप्रतापनः | तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते ||९||

🔊 Audio coming soon

Adhikarana 5 (10) · Śloka 10

जन्मादौ निधने चैव प्रायो विशति देहिनम् | अतः सर्वविकराणामयं राजा प्रकीर्तितः ||१०||

🔊 Audio coming soon

Adhikarana 6 (11-12) · Śloka 13

ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम् | कर्मणा लभते यस्माद्देवत्वं मानुषादपि ||११|| पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते | तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् ||१२|| शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः |१३|

🔊 Audio coming soon

Adhikarana 7 (13) · Śloka 14

स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा ||१३|| विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः |१४|

🔊 Audio coming soon

Adhikarana 8 (14) · Śloka 15

दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च ||१४|| अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः |१५|

🔊 Audio coming soon

Adhikarana 9 (15-18) · Śloka 19

दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः ||१५|| व्याप्य देहमशेषेण ज्वरमापादयन्ति हि | दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा ||१६|| सहिता रसमागत्य रसस्वेदप्रवाहिणाम् | स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् ||१७|| निरस्य बहिरूष्माणं पक्तिस्थानाच्च केवलम् | शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् ||१८|| जनयन्त्यथ वृद्धिं वा स्ववर्णं च त्वगादिषु |१९|

🔊 Audio coming soon

Adhikarana 10 (19-22) · Śloka 22

मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् ||१९|| विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः | श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात् ||२०|| ओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया | अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया ||२१|| स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः | स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते ||२२||

🔊 Audio coming soon

Adhikarana 11 (23-24) · Śloka 24

तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः | विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः ||२३|| रुणद्धि चाप्यपान्धातुं यस्मात्तस्माज्ज्वरातुरः | भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते ||२४||

🔊 Audio coming soon

Adhikarana 12 (25-28) · Śloka 28

श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः | इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु ||२५|| जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः | अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे ||२६|| सामान्यतो, विशेषात्तु जृम्भाऽत्यर्थं समीरणात् | पित्तान्नयनयोर्दाहः, कफान्नान्नाभिनन्दनम् ||२७|| सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे | द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः ||२८||

🔊 Audio coming soon

Adhikarana 13 (29-30) · Śloka 30

वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम् | निद्रानाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च ||२९|| शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता | जृम्भाऽऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे ||३०||

🔊 Audio coming soon

Adhikarana 14 (31-32) · Śloka 32

वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः | कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ||३१|| प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा | पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ||३२||

🔊 Audio coming soon

Adhikarana 15 (33-34) · Śloka 34

गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता | स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता ||३३|| नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकता | प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ||३४||

🔊 Audio coming soon

Adhikarana 16 (35-37) · Śloka 38

निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः | तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ||३५|| पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता | रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः ||३६|| निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ | प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ||३७|| स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः |३८|

🔊 Audio coming soon

Adhikarana 17 (38) · Śloka 38

सर्वजे सर्वलिङ्गानि... |३८|

🔊 Audio coming soon

Adhikarana 18 (38-40) · Śloka 41

...विशेषं चात्र मे शृणु ||३८|| नात्युष्णशीतोऽल्पसञ्ज्ञो भ्रान्तप्रेक्षी हतस्वरः | खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः ||३९|| सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः | श्वसन्निपतितः शेते प्रलापोपद्रवायुतः ||४०|| तमभिन्यासमित्याहुर्हतौजसमथापरे |४१|

🔊 Audio coming soon

Adhikarana 19 (41) · Śloka 41

सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः ||४१||

🔊 Audio coming soon

Adhikarana 20 (42) · Śloka 42

निद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम् | सन्न्यस्तगात्रं सन्न्यासं विद्यात्सर्वात्मके ज्वरे ||४२||

🔊 Audio coming soon

Adhikarana 21 (43-44) · Śloka 45

ओजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात् | स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः ||४३|| अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलापवान् | संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः ||४४|| ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक् |४५|

🔊 Audio coming soon

Adhikarana 22 (45) · Śloka 46

सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ||४५|| पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा |४६|

🔊 Audio coming soon

Adhikarana 23 (46) · Śloka 46

द्विदोषोच्छ्रायलिङ्गास्तु द्वन्द्वजास्त्रिविधाः स्मृताः ||४६||

🔊 Audio coming soon

Adhikarana 24 (47) · Śloka 48

तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा | कण्ठास्यदशोषो वमथू रोमहर्षोऽरुचिस्तथा ||४७|| पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः |४८|

🔊 Audio coming soon

Adhikarana 25 (48-49) · Śloka 49

स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ||४८|| शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम् | सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ||४९||

🔊 Audio coming soon

Adhikarana 26 (50) · Śloka 3

लिप्तातिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा | मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ||५०|| (जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः| तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके ||१|| शूलकासकफोत्क्लेशशीतवेपथुपीनसाः| गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे||२|| शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः| कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके||३||) |

🔊 Audio coming soon

Adhikarana 27 (51-52) · Śloka 52

कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम् | दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ||५१|| सततान्येद्युष्कत्र्याख्यचातुर्थान् सप्रलेपकान् | कफस्थानविभागेन यथासङ्ख्यं करोति हि ||५२||

🔊 Audio coming soon

Adhikarana 28 (53) · Śloka 53

अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते | ततश्चामाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम् ||५३||

🔊 Audio coming soon

Adhikarana 29 (54) · Śloka 54

तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः | दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ||५४||

🔊 Audio coming soon

Adhikarana 30 (55) · Śloka 55

कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा | विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् ||५५||

🔊 Audio coming soon

Adhikarana 31 (56) · Śloka 56

परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः | आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे ||५६||

🔊 Audio coming soon

Adhikarana 32 (57-58) · Śloka 58

वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकं चापि चतुर्थकं च | औपत्यके मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति ||५७|| प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः | मूर्च्छानुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ||५८||

🔊 Audio coming soon

Adhikarana 33 (59-61) · Śloka 61

त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे | तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ||५९|| करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च | प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि ||६०|| द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ | दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः ||६१||

🔊 Audio coming soon

Adhikarana 34 (62) · Śloka 62

प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः |६२|

🔊 Audio coming soon

Adhikarana 35 (62) · Śloka 63

रात्र्यह्नोः षट्सु कालेषु कीर्तितेषु यथा पुरा ||६२|| प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः |६३|

