Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

58. mūtrāghātapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3-4) · Śloka 4

वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च | मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ||३|| मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च | मूत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः ||४||

🔊 Audio coming soon

Adhikarana 3 (5-6) · Śloka 6

रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः | मूत्रं चरति सङ्गृह्य विगुणः कुण्डलीकृतः ||५|| सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः | वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ||६||

🔊 Audio coming soon

Adhikarana 4 (7-8) · Śloka 8

शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः | अष्ठीलावद्धनं ग्रन्थिं करोत्यचलमुन्नतम् ||७|| विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते | वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ||८||

🔊 Audio coming soon

Adhikarana 5 (9-10) · Śloka 10

वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः | निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ||९|| मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः | वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः ||१०||

🔊 Audio coming soon

Adhikarana 6 (11-12) · Śloka 12

वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति | तस्य नाभ्येति यदि वा कथञ्चित्सम्प्रवर्तते ||११|| प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः | मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् ||१२||

🔊 Audio coming soon

Adhikarana 7 (13-14) · Śloka 14

मूत्रस्य विहते वेगे तदुदावर्तहेतुना | अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ||१३|| नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम् | तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम् ||१४||

🔊 Audio coming soon

Adhikarana 8 (15-16) · Śloka 16

बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः | मूत्रं प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः ||१५|| स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम् | विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसञ्ज्ञितः ||१६||

🔊 Audio coming soon

Adhikarana 9 (17) · Śloka 17

रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ | सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसङ्क्षयम् ||१७||

🔊 Audio coming soon

Adhikarana 10 (18-19) · Śloka 19

अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च | वेदनावानति सदा मूत्रमार्गनिरोधनः ||१८|| जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः | स मूत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः ||१९||

🔊 Audio coming soon

Adhikarana 11 (20-21) · Śloka 21

प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति | तस्य मूत्रयुतं रेतः सहसा सम्प्रवर्तते ||२०|| पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन | भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ||२१||

🔊 Audio coming soon

Adhikarana 12 (22-23) · Śloka 23

व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम् | बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः ||२२|| मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा | कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् ||२३||

🔊 Audio coming soon

Adhikarana 13 (24-26) · Śloka 26

विशदं पीतकं मूत्रं सदाहं बहलं तथा | शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् ||२४|| मूत्रौकसादं तं विद्याद्रोगं पित्तकृतं बुधः | पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् ||२५|| शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम् | मूत्रौकसादं तं विद्यादामयं द्वादशं कफात् ||२६||

🔊 Audio coming soon

Adhikarana 14 (27) · Śloka 28

कषायकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च | क्षारमद्या(ध्वा)सवस्वेदान् बस्तींश्चोत्तरसञ्ज्ञितान् ||२७|| विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम् |२८|

🔊 Audio coming soon

Adhikarana 15 (28) · Śloka 28

मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत् ||२८||

🔊 Audio coming soon

Adhikarana 16 (29) · Śloka 29

कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम् | धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते ||२९||

🔊 Audio coming soon

Adhikarana 17 (30) · Śloka 30

सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः | मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ||३०||

🔊 Audio coming soon

Adhikarana 18 (31) · Śloka 31

पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम् | रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ||३१||

🔊 Audio coming soon

Adhikarana 19 (32) · Śloka 32

दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः | पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ||३२||

🔊 Audio coming soon

Adhikarana 20 (33-34) · Śloka 34

पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च | अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ||३३|| क्षीरावशिष्टं तच्छीतं सिताक्षौद्रयुतं पिबेत् | नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ||३४||

🔊 Audio coming soon

Adhikarana 21 (35) · Śloka 35

निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः | रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् ||३५||

🔊 Audio coming soon

Adhikarana 22 (36) · Śloka 36

मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च | पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम् ||३६||

🔊 Audio coming soon

Adhikarana 23 (37) · Śloka 37

अभयामलकाक्षाणां कल्कं बदरसम्मितम् | अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् ||३७||

🔊 Audio coming soon

Adhikarana 24 (38) · Śloka 38

उदुम्बरसमं कल्कं द्राक्षाया जलसंयुतम् | पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् ||३८||

