Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

27. navagrahākr̥tivijñānīyādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

बालग्रहाणां विज्ञानं साधनं चाप्यनन्तरम् | उत्पत्तिं कारणं चैव सुश्रुतैकमनाः शृणु ||३||

🔊 Audio coming soon

Adhikarana 3 (4-5) · Śloka 5

स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च | शकुनी रेवती चैव पूतना चान्धपूतना ||४|| पूतना शीतनामा च तथैव मुखमण्डिका | नवमो नैगमेषश्च यः पितृग्रहसञ्ज्ञितः ||५||

🔊 Audio coming soon

Adhikarana 4 (6) · Śloka 6

धात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान् | त्रस्तान् हृष्टांस्तर्जितान् ताडितान् वा पूजाहेतोर्हिंस्युरेते कुमारान् ||६||

🔊 Audio coming soon

Adhikarana 5 (7) · Śloka 7

ऐश्वर्यस्थास्ते न शक्या विशन्तो देहं द्रष्टुं मानुषैर्विश्वरूपाः | आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति ||७||

🔊 Audio coming soon

Adhikarana 6 (8) · Śloka 8

शूनाक्षः क्षतजसगन्धिकः स्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः | उद्विग्नः सुलुलितचक्षुरल्परोदी स्कन्दार्तो भवति च गाढमुष्टिवर्चाः ||८||

🔊 Audio coming soon

Adhikarana 7 (9) · Śloka 9

निःसञ्ज्ञो भवति पुनर्भवेत्ससञ्ज्ञः संरब्धः करचरणैश्च नृत्यतीव | विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनं च प्रसृजति तत्सखाभिपन्नः ||९||

🔊 Audio coming soon

Adhikarana 8 (10) · Śloka 10

स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात् | स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ||१०||

🔊 Audio coming soon

Adhikarana 9 (11) · Śloka 11

रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्तः | रेवत्या व्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीडितः कुमारः ||११||

🔊 Audio coming soon

Adhikarana 10 (12) · Śloka 12

स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड् भिन्नं सृजति च काकतुल्यगन्धिः | छर्द्याऽऽर्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः ||१२||

🔊 Audio coming soon

Adhikarana 11 (13) · Śloka 13

यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः | दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्भिषज इहान्धपूतनार्तम् ||१३||

🔊 Audio coming soon

Adhikarana 12 (14) · Śloka 14

उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः | विस्राङ्गो भृशमतिसार्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्तम् ||१४||

🔊 Audio coming soon

Adhikarana 13 (15) · Śloka 15

म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्वाशी कलुषसिरावृतोदरो यः | सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरिह वक्त्रमण्डिकार्तः ||१५||

🔊 Audio coming soon

Adhikarana 14 (16) · Śloka 16

यः फेनं वमति विनम्यते च मध्ये सोद्वेगम् विलपति चोर्ध्वमीक्षमाणः | ज्वर्येत प्रततमथो वसासगन्धिर्निःसञ्ज्ञो भवति हि नैगमेषजुष्टः ||१६||

🔊 Audio coming soon

Adhikarana 15 (17) · Śloka 17

प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः | तं बालमचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः ||१७||

🔊 Audio coming soon

Adhikarana 16 (18) · Śloka 18

विपरीतमतः साध्यं चिकित्सेदचिरार्दितम् |१८|

🔊 Audio coming soon

Adhikarana 17 (18-20) · Śloka 20

गृहे पुराणहविषाऽभ्यज्य बालं शुचौ शुचिः ||१८|| सर्षपान् प्रकिरेत्तेषां तैलैर्दीपं च कारयेत् | सदा सन्निहितं चापि जुहुयाद्धव्यवाहनम् ||१९|| सर्वगन्धौषधीबीजैर्गन्धमाल्यैरलङ्क्रतम् | अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति सन्ततम् ||२०||

🔊 Audio coming soon

Adhikarana 18 (21) · Śloka 21

नमः स्कन्दाय देवाय ग्रहाधिपतये नमः | शिरसा त्वाऽभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम् | नीरुजो निर्विकारश्च शिशुर्मे जायतां द्रुतम् ||२१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 27

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नवग्रहाकृतिविज्ञानीयो नाम (प्रथमोऽध्यायः, आदितः) सप्तविंशोऽध्यायः ||२७||

🔊 Audio coming soon