Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

57. karṇarōganidānam

Adhikarana karNashUlasya samprAptipUrvakaM lakShaNam (1) · Śloka 1

अथ कर्णरोगनिदानम् | समीरणः श्रोत्रगतोऽन्यथाचरन् समन्ततः शूलमतीव कर्णयोः | करोति दोषैश्च यथास्वमावृतः स कर्णशूलः कथितो दुराचरः ||१|| (सु. उ. तं. अ. २०) |

🔊 Audio coming soon

Adhikarana karNanAda-bAdhiryalakShaNam (2-3) · Śloka 3

कर्णस्रोतः स्थिते वाते शृणोति विविधान् स्वरान् | भेरीमृदङ्गशङ्खानां कर्णनादः स उच्यते ||२|| यदा शब्दवहं वायुः स्रोत आवृत्य तिष्ठति | शुद्धः श्लेष्मान्वितो वाऽपि बाधिर्यं तेन जायते ||३||

🔊 Audio coming soon

Adhikarana karNakShveDalakShaNam (4) · Śloka 4

वायुः पित्तादिभिर्युक्तो वेणुघोषोपमं स्वनम् | करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ||४||

🔊 Audio coming soon

Adhikarana karNasrAvalakShaNam (5) · Śloka 5

शिरोऽभिघातादथवा निमज्जतो जले प्रपाकादथवाऽपि विद्रधेः | स्रवेद्धि पूयं श्रवणोऽनिलार्दितः स कर्णसंस्राव इति प्रकीर्तितः ||५|| (सु. उ. तं. अ. २०) |

🔊 Audio coming soon

Adhikarana karNagUthaka-karNapratinAhalakShaNam (6-7) · Śloka 7

मारुतः कफसंयुक्तः कर्णकण्डूं करोति च | पित्तोष्मशोषितः श्लेष्मा कुरुते कर्णगूथकम् ||६|| स कर्णगूथो द्रवतां गतो यदा विलायितो घ्राणमुखं प्रपद्यते | तदा स कर्णप्रतिनाहसञ्ज्ञितो भवेद्विकारः शिरसोऽर्धभेदकृत् ||७|| (सु. उ. तं. अ. २०) |

🔊 Audio coming soon

Adhikarana krimikarNakalakShaNam (8) · Śloka 8

यदा तु मूर्छन्त्यथवाऽपि जन्तवः सृजन्त्यपत्यान्यथवाऽपि मक्षिकाः | तद्व्यञ्जनत्वाच्छ्रवणो निरुच्यते भिषग्भिराद्यैः क्रिमिकर्णको गदः ||८|| (सु. उ. तं. अ. २०) |

🔊 Audio coming soon

Adhikarana karNapraviShTapata~ggakITAdilakShaNam (9-10) · Śloka 10

पतङ्गाः शतपद्यश्च कर्णस्रोतः प्रविश्य हि | अरतिं व्याकुलत्वं च भृशं कुर्वन्ति वेदनाम् ||९|| कर्णो निस्तुद्यते तस्य तथा फरफरायते | कीटे चरति रुक् तीव्रा निष्पन्दे मन्दवेदना ||१०||

🔊 Audio coming soon

Adhikarana karNavidradhilakShaNam (11) · Śloka 11

क्षताभिघातप्रभवस्तु विद्रधिर्भवेत्तथा दोषकृतोऽपरः पुनः | सरक्तपीतारुणमस्रमास्रवेत् प्रतोदधूमायनदाहचोषवान् ||११|| (सु. उ. तं. अ. २०) |

🔊 Audio coming soon

Adhikarana karNapAkalakShaNam (12) · Śloka 12

कर्णपाकस्तु पित्तेन कोथविक्लेदकृद्भवेत् | कर्णविद्रधिपाकाद्वा जायते चाम्बुपूरणात् ||१२||

🔊 Audio coming soon

Adhikarana pUtikarNalakShaNam (13) · Śloka 13

पूयं स्रवति पूति वा स ज्ञेयः पूतिकर्णकः |१३|

🔊 Audio coming soon

Adhikarana karNagatashothArbudArshasAM lakShaNam (13) · Śloka 13

कर्णशोथार्बुदार्शांसि जानीयादुक्तलक्षणैः ||१३||

🔊 Audio coming soon

Adhikarana karNarogasya vAtajAdibhedena lakShaNAni (14-15) · Śloka 15

नादोऽतिरुक् कर्णमलस्य शोषः स्रावस्तनुश्चाश्रवणं च वातात् | शोथः सरागो दरणं विदाहः सपीतपूतिस्रवणं च पित्तात् ||१४|| वैश्रुत्यकण्डूस्थिरशोथशुक्लस्निग्धस्रुतिः स्वल्परुजः कफाच्च | सर्वाणि रूपाणि च सन्निपातात् स्रावश्च तत्राधिकदोषवर्णः ||१५|| (च. चि. अ. २६) |

🔊 Audio coming soon

Adhikarana paripoTakalakShaNam (16) · Śloka 16

सौकुमार्याच्चिरोत्सृष्टे सहसाऽतिप्रवर्धिते | कर्णशोथो भवेत् पाल्यां सरुजः परिपोटवान् | कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ||१६|| (सु. चि. अ. २५) |

🔊 Audio coming soon

Adhikarana utpAtalakShaNam (17) · Śloka 17

गुर्वाभरणसंयोगात्ताडनाद्घर्षणादपि | शोथः पाल्यां भवेच्छ्यावो दाहपाकरुजान्वितः ||१७|| रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः | (सु. चि. अ. २५) |

🔊 Audio coming soon

Adhikarana unmanthakalakShaNam (18-20) · Śloka 20

कर्णं बलाद्वर्धयतः पाल्यां वायुः प्रकुप्यति ||१८|| कफं सङ्गृह्य कुरुते शोथं स्तब्धमवेदनम् | उन्मन्थकः सकण्डूको विकारः कफवातजः ||१९|| संवर्ध्यमाने दुर्विद्धे कण्डूपाकरुजान्वितः | शोथो भवति पाकश्च त्रिदोषो दुःखवर्धनः ||२०|| (सु. चि. अ. २५) |

🔊 Audio coming soon

Adhikarana parilehIlakShaNam (21-22) · Śloka 22

कफासृक्क्रिमयः क्रुद्धाः सर्षपाभा विसर्पिणः | कुर्वन्ति पाल्यां पिडकाः कण्डूदाहरुजान्विताः ||२१|| कफासृक्क्रिमिसम्भूतः स विसर्पन्नितस्ततः | लिहेत् सशष्कुलीं पालीं परिलेहीति स स्मृतः ||२२|| (सु. चि. अ. २५) |

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 57

इति श्रीमाधवकरविरचिते माधवनिदाने कर्णरोगनिदानं समाप्तम् ||५७||

🔊 Audio coming soon