🔊 Audio coming soon

Adhikarana 36 (63-64) · Śloka 64

स चापि विषमो देहं न कदाचिद्विमुञ्चति ||६३|| ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते | वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ||६४||

🔊 Audio coming soon

Adhikarana 37 (65) · Śloka 65

धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते | अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः ||६५||

🔊 Audio coming soon

Adhikarana 38 (66) · Śloka 66

दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः | धातुमन्यतमं प्राप्य करोति विषमज्वरम् ||६६||

🔊 Audio coming soon

Adhikarana 39 (67) · Śloka 68

सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः | मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ||६७|| कुर्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् |६८|

🔊 Audio coming soon

Adhikarana 40 (68) · Śloka 68

केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ||६८||

🔊 Audio coming soon

Adhikarana 41 (69) · Śloka 69

सप्ताहं वा दशाहं वा द्वादशाहमथापि वा | सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ||६९||

🔊 Audio coming soon

Adhikarana 42 (70) · Śloka 71

अहोरात्रे सततको द्वौ कालावनुवर्तते | अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते ||७०|| तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः |७१|

🔊 Audio coming soon

Adhikarana 43 (71-74) · Śloka 75

वातेनोदीर्यमाणाश्च ह्रीयमाणाश्च सर्वतः | एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि ||७१|| वेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः | (वातेनोद्धूयमानस्तु यथा पूर्येत सागरः ||७२|| वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान् | यथा वेगागमे वेलां छादयित्वा महोदधेः ||७३|| वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते | दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वै ||७४|| वेगहानौ प्रशाम्येत यथाऽम्भः सागरे तथा) |७५|

🔊 Audio coming soon

Adhikarana 44 (75) · Śloka 76

विविधेनाभिघातेन ज्वरो यः सम्प्रवर्तते ||७५|| यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम् |७६|

🔊 Audio coming soon

Adhikarana 45 (76-79) · Śloka 80

श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः ||७६|| अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः | ओषधीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः ||७७|| कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्यमरोचकः | हृदये वेदना चास्य गात्रं च परिशुष्यति ||७८|| भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः | अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ||७९|| भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम् |८०|

🔊 Audio coming soon

Adhikarana 46 (80) · Śloka 81

श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः ||८०|| पूरयित्वाऽखिलं देहं ज्वरमापादयेद्भृशम् |८१|

🔊 Audio coming soon

Adhikarana 47 (81-82) · Śloka 82

रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा ||८१|| ज्वरोऽपरः सम्भवति तैस्तैरन्यैश्च हेतुभिः | दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते ||८२||

🔊 Audio coming soon

Adhikarana 48 (83-89) · Śloka 90

गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ | रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ||८३|| रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ | प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ||८४|| पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता | ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ||८५|| भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च | दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ||८६|| भेदोऽस्थ्नां कुञ्च(ज)नं श्वासो विरेकश्छर्दिरेव च | विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ||८७|| तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा | अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे | मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ||८८|| शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः | दग्ध्वेन्धनं यथा वह्निर्धातून् हत्वा यथा विषम् ||८९|| कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः |९०|

🔊 Audio coming soon

Adhikarana 49 (90-91) · Śloka 92

वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा ||९०|| तथा तेषां भिषग्ब्रूयाद्रसादिष्वपि बुद्धिमान् | समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् ||९१|| द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम् |९२|

🔊 Audio coming soon

Adhikarana 50 (92) · Śloka 93

गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ||९२|| आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च |९३|

🔊 Audio coming soon

Adhikarana 51 (93) · Śloka 94

हतप्रभेन्द्रियं क्षीणमरोचकनिपीडितम् ||९३|| गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत् |९४|

🔊 Audio coming soon

Adhikarana 52 (94) · Śloka 95

हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः ||९४|| ज्वरवेगो भवेत्तीव्रो यथापूर्वं सुखक्रियः |९५|

🔊 Audio coming soon

Adhikarana 53 (95-96) · Śloka 96

कालो ह्योष यमश्चैव नियतिर्मृत्युरेव च ||९५|| तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते | इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते ||९६||

🔊 Audio coming soon

Adhikarana 54 (97-98) · Śloka 98

ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान् | पाययेत घृतं स्वच्छं ततः स लभते सुखम् ||९७|| विधिर्मारुतजेष्वेष, पैत्तिकेषु विरेचनम् | मृदु, प्रच्छर्दनं तद्वत्कफजेषु विधीयते ||९८||

🔊 Audio coming soon

Adhikarana 55 (99) · Śloka 99

सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत् |९९|

🔊 Audio coming soon

Adhikarana 56 (99) · Śloka 99

अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना ||९९||

🔊 Audio coming soon

Adhikarana 57 (100) · Śloka 100

रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत् |१००|

🔊 Audio coming soon

Adhikarana 58 (100) · Śloka 100

प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम् ||१००||

🔊 Audio coming soon

Adhikarana 59 (101) · Śloka 101

आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम् |१०१|

🔊 Audio coming soon

Adhikarana 60 (101) · Śloka 102

आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः ||१०१|| कुर्यादनशनं तावत्ततः संसर्गमाचरेत् |१०२|

🔊 Audio coming soon

Adhikarana 61 (102) · Śloka 103

न लङ्घयेन्मारुतजे क्षयजे मानसे तथा ||१०२|| अलङ्घ्याश्चापि ये पूर्वं द्विव्रणीये प्रकीर्तिताः |१०३|

🔊 Audio coming soon

Adhikarana 62 (103) · Śloka 104

अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ||१०३|| ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् |१०४|

🔊 Audio coming soon

Adhikarana 63 (104) · Śloka 105

सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् ||१०४|| प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलङ्घितम् |१०५|

🔊 Audio coming soon

Adhikarana 64 (105) · Śloka 106

बलक्षयस्तृषा शोषस्तन्द्रानिद्राभ्रमक्लमाः ||१०५|| उपद्रवाश्च श्वासाद्याः सम्भवन्त्यतिलङ्घनात् |१०६|

🔊 Audio coming soon

Adhikarana 65 (106) · Śloka 107

दीपनं कफविच्छेदि पित्तवातानुलोमनम् ||१०६|| कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्छिदम् | तद्धि मार्दवकृद्दोषस्रोतसां ... |१०७|

