Adhikarana 1 (1-3) · Śloka 3
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः | परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ||३||
🔊 Audio coming soon
Adhikarana 1 (1-3) · Śloka 3
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः | परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ||३||
🔊 Audio coming soon
Adhikarana 2 (4) · Śloka 5
सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम् | क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा ||४|| विपक्तव्यं घृतं चापि पानीयं पयसा सह |५|
🔊 Audio coming soon
Adhikarana 3 (5-6) · Śloka 6
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ||५|| गृध्रोलूकपुरीषाणि केशा हस्तिनखा घृतम् | वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च ||६||
🔊 Audio coming soon
Adhikarana 4 (7) · Śloka 7
अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत् |७|
🔊 Audio coming soon
Adhikarana 5 (7) · Śloka 8
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः ||७|| भूतौदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे |८|
🔊 Audio coming soon
Adhikarana 6 (8) · Śloka 8
चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना ||८||
🔊 Audio coming soon
Adhikarana 7 (9) · Śloka 9
स्कन्दापस्मारसञ्ज्ञो यः स्कन्दस्य दयितः सखा | विशाखसञ्ज्ञश्च शिशोः शिवोऽस्तु विकृताननः ||९||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 29
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दापस्मारप्रतिषेधो नाम (तृतीयोऽध्यायः, आदितः) एकोनत्रिंशोऽध्यायः ||२९||
🔊 Audio coming soon