Adhikarana 1 (1-2) · Śloka 2
अथातो नयनाभिघातप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातो नयनाभिघातप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 4
अभ्याहते तु नयने बहुधा नराणां संरम्भरागतुमुलासु रुजासु धीमान् | नस्यास्यलेपपरिषेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ||३|| दृष्टिप्रसादजननं विधिमाशु कुर्यात् स्निग्धैर्हिमैश्च मधुरैश्च तथा प्रयोगैः |४|
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्याहतामपि तथैव भिषक् चिकित्सेत् ||४||
🔊 Audio coming soon
Adhikarana 4 (5) · Śloka 5
सद्योहते नयन एष विधिस्तदूर्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः |५|
🔊 Audio coming soon
Adhikarana 5 (5) · Śloka 5
अभ्याहतं नयनमीषदथास्यबाष्पसंस्वेदितं भवति तन्निरुजं क्षणेन ||५||
🔊 Audio coming soon
Adhikarana 6 (6) · Śloka 7
साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणि क्षतानि पटलानि विवर्जयेत्तु | स्यात् पिच्चितं च नयनं ह्यति चावसन्नं स्रस्तं च्युतं च हतदृक् च भवेत्तु याप्यम् ||६|| विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि, साध्यं यथास्थितमनाविलदर्शनं च |७|
🔊 Audio coming soon
Adhikarana 7 (7) · Śloka 7
प्राणोपरोधवमनक्षुतकण्ठरोधैरुन्नम्यमाशु नयनं यदतिप्रविष्टम् ||७||
🔊 Audio coming soon
Adhikarana 8 (8) · Śloka 8
नेत्रे विलम्बिनि विधिर्विहितः पुरस्तादुच्छिङ्घनं शिरसि वार्यवसेचनं च |८|
🔊 Audio coming soon
Adhikarana 9 (8) · Śloka 9
षट्सप्ततिर्नयनजा य इमे प्रदिष्टा रोगा भवन्त्यमहतां महतां च तेभ्यः ||८|| स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभव एव कुकूणकोऽन्यः |९|
🔊 Audio coming soon
Adhikarana 10 (9-10) · Śloka 10
मृद्गाति नेत्रमतिकण्डुमथाक्षिकूटं नासाललाटमपि तेन शिशुः स नित्यम् ||९|| सूर्यप्रभां न सहते स्रवति प्रबद्धं, तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च | क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु मातुः शिशोरभिहितं च विधिं विदध्यात् ||१०||
🔊 Audio coming soon
Adhikarana 11 (11) · Śloka 12
तं वामयेत्तु मधुसैन्धवसम्प्रयुक्तैः पीतं पयः खलु फलैः खरमञ्जरीणाम् ||११|| स्यात्पिप्पलीलवणमाक्षिकसंयुतैर्वा... |१२|
🔊 Audio coming soon
Adhikarana 12 (12) · Śloka 12
... नैनं वमन्तमपि वामयितुं यतेत |१२|
🔊 Audio coming soon
Adhikarana 13 (12) · Śloka 12
दत्त्वा वचामशनदुग्धभुजे प्रयोज्यमूर्ध्वं ततः फलयुतं वमनं विधिज्ञैः ||१२||
🔊 Audio coming soon
Adhikarana 14 (13) · Śloka 13
जम्ब्वाम्रधात्र्यणुदलैः परिधावनार्थं कार्यं कषायमवसेचनमेव चापि |१३|
🔊 Audio coming soon
Adhikarana 15 (13) · Śloka 13
आश्च्योतने च हितमत्र घृतं गुडूचीसिद्धं तथाऽऽहुरपि च त्रिफलाविपक्वम् ||१३||
🔊 Audio coming soon
Adhikarana 16 (14) · Śloka 14
नेपालजामरिचशङ्खरसाञ्जनानि सिन्धुप्रसूतगुडमाक्षिकसंयुतानि | स्यादञ्जनं, मधुरसामधुकाम्रकैर्वा ... |१४|
🔊 Audio coming soon
Adhikarana 17 (14) · Śloka 14
... कृष्णायसं घृतपयो मधु वाऽपि दग्धम् ||१४||
🔊 Audio coming soon
Adhikarana 18 (15) · Śloka 15
व्योषं पलाण्डु मधुकं लवणोत्तमं च लाक्षां च गौरिकयुतां गुटिकाञ्जनं वा | निम्बच्छदं मधुकदार्वि सताम्रलोध्रमिच्छन्ति चात्र भिषजोऽञ्जनमंशतुल्यम् ||१५||
🔊 Audio coming soon
Adhikarana 19 (16) · Śloka 16
स्रोतोजशङ्खदधिसैन्धवमर्धपक्षं शुक्रं शिशोर्नुदति भावितमञ्जनेन | स्यन्दे कफदभिहितं क्रममाचरेच्च बालस्य रोगकुशलोऽक्षिगदं जिघांसुः ||१६||
🔊 Audio coming soon
Adhikarana 20 (17-18) · Śloka 18
समुद्र इव गम्भीरं नैव शक्यं चिकित्सितम् | वक्तुं निरवशेषेण श्लोकानामयुतैरपि ||१७|| सहस्रैरपि वा, प्रोक्तमर्थमल्पमतिर्नरः | तर्कग्रन्थार्थरहितो नैव गृह्णात्यपण्डितः ||१८||
🔊 Audio coming soon
Adhikarana 21 (19-20) · Śloka 20
तदिदं बहुगूढार्थं चिकित्साबीजमीरितम् | कुशलेनाभिपन्नं तद्बहुधाऽभिप्ररोहति ||१९|| तस्मान्मतिमता नित्यं नानाशास्त्रार्थदर्शिना | सर्वमूह्यमगाधार्थं शास्त्रमागमबुद्धिना ||२०||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 19
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नयनाभिघातचिकित्सितं नामैकोनविंशोऽध्यायः ||१९||
🔊 Audio coming soon