🔊 Audio coming soon

Adhikarana 66 (107) · Śloka 108

... शीतमन्यथा ||१०७|| सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते |१०८|

🔊 Audio coming soon

Adhikarana 67 (108) · Śloka 109

पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् ||१०८|| गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः |१०९|

🔊 Audio coming soon

Adhikarana 68 (109) · Śloka 110

दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा ||१०९|| अन्नकाले हिता पेया यथास्वं पाचनैः कृता |११०|

🔊 Audio coming soon

Adhikarana 69 (110-111) · Śloka 112

बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे ||११०|| लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते | तदा तं मुखवैरस्यतृष्णारोचकनाशनैः ||१११|| कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत् |११२|

🔊 Audio coming soon

Adhikarana 70 (112-113) · Śloka 114

पञ्चमूलीकषायं तु पाचनं पवनज्वरे ||११२|| सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् | पिप्पल्यादिकषायं तु कफजे परिपाचनम् ||११३|| द्वन्द्वजेषु तु संसृष्टं दद्यात् ... |११४|

🔊 Audio coming soon

Adhikarana 71 (114) · Śloka 114

... अथ विवर्जयेत् | पीताम्बुर्लङ्घितो भुक्तोऽजीर्णी क्षीणः पिपासितः ||११४||

🔊 Audio coming soon

Adhikarana 72 (115) · Śloka 115

(तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च| सामदोषं विजानीयाज्ज्वरं पक्वमतोऽन्यथा ||) मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च | पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ||११५||

🔊 Audio coming soon

Adhikarana 73 (116) · Śloka 116

दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम् |११६|

🔊 Audio coming soon

Adhikarana 74 (116-118) · Śloka 119

हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः ||११६|| दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता | गुरूदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः ||११७|| स्वापः स्तम्भो गुरुत्वं च गात्राणां वह्निमार्दवम् | मुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवाञ्ज्वरः ||११८|| लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः |११९|

🔊 Audio coming soon

Adhikarana 75 (119) · Śloka 120

सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम् ||११९|| दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः |१२०|

🔊 Audio coming soon

Adhikarana 76 (120) · Śloka 121

पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते ||१२०|| अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः |१२१|

🔊 Audio coming soon

Adhikarana 77 (121) · Śloka 122

भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् ||१२१|| शोधनं, शमनीयं तु करोति विषमज्वरम् |१२२|

🔊 Audio coming soon

Adhikarana 78 (122) · Śloka 123

च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा ||१२२|| अतिप्रवर्तमानं च साधयेदतिसारवत् |१२३|

🔊 Audio coming soon

Adhikarana 79 (123) · Śloka 124

यदा कोष्ठानुगाः पक्वा विबद्धाः स्रोतसां मलाः ||१२३|| अचिरज्वरितस्यापि तदा दद्याद्विरेचनम् |१२४|

🔊 Audio coming soon

Adhikarana 80 (124-125) · Śloka 125

पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन् महात्ययम् ||१२४|| विषमं वा ज्वरं कुर्याद्बलव्यापदमेव च | तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः ||१२५||

🔊 Audio coming soon

Adhikarana 81 (126) · Śloka 127

प्राक्कर्म वमनं चास्य कार्यमास्थापनं तथा | विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् ||१२६|| क्रमशः... |१२७|

🔊 Audio coming soon

Adhikarana 82 (127-129) · Śloka 129

...बलिने देयं वमनं श्लैष्मिके ज्वरे | पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये ||१२७|| सरुजेऽनिलजे कार्यं सोदावर्ते निरूहणम् | कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम् ||१२८|| शिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम् | कफाभिपन्ने शिरसि कार्यं मूर्धविरेचनम् ||१२९||

🔊 Audio coming soon

Adhikarana 83 (130) · Śloka 131

दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत् | दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ||१३०|| अम्लपिष्टैः सुखोष्णैश्च... |१३१|

🔊 Audio coming soon

Adhikarana 84 (131) · Śloka 131

...पवने तूर्ध्वमागते | रुद्धमूत्रपूरीषाय गुदे वर्तिं निधापयेत् ||१३१||

🔊 Audio coming soon

Adhikarana 85 (132) · Śloka 132

पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम् | पाययेत यवागूं वा मारुताद्यनुलोमिनीम् ||१३२||

🔊 Audio coming soon

Adhikarana 86 (133) · Śloka 133

शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति | सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् ||१३३||

🔊 Audio coming soon

Adhikarana 87 (134) · Śloka 134

कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत् | उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते ||१३४||

🔊 Audio coming soon

Adhikarana 88 (135) · Śloka 135

क्लिन्नां यवागूं मन्दाग्निं तृषार्तं पाययेन्नरम् |१३५|

🔊 Audio coming soon

Adhikarana 89 (135-137) · Śloka 138

तृट्छर्दिदाहघर्मार्तं मद्यपं लाजतर्पणम् ||१३५|| सक्षौद्रमम्भसा पश्चाज्जीर्णे यूषरसौदनम् | उपवासश्रमकृते क्षीणं(णे) वाताधिके ज्वरे ||१३६|| दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम् | मुद्गयूषौदनश्चापि हितः कफसमुत्थिते ||१३७|| स एव सितया युक्तः शीतः पित्तज्वरे हितः |१३८|

🔊 Audio coming soon

Adhikarana 90 (138-140) · Śloka 140

दाडिमामलमुद्गानां यूषश्चानिलपैत्तिके ||१३८|| ह्रस्वमूलकयूषस्तु वातश्लेष्माधिके हितः | पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके ||१३९|| दाहच्छर्दियुतं क्षामं निरन्नं तृष्णयाऽर्दितम् | सिताक्षौद्रयुतं लाजतर्पणं पाययेत च ||१४०||

🔊 Audio coming soon

Adhikarana 91 (141) · Śloka 142

कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा | मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् ||१४१|| यूषैरम्लैरनम्लैर्वा जाङ्गलैश्च रसैर्हितैः |१४२|

