Adhikarana apasmArasamprAptiH, sAmAnyalakShaNaM ca (1) · Śloka 1
अथापस्मारनिदानम् |
(चिन्ताशोकादिभिर्दोषाः क्रुद्धा हृत्स्रोतसि स्थिताः |
कृत्वा स्मृतेरपध्वंसमपस्मारं प्रकुर्वते) |
तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः |
अपस्मार इति ज्ञेयो गदो घोरश्चतुर्विधः ||१||
Adhikarana apasmArapUrvarUpam (2) · Śloka 2
हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्छा प्रमूढता |
निद्रानाशश्च तस्मिंश्च भविष्यति भवत्यथ ||२||
(सु. उ. तं. अ. ६१) |
Adhikarana vAtikApasmAralakShaNam (3) · Śloka 3
कम्पते प्रदशेद्दन्तान् फेनोद्वामी श्वसित्यपि |
परुषारुणकृष्णानि पश्येद्रूपाणि चानिलात् ||३||
(च. चि. अ. १०) |
Adhikarana paittikApasmAralakShaNam (4) · Śloka 4
पीतफेनाङ्गवक्त्राक्षः पीतासृग्रूपदर्शकः |
सतृष्णोष्णानलव्याप्तलोकदर्शी च पैत्तिकः ||४||
(च. चि. अ. १०) |
Adhikarana shlaiShmikApasmAralakShaNam (5) · Śloka 5
शुक्लफेनाङ्गवक्त्राक्षः शीतहृष्टाङ्गजो गुरुः |
पश्येछुक्लानि रूपाणि श्लैष्मिको मुच्यते चिरात् ||५||
(च. चि. अ. १०) |
Adhikarana sAnnipAtikApasmAralakShaNam apasmArasyAsAdhyalakShaNaM ca (6-7) · Śloka 7
सर्वैरेतैः समस्तैश्च लिङ्गैर्ज्ञेयस्त्रिदोषजः |
अपस्मारः स चासाध्यो यः क्षीणस्यानवश्च यः ||६||
(च. चि. अ. १०) |
प्रतिस्फुरन्तं बहुशः क्षीणं प्रचलितभ्रुवम् |
नेत्राभ्यां च विकुर्वाणमपस्मारो विनाशयेत् ||७||
Adhikarana apasmAraprakopakAlaH (8-9) · Śloka 9
पक्षाद्वा द्वादशाहाद्वा मासाद्वा कुपिता मलाः |
अपस्माराय कुर्वन्ति वेगं किञ्चिदथान्तरम् ||८||
(च. चि. अ. १०) |
देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् |
शरदि प्रतिरोहन्ति तथा व्याधिसमुच्छ्रयाः ||९||
(सु. उ. तं. अ. ६१) |
Adhikarana puShpikA · Śloka 21
इति श्रीमाधवकरविरचिते माधवनिदानेऽपस्मारनिदानं समाप्तम् ||२१||