Adhikarana 1 (1-2) · Śloka 2
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा | सहे तथा विदारी च कषायाः सेचने हिताः ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसेऽपि च | पलङ्कषायां नलदे तथा गिरिकदम्बके ||४||
🔊 Audio coming soon
Adhikarana 4 (5) · Śloka 5
धवाश्वकर्णककुभधातकीतिन्दुकीषु च | काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते ||५||
🔊 Audio coming soon
Adhikarana 5 (6-8) · Śloka 9
कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः | गृध्रोलूकपुरीषाणि यवा यवफलो घृतम् ||६|| सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः | वरुणारिष्टकमयं रुचकं सैन्दुकं तथा ||७|| सततं धारयेच्चापि कृतं वा पौत्रजीविकम् | शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ||८|| बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना |९|
🔊 Audio coming soon
Adhikarana 6 (9-11) · Śloka 11
सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः ||९|| नानावस्त्रधरा देवी चित्रमाल्यानुलेपना | चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ||१०|| उपासते यां सततं देव्यो विविधभूषणाः | लम्बा कराला विनता तथैव बहुपुत्रिका | रेवती शुष्कनामा या सा ते देवी प्रसीदतु ||११||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 31
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम (पञ्चमोऽध्यायः, आदितः) एकत्रिंशोऽध्यायः ||३१||
🔊 Audio coming soon