Adhikarana 1 (1-2) · Śloka 2
अथातः शोषप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातः शोषप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
अनेकरोगानुगतो बहुरोगपुरोगमः | दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ||३||
🔊 Audio coming soon
Adhikarana 3 (4-5) · Śloka 5
संशोषणाद्रसादीनां शोष इत्यभिधीयते | क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः ||४|| राज्ञश्चन्द्रमसो यस्मादभूदेष किलामयः | तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः ||५||
🔊 Audio coming soon
Adhikarana 4 (6) · Śloka 6
स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि |६|
🔊 Audio coming soon
Adhikarana 5 (6-7) · Śloka 7
एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ||६|| क्रियाणामविभागेन प्रागेकोत्पादनेन च | एक एव मतः शोषः सन्निपातात्मको ह्यतः ||७||
🔊 Audio coming soon
Adhikarana 6 (8) · Śloka 8
उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि |८|
🔊 Audio coming soon
Adhikarana 7 (8) · Śloka 9
क्षयाद्वेगप्रतीघातादाघाताद्विषमाशनात् ||८|| जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः |९|
🔊 Audio coming soon
Adhikarana 8 (9) · Śloka 9
कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ||९||
🔊 Audio coming soon
Adhikarana 9 (10) · Śloka 10
अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तरम् | क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ||१०||
🔊 Audio coming soon
Adhikarana 10 (11) · Śloka 11
भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् | स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ||११||
🔊 Audio coming soon
Adhikarana 11 (12-13) · Śloka 13
स्वरभेदोऽनिलाञ्छूलं संलोचश्चांसपार्श्वयोः | ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ||१२|| शिरसः परिपूर्णत्वमभक्तच्छन्द एव च | कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः ||१३||
🔊 Audio coming soon
Adhikarana 12 (14-15) · Śloka 15
एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् | (कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ||१४|| त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः) | जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः ||१५||
🔊 Audio coming soon
Adhikarana 13 (16) · Śloka 16
व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः | व्रणोरःक्षतपीडाभ्यां शोषनन्ये वदन्ति हि ||१६||
🔊 Audio coming soon
Adhikarana 14 (17) · Śloka 17
व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः | पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः ||१७||
🔊 Audio coming soon
Adhikarana 15 (18) · Śloka 18
प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः | विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः ||१८||
🔊 Audio coming soon
Adhikarana 16 (19-20) · Śloka 20
जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रियः | कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः(नः) ||१९|| ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः | सम्प्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः ||२०||
🔊 Audio coming soon
Adhikarana 17 (21) · Śloka 21
अध्वप्रशोषी स्रस्ताङ्गः सम्भृष्टपरुषच्छविः | प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः ||२१||
🔊 Audio coming soon
Adhikarana 18 (22) · Śloka 22
व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः | उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना ||२२||
🔊 Audio coming soon
Adhikarana 19 (23) · Śloka 23
रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् | व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः ||२३||
🔊 Audio coming soon
Adhikarana 20 (24-25) · Śloka 26
व्यायामभाराध्ययनैरभिघातातिमैथुनैः | कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् | तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति ||२४|| कासमानश्छर्दयेच्च पीतरक्तासितारुणम् | सन्तप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति ||२५|| दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः |२६|
🔊 Audio coming soon
Adhikarana 21 (26) · Śloka 27
केषाञ्चिदेवं शोषो हि कारणैर्भेदमागतः ||२६|| न तत्र दोषलिङ्गानां समस्तानां निपातनम् |२७|
🔊 Audio coming soon
Adhikarana 22 (27) · Śloka 27
क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसञ्ज्ञिताः ||२७||
🔊 Audio coming soon
Adhikarana 23 (28) · Śloka 28
चिकित्सितं तु तेषां हि प्रागुक्तं धातुसङ्क्षये ||२८||
🔊 Audio coming soon
Adhikarana 24 (29-30) · Śloka 30
श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्राः | शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ||२९|| स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च | तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ||३०||
🔊 Audio coming soon
Adhikarana 25 (31) · Śloka 31
महाशनं क्षीयमाणमतीसारनिपीडितम् | शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ||३१||
🔊 Audio coming soon
Adhikarana 26 (32) · Śloka 32
उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम् |३२|