🔊 Audio coming soon

Adhikarana 92 (142) · Śloka 142

मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम् ||१४२||

🔊 Audio coming soon

Adhikarana 93 (143) · Śloka 143

सव्योषं वितरेत्तक्रं कफारोचकपीडिते |१४३|

🔊 Audio coming soon

Adhikarana 94 (143-144) · Śloka 144

कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः ||१४३|| विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी | पिपासार्तः सदाहो वा पयसा स सुखी भवेत् ||१४४||

🔊 Audio coming soon

Adhikarana 95 (145) · Śloka 145

तदेव तरुणे पीतं विषवद्धन्ति मानवम् |१४५|

🔊 Audio coming soon

Adhikarana 96 (145) · Śloka 146

सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम् ||१४५|| वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्धनम् |१४६|

🔊 Audio coming soon

Adhikarana 97 (146-148) · Śloka 149

ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् ||१४६|| अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा | स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च ||१४७|| तस्माद्रक्षेद्बलं पुंसां बले सति हि जीवितम् | गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन ||१४८|| न तु तस्याहितं भुक्तमायुषे वा सुखाय वा |१४९|

🔊 Audio coming soon

Adhikarana 98 (149) · Śloka 150

सन्ततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् ||१४९|| ज्वरं सम्भोजनैः पथ्यैर्लघुभिः समुपाचरेत् |१५०|

🔊 Audio coming soon

Adhikarana 99 (150) · Śloka 151

मुद्गान्मसुरांश्चणकान् कुलत्थान् समकुष्ठकान् ||१५०|| आहारकाले यूषार्थं ज्वरिताय प्रदापयेत् |१५१|

🔊 Audio coming soon

Adhikarana 100 (151-152) · Śloka 152

पटोलपत्रं वार्ताकं कठिल्लं पापचैलिकम् ||१५१|| कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम् | पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् ||१५२||

🔊 Audio coming soon

Adhikarana 101 (153) · Śloka 154

लावान् कपिञ्जलानेणान् पृषताञ्छरभाञ्छशान् | कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान् ||१५३|| मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत् |१५४|

🔊 Audio coming soon

Adhikarana 102 (154) · Śloka 155

सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरां(रीं)स्तथा ||१५४|| गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः |१५५|

🔊 Audio coming soon

Adhikarana 103 (155) · Śloka 156

ज्वरितानां प्रकोपं तु यदा याति समीरणः ||१५५|| तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः |१५६|

🔊 Audio coming soon

Adhikarana 104 (156-158) · Śloka 158

परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च ||१५६|| (स्नानाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितः) | कषायगुरुरूक्षाणि क्रोधादीनि तथैव च ||१५७|| सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी | तथैव नवधान्यादिं वर्जयेच्च समासतः ||१५८||

🔊 Audio coming soon

Adhikarana 105 (159) · Śloka 159

अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः | गम्भीरतीक्ष्णवेगत्वं यात्यसाध्यत्वमेव च ||१५९||

🔊 Audio coming soon

Adhikarana 106 (160-162) · Śloka 162

शीततोयदिवास्वप्नक्रोधव्यायामयोषितः | न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् ||१६०|| मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः | प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः ||१६१|| तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत् | यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा ||१६२||

🔊 Audio coming soon

Adhikarana 107 (163) · Śloka 163

ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः | निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् ||१६३||

🔊 Audio coming soon

Adhikarana 108 (164) · Śloka 164

अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु | शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः ||१६४||

🔊 Audio coming soon

Adhikarana 109 (165) · Śloka 165

न जातु स्नापयेत् प्राज्ञः सहसा ज्वरकर्शितम् | तेन सन्दूषितो ह्यस्य पुनरेव भवेज्ज्वरः ||१६५||

🔊 Audio coming soon

Adhikarana 110 (166-167) · Śloka 167

चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्ययैः | श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् ||१६६|| स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः | तत्र संशमनं कुर्याद्यथादोषं विधानवित् ||१६७||

🔊 Audio coming soon

Adhikarana 111 (168) · Śloka 168

अतः संशमनीयानि कषायाणि निबोध मे | सर्वज्वरेषु देयानि यानि वैद्येन जानता ||१६८||

🔊 Audio coming soon

Adhikarana 112 (169) · Śloka 169

पिप्पलीसारिवाद्राक्षाशतपुष्पाहरेणुभिः | कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् ||१६९||

🔊 Audio coming soon

Adhikarana 113 (170) · Śloka 170

शृतं शीतकषायं वा गुडूच्याः पेयमेव तु |१७०|

🔊 Audio coming soon

Adhikarana 114 (170) · Śloka 171

बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् ||१७०|| शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम् |१७१|

🔊 Audio coming soon

Adhikarana 115 (171-172) · Śloka 172

शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः ||१७१|| कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत् | क्षौद्रेण सितया चापि युक्तः क्वाथोऽनिलाधिके ||१७२||

🔊 Audio coming soon

Adhikarana 116 (173-174) · Śloka 174

द्राक्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः | निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे ||१७३|| गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः | निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् ||१७४||

🔊 Audio coming soon

Adhikarana 117 (175) · Śloka 175

घृताभ्यङ्गस्वेदलेपानवस्थासु च योजयेत् |१७५|

🔊 Audio coming soon

Adhikarana 118 (175) · Śloka 176

श्रीपर्णीचन्दनोशीरपरूषकमधूकजः ||१७५|| शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम् |१७६|

🔊 Audio coming soon

Adhikarana 119 (176) · Śloka 176

पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् ||१७६||

🔊 Audio coming soon

Adhikarana 120 (177) · Śloka 177

सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम् |१७७|

🔊 Audio coming soon

Adhikarana 121 (177) · Śloka 177

शृतं शीतकषायं वा सोत्पलं शर्करायुतम् ||१७७||

🔊 Audio coming soon

Adhikarana 122 (178) · Śloka 178

गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा | शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः ||१७८||

🔊 Audio coming soon

Adhikarana 123 (179) · Śloka 180

द्राक्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः | स्वादुतिक्तकषायाणां कषायैः शर्करायुतैः ||१७९|| सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च |१८०|

🔊 Audio coming soon

Adhikarana 124 (180) · Śloka 181

शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् ||१८०|| वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति |१८१|

🔊 Audio coming soon

Adhikarana 125 (181) · Śloka 182

क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः ||१८१|| अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः |१८२|

