Adhikarana 1 (1-2) · Śloka 2
अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः | न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः | व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते ||४||
🔊 Audio coming soon
Adhikarana 4 (5) · Śloka 5
क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात् |५|
🔊 Audio coming soon
Adhikarana 5 (5) · Śloka 5
तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् ||५||
🔊 Audio coming soon
Adhikarana 6 (6) · Śloka 6
त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः |६|
🔊 Audio coming soon
Adhikarana 7 (6) · Śloka 6
अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ||६||
🔊 Audio coming soon
Adhikarana 8 (7) · Śloka 8
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम् | कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम् ||७|| कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा |८|
🔊 Audio coming soon
Adhikarana 9 (8) · Śloka 9
आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः ||८|| पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य |९|
🔊 Audio coming soon
Adhikarana 10 (9-10) · Śloka 10
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ||९|| मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवाऽपि मूर्ध्नि | आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः ||१०||
🔊 Audio coming soon
Adhikarana 11 (11) · Śloka 11
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः | श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः ||११||
🔊 Audio coming soon
Adhikarana 12 (12) · Śloka 12
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि | शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ||१२||
🔊 Audio coming soon
Adhikarana 13 (13) · Śloka 13
भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः | कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः ||१३||
🔊 Audio coming soon
Adhikarana 14 (14) · Śloka 14
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः |१४|
🔊 Audio coming soon
Adhikarana 15 (14) · Śloka 14
छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् ||१४||
🔊 Audio coming soon
Adhikarana 16 (15) · Śloka 15
मूत्राशये पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च | शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे ||१५||
🔊 Audio coming soon
Adhikarana 17 (16) · Śloka 16
तन्द्राङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः |१६|
🔊 Audio coming soon
Adhikarana 18 (16) · Śloka 16
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघातद्धृदये व्यथा च ||१६||
🔊 Audio coming soon
Adhikarana 19 (17) · Śloka 17
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवाऽपि गुल्मः |१७|
🔊 Audio coming soon
Adhikarana 20 (17) · Śloka 17
जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्राभिघातादथवाऽपि तन्द्रा ||१७||
🔊 Audio coming soon
Adhikarana 21 (18) · Śloka 18
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् | शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् ||१८||
🔊 Audio coming soon
Adhikarana 22 (19) · Śloka 20
सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः | वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये ||१९|| सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे |२०|
🔊 Audio coming soon
Adhikarana 23 (20) · Śloka 20
आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते ||२०||
🔊 Audio coming soon
Adhikarana 24 (21) · Śloka 21
पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत् |२१|
🔊 Audio coming soon
Adhikarana 25 (21-25) · Śloka 26
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ||२१|| एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरं | धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्यहम् ||२२|| रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत् | मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम् ||२३|| भद्रदारु घनं मूर्वा हरिद्रा मधुकं तथा | कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा ||२४|| दुःस्पर्शास्वरसं वाऽपि कषायं कुङ्कुमस्य च | एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् ||२५|| पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा |२६|
🔊 Audio coming soon
Adhikarana 26 (26-27) · Śloka 27
योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः ||२६|| मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः | भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये ||२७||
🔊 Audio coming soon
Adhikarana 27 (28) · Śloka 28
स्नैहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत् |२८|
🔊 Audio coming soon
Adhikarana 28 (28) · Śloka 28
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः ||२८||
🔊 Audio coming soon
Adhikarana 29 (29) · Śloka 29
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः | वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् ||२९|| (तीक्ष्णौषधप्रधमनैरथवाऽऽदित्यरश्मिभिः||) |
🔊 Audio coming soon
Adhikarana 30 (30) · Śloka 31
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ||३०|| सुरां सौवर्चलवतीं बीजपूररसान्विताम् |३१|
🔊 Audio coming soon
Adhikarana 31 (31) · Śloka 32
छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ||३१|| सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत् |३२|
🔊 Audio coming soon
Adhikarana 32 (32-33) · Śloka 33
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ||३२|| आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः | रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ||३३||
🔊 Audio coming soon
Adhikarana 33 (34) · Śloka 34
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् |३४|
🔊 Audio coming soon
Adhikarana 34 (34) · Śloka 34
तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ||३४||
🔊 Audio coming soon
Adhikarana 35 (35) · Śloka 35
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः |३५|
🔊 Audio coming soon
Adhikarana 36 (35) · Śloka 35
निद्राघाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः ||३५||
🔊 Audio coming soon
Adhikarana 37 (36) · Śloka 36
आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि | यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत् ||३६||
🔊 Audio coming soon
Adhikarana 38 (37-40) · Śloka 41
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः | भोजनैः कुपितः सद्य उदावर्तं करोति हि ||३७|| वातमूत्रपुरीषासृक्कफमेदोवहानि वै | स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ||३८|| ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः | वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ||३९|| श्वासकासप्रतिश्यायदाहमोहवमिज्वरान् | तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ||४०|| लभते च बहूनन्यान् विकारान् वातकोपजान् |४१|
🔊 Audio coming soon
Adhikarana 39 (41) · Śloka 42
तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ||४१|| दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत् |४२|
🔊 Audio coming soon
Adhikarana 40 (42) · Śloka 43
न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः ||४२|| अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः |४३|
🔊 Audio coming soon
Adhikarana 41 (43-44) · Śloka 44
पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ||४३|| हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम् | योगावेतावुदावर्तं शूलं चानिलजं हतः ||४४||
🔊 Audio coming soon
Adhikarana 42 (45) · Śloka 46
देवदार्वग्निकौ कुष्ठं शुण्ठीं पथ्यां पलङ्कषाम् | पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् ||४५|| पादावशिष्टं तत् पीतमुदावर्तमपोहति |४६|
🔊 Audio coming soon
Adhikarana 43 (46-47) · Śloka 47
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम् ||४६|| आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत् | तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः ||४७||
🔊 Audio coming soon
Adhikarana 44 (48) · Śloka 48
वचामतिविषां कुष्ठं यवक्षारं हरीतकीम् | कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा ||४८||
🔊 Audio coming soon
Adhikarana 45 (49) · Śloka 50
इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम् | कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत् ||४९|| मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत् |५०|
🔊 Audio coming soon
Adhikarana 46 (50) · Śloka 51
यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके ||५०|| पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम् |५१|
🔊 Audio coming soon
Adhikarana 47 (51) · Śloka 52
मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम् ||५१|| सञ्चूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम् |५२|
🔊 Audio coming soon
Adhikarana 48 (52-53) · Śloka 53
चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ||५२|| कृतवेधनमागध्योर्लवणानां च साधयेत् | गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः | सद्यः शर्मकरावेतौ योगावमृतसम्मतौ ||५३||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 55
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातेन्त्रे उदावर्तप्रतिषेधो नाम (सप्तदशोऽध्यायः, आदितः) पञ्चपञ्चाशत्तमोऽध्यायः ||५५||
🔊 Audio coming soon