Adhikarana 1 (1-2) · Śloka 2
अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम् | निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः |४|
🔊 Audio coming soon
Adhikarana 4 (4) · Śloka 4
सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ||४||
🔊 Audio coming soon
Adhikarana 5 (5) · Śloka 5
त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः | विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ||५||
🔊 Audio coming soon
Adhikarana 6 (6) · Śloka 6
स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघर(व)कोऽलसाख्यः | विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ||६||
🔊 Audio coming soon
Adhikarana 7 (7) · Śloka 7
कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च | वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||७||
🔊 Audio coming soon
Adhikarana 8 (8) · Śloka 8
पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च | पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||८||
🔊 Audio coming soon
Adhikarana 9 (9) · Śloka 9
शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च | कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्रवैश्च ||९||
🔊 Audio coming soon
Adhikarana 10 (10) · Śloka 10
सर्वात्मके सर्वमिदं व्यवस्येद्... |१०|
🔊 Audio coming soon
Adhikarana 11 (10) · Śloka 11
... वक्ष्यामि लिङ्गान्यथ कामलायाः | यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् ||१०|| करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रिबलक्षयौ च |११|
🔊 Audio coming soon
Adhikarana 12 (11) · Śloka 11
भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः ||११||
🔊 Audio coming soon
Adhikarana 13 (12) · Śloka 12
ज्वराङ्गमर्दभ्रमसादतन्द्राक्षयान्वितो लाघर(व)कोऽलसाख्यः |१२|
🔊 Audio coming soon
Adhikarana 14 (12) · Śloka 12
तं वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः ||१२||
🔊 Audio coming soon
Adhikarana 15 (13) · Śloka 13
उपद्रवास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजाऽग्निसादः | शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च ||१३||
🔊 Audio coming soon
Adhikarana 16 (14-15) · Śloka 15
साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम् | सम्पादयेत् क्षौद्रघृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः ||१४|| पिबेद्घृतं वा रजनीविपक्वं यत्त्रैफलं तैल्वकमेव वाऽपि | विरेचनद्रव्यकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन ||१५||
🔊 Audio coming soon
Adhikarana 17 (16) · Śloka 16
मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम् | खादेद्गुडं वाऽप्यभयाविपक्वमारग्वधादिक्वथितं पिबेद्वा ||१६||
🔊 Audio coming soon
Adhikarana 18 (17) · Śloka 17
अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रां त्रिफलान्वितां वा | सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रप्रदेशाभिहितांश्च योगान् ||१७||
🔊 Audio coming soon
Adhikarana 19 (18) · Śloka 18
हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु |१८|
🔊 Audio coming soon
Adhikarana 20 (18) · Śloka 18
धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्रयुतं हिताशी ||१८||
🔊 Audio coming soon
Adhikarana 21 (19) · Śloka 20
उमे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम् | आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये ||१९|| तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाग्नि |२०|
🔊 Audio coming soon
Adhikarana 22 (20) · Śloka 20
हितं च यष्टीमधुजं कषायं चूर्णं समं वा मधुनाऽवलिह्यात् ||२०||
🔊 Audio coming soon
Adhikarana 23 (21) · Śloka 21
गोमूत्रयुक्तं त्रिफलादलानां दत्त्वाऽऽयसं चूर्णमनल्पकालम् | प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् ||२१||
🔊 Audio coming soon
Adhikarana 24 (22) · Śloka 22
आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च | पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् ||२२||
🔊 Audio coming soon
Adhikarana 25 (23) · Śloka 23
मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः | मूत्रासुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् ||२३||
🔊 Audio coming soon
Adhikarana 26 (24) · Śloka 24
बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः | तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् ||२४||
🔊 Audio coming soon
Adhikarana 27 (25-26) · Śloka 26
सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा | मूर्वाहरिद्रामलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे ||२५|| मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्षसमं हिताशी | सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम् ||२६||
🔊 Audio coming soon
Adhikarana 28 (27) · Śloka 27
न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्रयुतं हिताशी | शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् ||२७||
🔊 Audio coming soon
Adhikarana 29 (28-29) · Śloka 30
विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः | चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च ||२८|| सम्भारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य | जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे ||२९|| हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च |३०|
🔊 Audio coming soon
Adhikarana 30 (30) · Śloka 30
सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ||३०||
🔊 Audio coming soon
Adhikarana 31 (31) · Śloka 31
कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्रजनीविमिश्रम् |३१|
🔊 Audio coming soon
Adhikarana 32 (31) · Śloka 31
धातुं नदीजं जतु शैलजं वा कुम्भाह्वये मूत्रयुतं पिबेद्वा ||३१||
🔊 Audio coming soon
Adhikarana 33 (32) · Śloka 32
मूत्रे स्थितं सैन्धवसम्प्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिट्टम् |३२|
🔊 Audio coming soon
Adhikarana 34 (32-35) · Śloka 35
दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान् ||३२|| विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात् | सिन्धूद्भवं वाऽग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम् ||३३|| लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव | एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ||३४|| यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत् | तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयतेऽनलं च ||३५||
🔊 Audio coming soon
Adhikarana 35 (36) · Śloka 36
द्राक्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघर(व)के हितं च |३६|
🔊 Audio coming soon
Adhikarana 36 (36-37) · Śloka 37
गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ||३६|| स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वाऽपि हि जाङ्गलानाम् | सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम् ||३७||
🔊 Audio coming soon
Adhikarana 37 (38) · Śloka 38
श्वासातिसारारुचिकासमूर्च्छातृट्छर्दि शूलज्वरशोफदाहान् | तथाऽविपाकस्वरभेदसादान् जयेद्यथास्वं प्रसामीक्ष्य शास्त्रम् ||३८||
🔊 Audio coming soon
Adhikarana 38 (39-40) · Śloka 40
अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम् | गुदे च शेफस्यथ मुष्कशूनं प्रताम्यमानं च विसञ्ज्ञकल्पम् ||३९|| विवर्जयेत् पाण्डुकिनं यशोऽर्थी तथाऽतिसारज्वरपीडितं च ||४०||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 44
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम (षष्ठोऽध्यायः, आदितः) चतुश्चत्वारिंशत्तमोऽध्यायः ||४४||
🔊 Audio coming soon