🔊 Audio coming soon

Adhikarana 126 (182-183) · Śloka 184

पद्मकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम् ||१८२|| यवान् भृष्टानुशीराणि समङ्गां काश्मरीफलम् | निदध्यादप्सु चालोड्य निशापर्युषितं ततः ||१८३|| क्षौद्रेण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः |१८४|

🔊 Audio coming soon

Adhikarana 127 (184) · Śloka 184

जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत् ||१८४||

🔊 Audio coming soon

Adhikarana 128 (185) · Śloka 186

केशरं मातुलङ्गस्य मधुसैन्धवसंयुतम् | शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोस्तथा ||१८५|| वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम् |१८६|

🔊 Audio coming soon

Adhikarana 129 (186) · Śloka 187

सप्तच्छदं गुडूचीं च निम्बं स्फूर्जकमेव च ||१८६|| क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे |१८७|

🔊 Audio coming soon

Adhikarana 130 (187) · Śloka 188

कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी ||१८७|| कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम् |१८८|

🔊 Audio coming soon

Adhikarana 131 (188-189) · Śloka 189

हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् ||१८८|| कुष्ठमिन्द्रयवान् मूर्वां पटोलं चापि साधितम् | पिबेन्मरिचसंयुक्तं सक्षौद्रं कफजे ज्वरे ||१८९||

🔊 Audio coming soon

Adhikarana 132 (190) · Śloka 190

सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः | मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम् ||१९०||

🔊 Audio coming soon

Adhikarana 133 (191) · Śloka 191

मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी | परूषकाणि च क्वाथः कफज्वरविनाशनः ||१९१||

🔊 Audio coming soon

Adhikarana 134 (192) · Śloka 192

राजवृक्षादिवर्गस्य कषायो मधुसंयुतः | कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः ||१९२||

🔊 Audio coming soon

Adhikarana 135 (193-194) · Śloka 195

नागरं धान्यकं भार्गीमभयां सुरदारु च | वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् ||१९३|| निष्क्वाथ्य कफवातोत्थे क्षौद्रहिङ्गुसमन्वितम् | दा(पा)तव्यं श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे ||१९४|| हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे |१९५|

🔊 Audio coming soon

Adhikarana 136 (195-198) · Śloka 199

बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च ||१९५|| क्वाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम् | कटुकाविजयाद्राक्षामुस्तपर्पटकैः कृतः ||१९६|| कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम् | भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः ||१९७|| काश्मर्यनागरैः क्वाथः सक्षौद्रः श्लेष्मपित्तजे | सशर्करामक्षमात्रां कटुकामुष्णवारिणा ||१९८|| पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम् |१९९|

🔊 Audio coming soon

Adhikarana 137 (199-200) · Śloka 201

किराततिक्तममृतां द्राक्षामामलकं शटीम् ||१९९|| निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत् | रास्ना वृषोऽथ त्रिफला राजवृक्षफलैः सह ||२००|| कषायः साधितः पीतो वातपित्तज्वरं जयेत् |२०१|

🔊 Audio coming soon

Adhikarana 138 (201) · Śloka 201

सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् ||२०१||

🔊 Audio coming soon

Adhikarana 139 (202) · Śloka 202

यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत् |२०२|

🔊 Audio coming soon

Adhikarana 140 (202) · Śloka 203

वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च ||२०२|| पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम् |२०३|

🔊 Audio coming soon

Adhikarana 141 (203) · Śloka 204

उदकांशास्त्रयः क्षीरं शिंशपासारसंयुतम् ||२०३|| तत् क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम् |२०४|

🔊 Audio coming soon

Adhikarana 142 (204-207) · Śloka 207

नलवेतसयोर्मूले मूर्वायां देवदारुणि ||२०४|| कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम् | हरिद्रा भद्रमुस्तं च त्रिफला कटुरोहिणी ||२०५|| पिचुमन्दः पटोली च देवदारु निदिग्धिका | एषां कषायः पीतस्तु सन्निपातज्वरं जयेत् ||२०६|| अविपक्तिं प्रसेकं च शोफं कासमरोचकम् | त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे ||२०७||

🔊 Audio coming soon

Adhikarana 143 (208) · Śloka 209

अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम् सुखाम्बुना प्रागुदयात्पाययेताक्षसम्मितम् ||२०८|| एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम् |२०९|

🔊 Audio coming soon

Adhikarana 144 (209) · Śloka 210

द्रव्याणि दीपनीयानि तथा वैरेचनानि च ||२०९|| एकशो वा द्विशो वाऽपि ज्वरघ्नानि प्रयोजयेत् |२१०|

🔊 Audio coming soon

Adhikarana 145 (210) · Śloka 211

सर्पिर्मध्वभयातैललेहोऽयं सर्वजं ज्वरम् ||२१०|| शान्तिं नयेत्त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम् |२११|

🔊 Audio coming soon

Adhikarana 146 (211) · Śloka 211

ज्वरे तु विषमे कार्यमूर्ध्वं चाधश्च शोधनम् ||२११||

🔊 Audio coming soon

Adhikarana 147 (212) · Śloka 212

घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम् |२१२|

🔊 Audio coming soon

Adhikarana 148 (212) · Śloka 212

गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः ||२१२||

🔊 Audio coming soon

Adhikarana 149 (213) · Śloka 213

गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम् |२१३|

🔊 Audio coming soon

Adhikarana 150 (213) · Śloka 213

प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत् ||२१३||

🔊 Audio coming soon

Adhikarana 151 (214) · Śloka 215

त्रिचतुर्भिः पिबेत् क्वाथं पञ्चभिर्वा समन्वितैः | मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च ||२१४|| हरीतक्याश्च सर्वोऽयं त्रिविधो योग इष्यते |२१५|

🔊 Audio coming soon

Adhikarana 152 (215) · Śloka 216

सर्पिःक्षीरसिताक्षौद्रमागधीर्वा यथाबलम् ||२१५|| दशमूलीकषायेण मागधीर्वा प्रयोजयेत् |२१६|

🔊 Audio coming soon

Adhikarana 153 (216) · Śloka 216

पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः ||२१६||

🔊 Audio coming soon

Adhikarana 154 (217) · Śloka 217

ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम् |२१७|

🔊 Audio coming soon

Adhikarana 155 (217) · Śloka 218

कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत् ||२१७|| तिल्वकावापमेतद्धि विषमज्वरनाशनम् |२१८|

