Adhikarana 1 (1-2) · Śloka 2
अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः सन्धिगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
पूयालसः सोपनाहः स्रावाः पर्वणिकाऽलजी | क्रिमिग्रन्थिश्च विज्ञेया रोगाः सन्धिगता नव ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
पक्वः शोफः सन्धिजः संस्रवेद्यः सान्द्रं पूयं पूति पूयालसः सः |४|
🔊 Audio coming soon
Adhikarana 4 (4) · Śloka 4
ग्रन्थिर्नाल्पो दृष्टिसन्धावपाकः कण्डूप्रायो नीरुजस्तूपनाहः ||४||
🔊 Audio coming soon
Adhikarana 5 (5-7) · Śloka 7
गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः स्रावान् रुग्विहीनान् कनीनात् | तान् वै स्रावान् नेत्रनाडीमथैके तस्या लिङ्गं कीर्तयिष्ये चतुर्धा ||५|| पाकः सन्धौ संस्रवेद्यश्च पूयं पूयास्रावो नैकरूपः प्रदिष्टः | श्वेतं सान्द्रं पिच्छिलं संस्रवेद्यः श्लेष्मास्रावो नीरुजः स प्रदिष्टः ||६|| रक्तास्रावः शोणितोत्थः सरक्तमुष्णं नाल्पं संस्रवेन्नातिसान्द्रम् | पीताभासं नीलमुष्णं जलाभं पित्तास्रावः संस्रवेत् सन्धिमध्यात् ||७||
🔊 Audio coming soon
Adhikarana 6 (8) · Śloka 8
ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्ज्ञेया पर्वणी वृत्तशोफा | जाता सन्धौ कृष्णशुक्लेऽलजी स्यात्तस्मिन्नेव ख्यापिता पूर्वलिङ्गैः ||८||
🔊 Audio coming soon
Adhikarana 7 (9) · Śloka 9
क्रिमिग्रन्थिर्वर्त्मनः पक्ष्मणश्च कण्डूं कुर्युः क्रिमयः सन्धिजाताः | नानारूपा वर्त्मशुक्लस्य सन्धौ चरन्तोऽन्तर्नयनं दूषयन्ति ||९||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 2
इति सुश्रुतसंहितायामुत्तरतन्त्रे सन्धिगतरोगविज्ञानीयो नाम द्वितीयोऽध्ययः ||२||
🔊 Audio coming soon