Adhikarana adhyAyopakramaH (1) · Śloka 1
अस्मादनन्तरं बस्तिव्यापत्सिद्धिर्व्याख्यायते||१||
🔊 Audio coming soon
Adhikarana adhyAyopakramaH (1) · Śloka 1
अस्मादनन्तरं बस्तिव्यापत्सिद्धिर्व्याख्यायते||१||
🔊 Audio coming soon
Adhikarana bastivyApatsiddhiradhyAyaH (2) · Śloka 2
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे)|२|
🔊 Audio coming soon
Adhikarana nirUhavyApadaH, ayogavyApadaH, vibandhAkhyA vyApattatsiddhiSca (1-6) · Śloka 6
अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः| शीतोऽल्पस्नेहलवणद्रव्यमात्रो घनोऽपि वा||१|| बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्| करोत्ययोगं तेन स्याद्वातमूत्रशकृदग्रहः||२|| नाभिबस्तिरुजा दाहो हृल्लेपः श्वयथुर्गुदे| कण्डूर्गण्डानि वैवर्ण्यमरतिर्वह्निमार्दवम्||३|| क्वाथद्वयं प्राग्विहितं मध्यदोषेऽतिसारिणि| उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते||४|| फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम्| बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्||५|| सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत्| |६|
🔊 Audio coming soon
Adhikarana AdhmAnAkhyA vyApattatsiddhiSca (6-10) · Śloka 10
| युक्तोऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशयेऽथवा||६|| बस्तिर्दोषावृतो रूद्धमार्गो रुन्ध्यात्समीरणम्| स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्||७|| विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम्| रुणद्धि हृदयं शूलैरितश्चेतश्च धावति||८|| स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत्| बिल्वादिश्च निरूहः स्यात्पीलुसर्षपमूत्रवान्||९|| सरलामरदारुभ्यां साधितं चानुवासनम्| |१०|
🔊 Audio coming soon
Adhikarana UrdhvamArUtAkhyA vyApattatsiddhiSca (10-21) · Śloka 21
| कुर्वतो वेगसंरोधं पीडितो वाऽतिमात्रया||१०|| अस्निग्धलवणोष्णो वा बस्तिरल्पोऽल्पभेषजः| मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात्||११|| निरेति मूर्च्छाहृल्लासतृड्दाहादीन् प्रवर्तयन्| मूर्च्छाविकारं दृष्ट्वाऽस्य सिञ्चेच्छीताम्बुना मुखम्||१२|| व्येजदाक्लमनाशाच्च प्राणायामं च कारयेत्| पृष्ठपार्श्वोदरं मृज्यात् करैरुष्णैरधोमुखम्||१३|| केशेषूत्क्षिप्य धुन्वीत भीषयेद्व्यालदंष्ट्रिभिः| शस्त्रोल्काराजपुरुषैर्बस्तिरेति तथा ह्यधः||१४|| पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते तथा| प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः||१५|| अपानः पवनो बस्तिं तमाश्वेवापकर्षति| कुष्ठक्रमुककल्कं च पायेताम्लसंयुतम्||१६|| ओष्ण्यात्तैक्ष्ण्यात्सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत् गोमूत्रेण त्रिवृत्पथ्याकल्कं वाऽधोनुलोमनम्||१७|| पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः| यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः||१८|| बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः| पूतीकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः||१९|| सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान्| बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते||२०|| शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः| |२१|
🔊 Audio coming soon
Adhikarana atiyogavyApadaH (21-23) · Śloka 23
| बस्तिरत्युष्णतीक्ष्णाम्लघनोऽतिस्वेदितस्य वा||२१|| अल्पे दोषे मृदौ कोष्ठे प्रयुक्तो वा पुनःपुनः| अतियोगत्वमापन्नो भवेत्कुक्षिरुजाकरः||२२|| विरेचनातियोगेन स तुल्याकृतिसाधनः| |२३|
🔊 Audio coming soon
Adhikarana kukShishUlAkhyA vyApattatsiddhiSca sravAkhyA vyApattatsiddhiSca (23-28) · Śloka 28
| बस्तिः क्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा||२३|| गुदं दहन् लिखन् क्षिण्वन् करोत्यस्य परिस्रवम्| स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः||२४|| बहुशश्चातिवेगेन मोहं गच्छति सोऽसकृत्| रक्तपित्तातिसारघ्नी क्रिया तत्र प्रशस्यते||२५|| दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत्| तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकान् जयेत्||२६|| विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम्| युञ्याद्वाऽतिविरिक्तस्य क्षीणविट्कस्य भोजनम्||२७|| माषयूषेण कुल्माषान् पानं दध्यथवा सुराम्| सिद्धिर्वस्त्यापदामेवं|२८|
🔊 Audio coming soon
Adhikarana anuvAsanavyApadaH (28) · Śloka 28
| स्नेहबस्तेस्तु वक्ष्यते||२८||
🔊 Audio coming soon
Adhikarana tatra pa~jcavyApadAM kAraNam (29-30) · Śloka 30
शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः| अतिभुक्ते गुरुर्वर्चःसञ्चयेऽल्पबलस्तथा||२९|| दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि| |३०|