🔊 Audio coming soon

Adhikarana 156 (218-220) · Śloka 221

पिप्पल्यतिविषाद्राक्षासारिवाबिल्वचन्दनैः ||२१८|| कटुकेन्द्रयवोशीरसिंहीतामलकीघनैः | त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः ||२१९|| पक्वमेतैर्घृतं पीतं विजित्य विषमाग्निताम् | जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् ||२२०|| क्षयकासं ससन्तापं पार्श्वशूलानपास्यति |२२१|

🔊 Audio coming soon

Adhikarana 157 (221-222) · Śloka 223

गुडूचीत्रिफलावासात्रायमाणायवासकैः ||२२१|| क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः | द्राक्षामागधिकाम्भोदनागरोत्पलचन्दनैः ||२२२|| पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत् |२२३|

🔊 Audio coming soon

Adhikarana 158 (223-225) · Śloka 226

कलशीबृहतीद्राक्षात्रायन्तीनिम्बगोक्षुरैः ||२२३|| बलापर्पटकाम्भोदशालपर्णीयवासकैः | पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम् ||२२४|| शटीतामलकीभार्गीमेदामलकपौष्करैः | क्षीरद्विगुणसंयुक्तं जीर्णज्वरमपोहति ||२२५|| शिरःपार्श्वरुजाकासक्षयप्रशमनं परम् |२२६|

🔊 Audio coming soon

Adhikarana 159 (226-228) · Śloka 229

पटोलीपर्पटारिष्टगुडूचीत्रिफलावृषैः ||२२६|| कटुकाम्बुदभूनिम्बयासयष्ट्याह्वचन्दनैः | दार्वीशक्रयवोशीरत्रायमाणाकणोत्पलैः ||२२७|| धात्रीभृङ्गरजोभीरुकाकमाचीरसैर्घृतम् | सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनव्रणान् ||२२८|| हन्यान्नयनवदनश्रवणघ्राणजान् गदान् |२२९|

🔊 Audio coming soon

Adhikarana 160 (229-233) · Śloka 234

विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः ||२२९|| प्रियङ्ग्वेलैलवालूकचन्दनामरदारुभिः | बर्हिष्ठकुष्ठरजनीपार्णिनीसारिवाद्वयैः ||२३०|| हरेणुकात्रिवृद्दन्तीवचातालीशकेसरैः | द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह ||२३१|| जीर्णज्वरश्वासकासगुल्मोन्मादगरापहम् | एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम् ||२३२|| अलक्ष्मीग्रहरक्षोग्निमान्द्यापस्मारपापनुत् | शस्यते नष्टशुक्राणां वन्ध्यानां गर्भदं परम् ||२३३|| मेध्यं चक्षुष्यमायुष्यं रेतोमार्गविशोधनम् |२३४|

🔊 Audio coming soon

Adhikarana 161 (234-239) · Śloka 240

एतैरेव तथा द्रव्यैः सर्वगन्धैश्च साधितम् ||२३४|| कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम् | तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः ||२३५|| सुमनश्चम्पकाशोकशिरीषकुसुमैर्वृतम् | तथा नलदपद्मानां केशरैर्दाडिमस्य च ||२३६|| तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च | कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् ||२३७|| दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम् ||२३८|| दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम् | अधृष्यः सर्वभूतानां वलीपलितवर्जितः ||२३९|| अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम् |२४०|

🔊 Audio coming soon

Adhikarana 162 (240-242) · Śloka 242

गव्यं दधि च मूत्रं च क्षीरं सर्पिः शकृद्रसः ||२४०|| समभागानि पाच्यानि कल्कांश्चैतान् समावपेत् | त्रिफलां चित्रकं मुस्तं हरिद्रातिविषे वचाम् ||२४१|| विडङ्गं त्र्यूषणं चव्यं सुरदारु तथैव च | पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम् ||२४२||

🔊 Audio coming soon

Adhikarana 163 (243) · Śloka 243

पञ्चगव्यमृते गर्भात्पाच्यमन्यद्... |२४३|

🔊 Audio coming soon

Adhikarana 164 (243) · Śloka 244

... वृषेण च | बलयाऽथ परं पाच्यं गुडूच्या तद्वदेव तु ||२४३|| जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम् |२४४|

🔊 Audio coming soon

Adhikarana 165 (244) · Śloka 244

एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत् | पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि च ||२४४||

🔊 Audio coming soon

Adhikarana 166 (245-253) · Śloka 254

त्रिफलोशीरशम्पाककटुकातिविषाघनैः | शतावरीसप्तपर्णगुडूचीरजनीद्वयैः ||२४५|| चित्रकत्रिवृतामूर्वापटोलारिष्टवालकैः | किराततिक्तकवचाविशालापद्मकोत्पलैः ||२४६|| सारिवाद्वययष्ट्याह्वचविकारक्तचन्दनैः | दुरालभापर्पटकत्रायमाणाटरूषकैः ||२४७|| रास्नाकुङ्कुममञ्जिष्ठामागधीनागरैस्तथा | धात्रीफलरसैः सम्यग्द्विगुणैः साधितं हविः ||२४८|| परिसर्पज्वरश्वासगुल्मकुष्ठनिवारणम् | पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम् ||२४९|| पटोलकटुकादार्वीनिम्बवासाफलत्रिकम् | दुरालभापर्पटकत्रायमाणाः पलोन्मिताः ||२५०|| प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे | तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ||२५१|| कल्कैः कुटजभूनिम्बघनयष्ट्याह्वचन्दनैः | सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम् ||२५२|| घ्राणकर्णाक्षिवदनवर्त्मरोगव्रणापहम् | रक्तपित्तकफस्वेदक्लेदपूयोपशोषणम् ||२५३|| कामलाज्वरवीसर्पगण्डमालाहरं परम् |२५४|

🔊 Audio coming soon

Adhikarana 167 (254-255) · Śloka 255

शृतं पयः शर्करा च पिप्पल्यो मधुसर्पिषी ||२५४|| पञ्चसारमिदं पेयं मथितं विषमज्वरे | क्षतक्षीणे क्षये श्वासे हृद्रोगे चैतदिष्यते ||२५५||

🔊 Audio coming soon

Adhikarana 168 (256) · Śloka 256

लाक्षाविश्वनिशामूर्वामञ्जिष्ठास्वर्जिकामयैः | षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् ||२५६||

