Adhikarana apInasa/pInasalakShaNam (1) · Śloka 1
अथ नासारोगनिदानम् |
आनह्यते यस्य विशुष्यते च प्रक्लिद्यते धूप्यति चापि नासा |
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येदिह पीनसेन |
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम् ||१||
(सु. उ. तं. अ. २२) |
Adhikarana pUtinasyalakShaNam (2) · Śloka 2
दोषैर्विदग्धैर्गलतालुमूले सम्मूर्छितो यस्य समीरणस्तु |
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनस्यं प्रवदन्ति रोगम् ||२||
(सु. उ. तं. अ. २२) |
Adhikarana nAsApAkalakShaNam (3) · Śloka 3
घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः |
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावथवाऽपि यत्र ||३||
(सु. उ. तं. अ. २२) |
Adhikarana pUyaraktalakShaNam (4) · Śloka 4
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तैः |
नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ||४||
(सु. उ. तं. अ. २२) |
Adhikarana doShajakShavathulakShaNam (5) · Śloka 5
घ्राणाश्रिते मर्मणि सम्प्रदुष्टो यस्यानिलो नासिकया निरेति |
कफानुजातो बहुशोऽतिशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः ||५||
(सु. उ. तं. अ. २२) |
Adhikarana AgantujakShavathulakShaNam (6) · Śloka 6
तीक्ष्णोपयोगादभिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा |
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्घाटितेऽन्यः क्षवथुर्निरेति ||६||
(सु. उ. तं. अ. २२) |
Adhikarana bhraMshathulakShaNam (7) · Śloka 7
प्रभ्रश्यते नासिकया तु यस्य सान्द्रो विदग्धो लवणः कफस्तु |
प्राक्सञ्चितो मूर्धनि सूर्यतप्तस्तं भ्रंशथुं रोगमुदाहरन्ति ||७||
(सु. उ. तं. अ. २२) |
Adhikarana dIptalakShaNam (8) · Śloka 8
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः |
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति ||८||
(सु. उ. तं. अ. २२) |
Adhikarana pratInAhalakShaNam (9) · Śloka 9
उच्छ्वासमार्गं तु कफः सवातो रुन्ध्यात् प्रतीनाहमुदाहरेत्तम् |९|
(च. चि. अ. २६) |
Adhikarana nAsAsrAvalakShaNam (9) · Śloka 9
घ्राणाद्घनः पीतसितस्तनुर्वा दोषः स्रवेत् स्रावमुदाहरेत्तम् ||९||
(च. चि. अ. २६) |
Adhikarana nAsAshoShalakShaNam (10) · Śloka 10
घ्राणाश्रिते स्रोतसि मारुतेन गाढं प्रतप्ते परिशोषिते च |
कृच्छ्राच्छ्वसेदूर्ध्वमधश्च जन्तुर्यस्मिन् स नासापरिशोष उक्तः ||१०||
(सु. उ. तं. अ. २२) |
Adhikarana pInasasyAmapakvalakShaNam (11-12) · Śloka 12
शिरोगुरुत्वमरुचिर्नासास्रावस्तनुः स्वरः |
क्षामः ष्ठीवत्यथाभीक्ष्णमामपीनसलक्षणम् ||११||
आमलिङ्गान्वितः श्लेष्मा घनः खेषु निमज्जति |
स्वरवर्णविशुद्धिश्च परिपक्वस्य लक्षणम् ||१२||
Adhikarana pratishyAyasya nidAnapUrvikA samprAptiH (13-14) · Śloka 14
सन्धारणाजीर्णरजोतिभाष्यक्रोधर्तुवैषम्यशिरोभितापैः |
प्रजागरातिस्वपनाम्बुशीतैरवश्यया मैथुनबाष्पधूमैः |
संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु ||१३||
(च. चि. अ. २६) |
चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम् |
प्रकुप्यमाणा विविधैः प्रकोपणैस्ततः प्रतिश्यायकरा भवन्ति हि ||१४||
(सु. उ. तं. अ. २४) |
Adhikarana pratishyAyapUrvarUpam (15) · Śloka 15
क्षवप्रवृत्तिः शिरसोऽतिपूर्णता स्तम्भोऽङ्गमर्दः परिहृष्टरोमता |
उपद्रवाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ||१५||
(सु. उ. तं. अ. २४) |
Adhikarana vAtaja-pittaja-kaphajapratishyAyalakShaNam (16-19) · Śloka 19
आनद्धा पिहिता नासा तनुस्रावप्रसेकिनी |
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ||१६||
(सु. उ. तं. अ. २४) |
क्षवप्रवृत्तिरत्यर्थं वक्त्रवैरस्यमेव च |
भवेत् स्वरोपघातश्च प्रतिश्यायेऽनिलात्मके ||१७||
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके |
कृशोऽतिपाण्डुः सन्तप्तो भवेदुष्णाभिपीडितः ||१८||
सधूममग्निं सहसा वमतीव स मानवः |
घ्राणात् कफः कफकृते शीतः पाण्डुः स्रवेद्बहुः |
शुक्लावभासः शुक्लाक्षो भवेद्गुरुशिरा नरः ||१९||
कण्ठताल्वोष्ठशिरसां कण्डूभिरभिपीडितः |
(सु. उ. तं. अ. २४) |
Adhikarana sannipAtajapratishyAyalakShaNam (20) · Śloka 20
भूत्वा भूत्वा प्रतिश्यायो यस्याकस्मान्निवर्तते ||२०||
सम्पक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः |
(सु. उ. तं. अ. २४) |
Adhikarana duShTapratishyAyalakShaNam (21-22) · Śloka 22
प्रक्लिद्यते पुनर्नासा पुनश्च परिशुष्यति ||२१||
पुनरानह्यते वाऽपि पुनर्विव्रियते तथा |
निःश्वासो वाऽतिदुर्गन्धो नरो गन्धान् न वेत्ति च ||२२||
एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम् |
(सु. उ. तं. अ. २४) |
Adhikarana raktajapratishyAyalakShaNam (23-24) · Śloka 24
रक्तजे तु प्रतिश्याये रक्तस्रावः प्रवर्तते ||२३||
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः |
दुर्गन्धोच्छ्वासवदनो गन्धानपि न वेत्ति सः ||२४||
(सु. उ. तं. अ. २४) |
Adhikarana pratishyAyasyAsAdhyalakShaNam (25-26) · Śloka 26
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः |
दुष्टतां यान्ति कालेन तदाऽसाध्या भवन्ति हि ||२५||
मूर्छन्ति चात्र क्रिमयः श्वेताः स्निग्धास्तथाऽणवः |
क्रिमितो यः शिरोरोगस्तुल्यं तेनास्य लक्षणम् ||२६||
(सु. उ. तं. अ. २४) |
Adhikarana pravRuddhapratishyAyajanyA vikArAH (27) · Śloka 27
बाधिर्यमान्ध्यमघ्रत्वं घोरांश्च नयनामयान् |
शोथाग्निसादकासांश्च वृद्धाः कुर्वन्ति पीनसाः ||२७||
(सु. उ. तं. अ. २४) |
Adhikarana nAsAgatArbuda-shothArsho-raktapittAnAM bhedAni (28) · Śloka 28
अर्बुदं सप्तधा शोथाश्चत्वारोऽर्शश्चतुर्विधम् |
चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः ||२८||
Adhikarana puShpikA · Śloka 58
इति श्रीमाधवकरविरचिते माधवनिदाने नासारोगनिदानं समाप्तम् ||५८||