Adhikarana 1 (1-2) · Śloka 2
अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम् | विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
सूचीभिरिव गात्राणि तुदन् सन्तिष्ठतेऽनिलः | यस्याजीर्णेन सा वैद्यैरुच्यते ति विसूचिका ||४||
🔊 Audio coming soon
Adhikarana 4 (5) · Śloka 5
न तां परिमिताहारा लभन्ते विदितागमाः | मूढास्तामजितात्मानो लभन्ते कलुषाशयाः ||५||
🔊 Audio coming soon
Adhikarana 5 (6) · Śloka 6
मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः | वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ||६||
🔊 Audio coming soon
Adhikarana 6 (7-8) · Śloka 8
कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति विकूजति | निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति ||७|| वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत् | तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ ||८||
🔊 Audio coming soon
Adhikarana 7 (9) · Śloka 9
दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य | विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ||९||
🔊 Audio coming soon
Adhikarana 8 (10) · Śloka 10
यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः | दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च ||१०||
🔊 Audio coming soon
Adhikarana 9 (11) · Śloka 11
यः श्यावदन्तौष्ठनखोऽल्पसञ्ज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः | क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ||११||
🔊 Audio coming soon
Adhikarana 10 (12) · Śloka 12
साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम् | पक्वे ततोऽन्ने तु विलङ्घनं स्यात् सम्पाचनं चापि विरेचनं च ||१२||
🔊 Audio coming soon
Adhikarana 11 (13) · Śloka 13
विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम् |१३|
🔊 Audio coming soon
Adhikarana 12 (13) · Śloka 13
आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध ||१३||
🔊 Audio coming soon
Adhikarana 13 (14) · Śloka 14
पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम् | सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः ||१४||
🔊 Audio coming soon
Adhikarana 14 (15-16) · Śloka 16
क्षारागदं वा लवणं विडं वा गुडप्रगाढानथ सर्षपान् वा | अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सघृतौ त्रिवर्गौ ||१५|| कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु | कल्याणकं वा लवणं पिबेतु यदुक्तमादावनिलामयेषु ||१६||
🔊 Audio coming soon
Adhikarana 15 (17) · Śloka 18
कृष्णाजमोदक्षवकाणि वाऽपि तुल्यौ पिबेद्वा मगधानिकुम्भौ | दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन ||१७|| उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम् |१८|
🔊 Audio coming soon
Adhikarana 16 (18) · Śloka 19
व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः ||१८|| छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन |१९|
🔊 Audio coming soon
Adhikarana 17 (19) · Śloka 20
सुवामितं साधुविरेचितं वा सुलङ्घितं मनुजं विदित्वा ||१९|| पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत |२०|
🔊 Audio coming soon
Adhikarana 18 (20) · Śloka 21
आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन ||२०|| प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति |२१|
🔊 Audio coming soon
Adhikarana 19 (21) · Śloka 22
तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः ||२१|| आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च |२२|
🔊 Audio coming soon
Adhikarana 20 (22) · Śloka 23
स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च ||२२|| श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि |२३|
🔊 Audio coming soon
Adhikarana 21 (23) · Śloka 23
आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः ||२३||
🔊 Audio coming soon
Adhikarana 22 (24) · Śloka 24
अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च |२४|
🔊 Audio coming soon
Adhikarana 23 (24-25) · Śloka 25
विसूचिकायां परिकीर्तितानि द्रव्याणि वैरेचनिकानि यानि ||२४|| तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः | स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या ||२५||
🔊 Audio coming soon
Adhikarana 24 (26) · Śloka 27
मूत्रेषु संसाध्य यथाविधानं द्रव्याणि यान्यूर्ध्वमधश्च यान्ति | क्वाथेन तेनाशु निरुहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण ||२६|| त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च |२७|
🔊 Audio coming soon
Adhikarana 25 (27) · Śloka 27
एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च ||२७||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 56
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम (अष्टादशोऽध्यायः, आदितः ) षट्पञ्चाशत्तमोऽध्यायः ||५६||
🔊 Audio coming soon