🔊 Audio coming soon

Adhikarana 169 (257-258) · Śloka 258

क्षीरिवृक्षासनारिष्टजम्बूसप्तच्छदार्जुनैः | शिरीषखदिरास्फोटामृतवल्ल्याटरूषकैः ||२५७|| कटुकापर्पटोशीरवचातेजोवतीघनैः | साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम् ||२५८||

🔊 Audio coming soon

Adhikarana 170 (259-261) · Śloka 261

निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः | त्रासयेदागमे चैनं तदहर्भोजयेन्न च ||२५९|| अत्यभिष्यन्दिगुरुभिर्वामयेद्वा पुनः पुनः | मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम् ||२६०|| पुराणं वा घृतं काममुदारं वा विरेचनम् | निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम् ||२६१||

🔊 Audio coming soon

Adhikarana 171 (262) · Śloka 262

अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा | निम्बपत्रं मधुयुतं धूपनं तस्य दापयेत् ||२६२||

🔊 Audio coming soon

Adhikarana 172 (263) · Śloka 263

बैडालं वा शकृद्योज्यं वेपमानस्य धूपनम् |२६३|

🔊 Audio coming soon

Adhikarana 173 (263) · Śloka 263

पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम् ||२६३||

🔊 Audio coming soon

Adhikarana 174 (264) · Śloka 264

उदरोक्तानि सर्पिंषि यान्युक्तानि पुरा मया | कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् ||२६४||

🔊 Audio coming soon

Adhikarana 175 (265) · Śloka 265

भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः | जयेद्भूताभिषङ्गोत्थं... |२६५|

🔊 Audio coming soon

Adhikarana 176 (265) · Śloka 265

... विज्ञानाद्यैश्च मानसम् ||२६५||

🔊 Audio coming soon

Adhikarana 177 (266) · Śloka 266

श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम् |२६६|

🔊 Audio coming soon

Adhikarana 178 (266) · Śloka 266

अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत् ||२६६||

🔊 Audio coming soon

Adhikarana 179 (267) · Śloka 267

दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडितम् |२६७|

🔊 Audio coming soon

Adhikarana 180 (267) · Śloka 268

अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम् ||२६७|| कषायमधुरां स्निग्धां यथादोषमथापि वा |२६८|

🔊 Audio coming soon

Adhikarana 181 (268-269) · Śloka 269

ओषधीगन्धविषजौ विषपित्तप्रसाधनैः ||२६८|| जयेत् कषायं च हितं सर्वगन्धकृतं तथा | निम्बदारुकषायं वा हितं सौमनसं यथा ||२६९||

🔊 Audio coming soon

Adhikarana 182 (270) · Śloka 270

यवान्नविकृतिः सर्पिर्मद्यं च विषमे हितम् |२७०|

🔊 Audio coming soon

Adhikarana 183 (270) · Śloka 270

सम्पूजयेद्द्विजान् गाश्च देवमीशानमम्बिकाम् ||२७०||

🔊 Audio coming soon

Adhikarana 184 (271-281) · Śloka 281

कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम् | दिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः ||२७१|| सिञ्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः | दिह्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः ||२७२|| क्षारतैलेन वाऽभ्यङ्गः सशुक्तेन विधीयते | पानमारग्वधादेश्च क्वथितस्य विशेषतः ||२७३|| अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः | जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् ||२७४|| प्रवेश्यौर्णिककार्पासकौशेयाम्बरसंवृतम् | शाययेत् क्षामदेहं च कालागुरुविभूषितम् ||२७५|| स्तनाढ्या रूपसम्पन्नाः कुशला नवयौवनाः | भजेयुः प्रमदा गात्रैः शीतदैन्यापहाः शुभाः ||२७६|| शरच्छशाङ्कवदना नीलोत्पलविलोचनाः | स्फुरितभ्रूलताभङ्गललाटतटकम्पनाः ||२७७|| प्रलम्बबिम्बप्रचलद्बिम्बीफलनिभाधराः | कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः ||२७८|| कुङ्कुमागुरुदिग्धाङ्ग्यो घनतुङ्गपयोधराः | सुगन्धिधूपितश्लक्ष्णस्रस्तांशुकविभूषणाः ||२७९|| गाढमालिङ्गयेयुस्तं तरुं वनलता इव | प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः ||२८०|| तासामङ्गपरिष्वङ्गनिवारितहिमज्वरम् | भोजयेद्धितमन्नं च यथा सुखमवाप्नुयात् ||२८१||

🔊 Audio coming soon

Adhikarana 185 (282-285) · Śloka 286

दाहाभिभूते तु विधिं कुर्याद्दाहविनाशनम् | मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा ||२८२|| दाहज्वरार्तं मतिमान् वामयेत् क्षिप्रमेव च | शतधौतघृताभ्यक्तं दिह्याद्वा यवशत्कुभिः ||२८३|| कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः | अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा ||२८४|| अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत् | बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च ||२८५|| लिप्तेऽङ्गे दाहतृण्मूर्च्छाः प्रशाम्यन्ति च सर्वशः |२८६|

🔊 Audio coming soon

Adhikarana 186 (286-287) · Śloka 287

यवार्धकुडवं पिष्ट्वा मञ्जिष्ठार्धपलं तथा ||२८६|| अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत् | एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम् ||२८७||

🔊 Audio coming soon

Adhikarana 187 (288-293) · Śloka 293

न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः | उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् ||२८८|| तत्कषायाम्लसंसिद्धाः स्नेहाश्चाभ्यञ्जने हिताः | तेषां शीतकषाये वा दाहार्तमवगाहयेत् ||२८९|| दाहवेगे त्वतिक्रान्ते तस्मादुद्धृत्य मानवम् | परिषिच्याम्बुभिः शीतैः प्रलिम्पेच्चन्दनादिभिः ||२९०|| ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गनाः | पेलवक्षौमसंवीताश्चन्दनार्द्रपयोधराः ||२९१|| बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः | भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः सुखैः ||२९२|| प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः | हितं च भोजयेदन्नं तथाऽऽप्नोति सुखं महत् ||२९३||

🔊 Audio coming soon

Adhikarana 188 (294) · Śloka 294

पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितं च यत् |२९४|

🔊 Audio coming soon

Adhikarana 189 (294) · Śloka 295

निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु ||२९४|| दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः |२९५|