🔊 Audio coming soon

Adhikarana 25 (39) · Śloka 39

निदिग्धिकायाः स्वरसं पिबेत् कुडवसम्मितम् | मूत्रदोषहरं कल्य ... |३९|

🔊 Audio coming soon

Adhikarana 26 (39-40) · Śloka 40

... मथवा क्षौद्रसंयुतम् ||३९|| प्रपीड्यामलकानां तु रसं कुडवसम्मितम् | पीत्वाऽगदी भवेज्जन्तुर्मूत्रदोषरुजातुरः ||४०||

🔊 Audio coming soon

Adhikarana 27 (41) · Śloka 41

धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः |४१|

🔊 Audio coming soon

Adhikarana 28 (41-42) · Śloka 42

पिष्ट्वाऽथवा सुशीतेन शालितण्डुलवारिणा ||४१|| तालस्य तरुणं मूलं त्रपुसस्य रसं तथा | श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् ||४२||

🔊 Audio coming soon

Adhikarana 29 (43) · Śloka 43

शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः | मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ||४३||

🔊 Audio coming soon

Adhikarana 30 (44-45) · Śloka 45

बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान् | शतपर्वकमूलं च देवदारु सचित्रकम् ||४४|| अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः | मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ||४५||

🔊 Audio coming soon

Adhikarana 31 (46) · Śloka 46

पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम् | पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया ||४६||

🔊 Audio coming soon

Adhikarana 32 (47) · Śloka 47

नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान् | क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ||४७||

🔊 Audio coming soon

Adhikarana 33 (48) · Śloka 49

पाटल्या यावशूकाच्च पारिभद्रात्तिलादापि | क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ||४८|| पिबेद्गुडेन मिश्रं वा लिह्याल्लेहान् पृथक् पृथक् |४९|

🔊 Audio coming soon

Adhikarana 34 (49-50) · Śloka 50

अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ||४९|| स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम् | ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ||५०||

🔊 Audio coming soon

Adhikarana 35 (51) · Śloka 51

स्त्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते | मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः ||५१||

🔊 Audio coming soon

Adhikarana 36 (52) · Śloka 52

ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु | विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम् ||५२||

🔊 Audio coming soon

Adhikarana 37 (53-57) · Śloka 57

क्षौद्रार्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः | शर्करायाश्च चूर्णं च द्राक्षाचूर्णं च तत्समम् ||५३|| स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च | पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत् ||५४|| तदैकध्यं समानीय खजेनाभिप्रमन्थयेत् | ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ||५५|| एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा | मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् ||५६|| जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च | नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ||५७||

🔊 Audio coming soon

Adhikarana 38 (58-64) · Śloka 65

बला कोलास्थि मधुकं श्वदंष्ट्राऽथ शतावरी | मृणालं च कशेरुश्च बीजानीक्षुरकस्य च ||५८|| सहस्रवीर्यांऽशुमती पयस्या सह कालया | शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ||५९|| एतानि समभागानि मतिमान् सह साधयेत् | चतुर्गुणेन पयसा गुडस्य तुलया सह ||६०|| द्रोणावशिष्टं तत् पूतं पचेत्तेन घृताढकम् | तत् सिद्धं कलशे स्थाप्यं क्षौद्रप्रस्थेन संयुतम् ||६१|| सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते | तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ||६२|| क्षौद्रेण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत् | तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ||६३|| शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः | व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् ||६४|| ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति |६५|

🔊 Audio coming soon

Adhikarana 39 (65-72) · Śloka 72

चित्रकः सारिवा चैव बला कालानुसारिवा ||६५|| द्राक्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत् | तथैव मधुकं पथ्यां दद्यादामलकानि च ||६६|| घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः | क्षीरद्रोणे जलद्रोणे तत्सिद्धमवतारयेत् ||६७|| शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम् | तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत् ||६८|| ततो मितं पिबेत्काले यथादोषं यथाबलम् | वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ||६९|| रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम् | जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ||७०|| प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम् | सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ||७१|| असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान् | मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ||७२||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 58

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्राघातप्रतिषेधो नाम (विंशोऽध्यायः, आदितः) अष्टपञ्चाशत्तमोऽध्यायः ||५८||

🔊 Audio coming soon