🔊 Audio coming soon
Adhikarana 27 (32-33) · Śloka 33
स्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च ||३२|| स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम् | आस्थापनं तथा कार्यं शिरसश्च विरेचनम् ||३३||
🔊 Audio coming soon
Adhikarana 28 (34) · Śloka 34
यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः |३४|
🔊 Audio coming soon
Adhikarana 29 (34) · Śloka 34
दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्रवं नरम् ||३४||
🔊 Audio coming soon
Adhikarana 30 (35) · Śloka 35
व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः | बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ||३५||
🔊 Audio coming soon
Adhikarana 31 (36-39) · Śloka 39
काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून् | गृध्रांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान् ||३६|| देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च हृद्याः | खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि ||३७|| मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः | अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् ||३८|| खादेत्, पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले | सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः ||३९||
🔊 Audio coming soon
Adhikarana 32 (40) · Śloka 40
मांसादमांसेषु घृतं च सिद्धं शोषापहं क्षौद्रकणासमेतम् |४०|
🔊 Audio coming soon
Adhikarana 33 (41) · Śloka 41
द्राक्षासितामागधिकावलेहः सक्षौद्रतैलः क्षयरोगघाती ||४०|| घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम् |४१|
🔊 Audio coming soon
Adhikarana 34 (41) · Śloka 41
सिताश्वगन्धामगधोद्भवानां चूर्णं घृतक्षौद्रयुतं प्रलिह्यात् ||४१||
🔊 Audio coming soon
Adhikarana 35 (42) · Śloka 42
क्षीरं पिबेद्वाऽप्यथ वाजिगन्धाविपक्वमेवं लभतेऽङ्गपुष्टिम् |४२|
🔊 Audio coming soon
Adhikarana 36 (42) · Śloka 42
तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वाऽपि पयोनुपानम् ||४२||
🔊 Audio coming soon
Adhikarana 37 (43) · Śloka 43
उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च |४३|
🔊 Audio coming soon
Adhikarana 38 (43) · Śloka 44
कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्रयुतं हिताशी ||४३|| यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च |४४|
🔊 Audio coming soon
Adhikarana 39 (44-45) · Śloka 46
शकृद्रसा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः ||४४|| मूर्वाहरिद्राखदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य | भागान् दशैतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम् ||४५|| कटुत्रिकं चैव सभद्रदारु घृतोत्तमं यक्ष्मनिवारणाय |४६|
🔊 Audio coming soon
Adhikarana 40 (46-48) · Śloka 48
द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च ||४६|| यवान् कुलत्थान् बदराणि भार्गीं पाठां हुताशं समहीकदम्बम् | कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम् ||४७|| व्योषं महावृक्षपयोऽभयां च चव्यं सुराख्यं लवणोत्तमं च | एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन ||४८||
🔊 Audio coming soon
Adhikarana 41 (49) · Śloka 49
गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्रसक्षीररसक्षतोत्थैः | द्राक्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि ||४९||
🔊 Audio coming soon
Adhikarana 42 (50-54) · Śloka 54
एलाजमोदामलकाभयाक्षगायत्र्यरिष्टासनशालसारान् | विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च ||५०|| पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च | त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च ||५१|| प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात् | पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रितश्च ||५२|| एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम् | यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च ||५३|| श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च | न चात्र किञ्चित् परिवर्जनीयं रसायनं चैतदुपास्यमानम् ||५४||
🔊 Audio coming soon
Adhikarana 43 (55) · Śloka 55
प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र |५५|
🔊 Audio coming soon
Adhikarana 44 (55) · Śloka 55
उपद्रवांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ||५५||
🔊 Audio coming soon
Adhikarana 45 (56) · Śloka 56
अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः | स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम् ||५६||
🔊 Audio coming soon
Adhikarana 46 (57) · Śloka 57
रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम् | सेवेत वा मागधिकाविधानं तथोपयोगं जतुनोऽश्मजस्य ||५७||
🔊 Audio coming soon
Adhikarana 47 (58) · Śloka 58
शोकं स्त्रियं क्रोधमसूयनं च त्यजे... |५८|
🔊 Audio coming soon
Adhikarana 48 (58) · Śloka 58
...दुदारान् विषयान् भजेत | वैद्यान् द्विजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ||५८||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 41
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे (तृतीयोऽध्यायः, आदित) एकचत्वारिंशोऽध्यायः ||४१||
🔊 Audio coming soon