🔊 Audio coming soon

Adhikarana 190 (295) · Śloka 296

छर्दिमूर्च्छापिपासादीनविरोधाज्ज्वरस्य च ||२९५|| उपद्रवाञ्जयेच्चापि प्रत्यनीकेन हेतुना |२९६|

🔊 Audio coming soon

Adhikarana 191 (296-299) · Śloka 299

विशेषमपरं चात्र शृणूपद्रवनाशनम् ||२९६|| मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम् | अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम् ||२९७|| त्वचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु | दिह्यादेभिर्ज्वरार्तस्य मधुशुक्तयुतैः शिरः ||२९८|| शिरोभितापसम्मोहवमिहिक्काप्रवेपथून् | प्रदेहो नाशयत्येष ज्वरितानामुपद्रवान् ||२९९||

🔊 Audio coming soon

Adhikarana 192 (300-301) · Śloka 301

मधूकमथ ह्रीबेरमुत्पलानि मधूलिकाम् ||३००|| लीढ्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम् | कफप्रसेकासृक्पित्तहिक्काश्वासांश्च दारुणान् ||३०१||

🔊 Audio coming soon

Adhikarana 193 (302) · Śloka 302

लिहन् ज्वरार्तस्त्रिफलां पिप्पलीं च समाक्षिकाम् | कासे श्वासे च मधुना सर्पिषा च सुखी भवेत् ||३०२||

🔊 Audio coming soon

Adhikarana 194 (303) · Śloka 303

विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम् | एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः ||३०३||

🔊 Audio coming soon

Adhikarana 195 (304) · Śloka 305

दाडिमस्य सितायाश्च द्राक्षामलकयोस्तथा | वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम् ||३०४|| क्षीरेक्षुरसमाक्षीकसर्पिस्तैलोष्णवारिभिः |३०५|

🔊 Audio coming soon

Adhikarana 196 (305) · Śloka 305

शून्ये मूर्ध्नि हितं नस्यं जीवनीयशृतं घृतम् ||३०५||

🔊 Audio coming soon

Adhikarana 197 (306) · Śloka 307

चूर्णितैस्त्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः | सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते ||३०६|| पक्वे पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा |३०७|

🔊 Audio coming soon

Adhikarana 198 (307) · Śloka 307

कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत् ||३०७||

🔊 Audio coming soon

Adhikarana 199 (308) · Śloka 308

हृतदोषो भ्रमार्तस्तु लिह्यात् क्षौद्रसिताभयाः |३०८|

🔊 Audio coming soon

Adhikarana 200 (308) · Śloka 309

वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे ||३०८|| अवेक्ष्य दोषं प्राणं च यथास्वं चानुवासनाः |३०९|

🔊 Audio coming soon

Adhikarana 201 (309-311) · Śloka 312

उत्पलादिकषायाद्या(ढ्या)श्चन्दनोशीरसंयुताः ||३०९|| शर्करामधुराः शीताः पित्तज्वरहरा मताः | आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले ||३१०|| गैरिकाञ्जनमञ्जिष्ठामृणालान्यथ पद्मकम् | श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम् ||३११|| सुपूतं शीतलं बस्तिं दह्यमानाय दापयेत् |३१२|

🔊 Audio coming soon

Adhikarana 202 (312) · Śloka 312

ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम् ||३१२||

🔊 Audio coming soon

Adhikarana 203 (313) · Śloka 313

आरग्वधगणक्वाथाः पिप्पल्यादिसमायुताः | सक्षौद्रमूत्रा देयाः स्युः कफज्वरविनाशनाः ||३१३||

🔊 Audio coming soon

Adhikarana 204 (314) · Śloka 314

कफघ्नैरेव संसिद्धा द्रव्यैश्चाप्यनुवासनाः |३१४|

🔊 Audio coming soon

Adhikarana 205 (314) · Śloka 314

संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः ||३१४||

🔊 Audio coming soon

Adhikarana 206 (315) · Śloka 315

संसृष्टैरेव संसृष्टा द्रव्यैश्चाप्यनुवासनाः |३१५|

🔊 Audio coming soon

Adhikarana 207 (315) · Śloka 316

वातरोगापहाः सर्वे स्नेहा ये सम्यगीरिताः ||३१५|| विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे |३१६|

🔊 Audio coming soon

Adhikarana 208 (316) · Śloka 316

निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु ||३१६||

🔊 Audio coming soon

Adhikarana 209 (317) · Śloka 317

पैत्तिके मधुरैस्तिक्तैः सिद्धं सर्पिश्च पूज्यते |३१७|

🔊 Audio coming soon

Adhikarana 210 (317) · Śloka 317

श्लैष्मिके कटुतिक्तैश्च, संसृष्टानीतरेषु च ||३१७||

🔊 Audio coming soon

Adhikarana 211 (318) · Śloka 319

हृतावशेषं पित्तं तु त्वक्स्थं जनयति ज्वरम् | पिबेदिक्षुरसं तत्र शीतं वा शर्करोदकम् ||३१८|| शालिषष्टिकयोरन्नमश्नीयात् क्षीरसम्प्लुतम् |३१९|

🔊 Audio coming soon

Adhikarana 212 (319) · Śloka 319

कफवातोत्थयोरेव स्वेदाभ्यङ्गौ प्रयोजयेत् ||३१९||

🔊 Audio coming soon

Adhikarana 213 (320) · Śloka 320

घृतं द्वादशरात्रात्तु देयं सर्वज्वरेषु च | तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि ||३२०||

🔊 Audio coming soon

Adhikarana 214 (321) · Śloka 321

धातून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते | तेन व्याकुलचित्तस्तु म्रियमाण इवेहते ||३२१||

🔊 Audio coming soon

Adhikarana 215 (322) · Śloka 322

लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च | क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् ||३२२||

🔊 Audio coming soon

Adhikarana 216 (323-324) · Śloka 324

शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः | रोगराट् रोघसङ्घातो ज्वर इत्युपदिश्यते ||३२३|| व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसम्भवात् | अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते ||३२४||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 39

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम(प्रथमोऽध्यायः, आदित) एकोनचत्वारिंशोऽध्यायः ||३९||

🔊 Audio coming soon