🔊 Audio coming soon
Adhikarana vAtAvRutasya lakShaNaM cikitsitaM ca (30-33) · Śloka 33
| स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः||३०|| पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम्| स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः||३१|| सौवीरकसुराकोलकुलत्थयवसाधितैः| निरूहैर्निर्हरेत्सम्यक् समूत्रैः पाञ्चमूलिकैः||३२|| ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत्| |३३|
🔊 Audio coming soon
Adhikarana pittAvRutasya lakShaNaM cikitsitaM ca (33-34) · Śloka 34
| तृड्दाहरागसम्मोहवैवर्ण्यतमकज्वरैः||३३|| विद्यात्पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत्| |३४|
🔊 Audio coming soon
Adhikarana kaPAvRutasya lakShaNaM cikitsitaM ca (34-36) · Śloka 36
| तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः||३४|| सम्मूर्च्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम्| कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः||३५|| फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत्| |३६|
🔊 Audio coming soon
Adhikarana atyashanAvRutasya lakShaNaM cikitsitaM ca (36-38) · Śloka 38
| छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः||३६|| आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम्| कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्||३७|| मृदुर्विरेकः सर्वं च तत्रामविहितं हितम्| |३८|
🔊 Audio coming soon
Adhikarana viDAvRutasya lakShaNaM cikitsitaM ca (38-40) · Śloka 40
| विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः||३८|| स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः| श्यामाबिल्वादिसिद्धैश्च निरुहैः सानुवासनैः||३९|| निर्हरेद्विधिना सम्यगुदावर्तहरेण च| |४०|
🔊 Audio coming soon
Adhikarana aBuktAdidattasya lakShaNaM cikitsitaM ca (40-43) · Śloka 43
| अभुक्ते शूनपायौ वा पेयामात्राशितस्य वा||४०|| गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः| ऊर्ध्वं कायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि||४१|| मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्| तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः||४२|| कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः| छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निबर्हणम्||४३||
🔊 Audio coming soon
Adhikarana Amadattasya lakShaNaM cikitsitaM ca (44-45) · Śloka 45
नापक्वं प्रणयेत्स्नेहं गुदं स ह्युपलिम्पति| ततः कुर्यात्सरुङ्मोहकण्डूशोफान्, क्रियाऽत्र च||४४|| तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम्| |४५|
🔊 Audio coming soon
Adhikarana savAtapraNayanasya lakShaNaM cikitsitaM ca (45-46) · Śloka 46
| अनुच्छ्वास्य तु बद्धे वा दत्ते निःशेष एव वा||४५|| प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत्| तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च||४६||
🔊 Audio coming soon
Adhikarana atidrutotkShiptayoH lakShaNaM cikitsitaM ca (47-48) · Śloka 48
द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा| स्यात् कटीगुदजङ्घोरुबस्तिस्तम्भार्तिभेदनम्||४७|| भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः| |४८|
🔊 Audio coming soon
Adhikarana ulluptasya lakShaNaM cikitsitaM ca (48-49) · Śloka 49
| पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः||४८|| उरःशिरोरुजं सादमूर्वोश्च जनयेद्बली| बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्||४९||
🔊 Audio coming soon
Adhikarana ativegasya lakShaNaM cikitsitaM ca (50) · Śloka 50
अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्| तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च||५०||
🔊 Audio coming soon
Adhikarana vamanAdishuddhasya visheShato~apacAraniShedhaH (51-52) · Śloka 52
वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम्| यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथा तथा||५१|| भिषक् प्रयत्नतो रक्षेत्सर्वस्मादपचारतः| |५२|
🔊 Audio coming soon
Adhikarana shuddhasyopacAraH (5) · Śloka 5
| दद्यान्मधुरहृद्यानि ततोऽम्ललवणौ रसौ||५२|| स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः| अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः||५३|| व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत्| सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः||५४|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां पञ्चमे कल्पसिद्धिस्थाने बस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon